षष्ठः पाठः आहारविचार:
1. संस्कृतेन उत्तरत
(क) एष: पाठ: कस्मात् ग्रन्थात् उद्धृतः?
उत्तर: एषः पाठः ‘चरकसंहितायाः' उद्धृतः ।
(ख) चरकसंहिताया: रचयिता कः ?
उत्तर: चरकसंहिताया: रचयिता महर्षि चरकः अस्ति।
(ग) कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति
?
उत्तर: स्निग्धं भोजनं इन्द्रियाणि दृढीकरोति ।
(घ) अजीर्णे भुञ्जानस्य कः दोषः भवति?
उत्तर: अजीर्णे भुञ्जानस्य भुक्तं आहारजातं पूर्वस्य आहारस्य
अपरिणितं रसम् उत्तेरण आहार रसेन उपसृजत् आशु एव सर्वान् दोषान् प्रकोपयति ।
(ङ) कीदृशं भोजनं श्लेष्माणं परिह्रासयति?
उत्तर: उष्णं भोजनं श्लेष्माणं परिह्रासयति।
(च) कीदृशं भोजनं बलाभिवृद्धिम् उपजनयति?
उत्तर: स्निग्धं भोजनं बलाभिवृद्धिम् उपजनयति ।
(छ) इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्
?
उत्तर: इष्ट-सर्वोपकरणं भोजनं इष्टे स्थाने अश्नीयात्।
(ज) कथं भुञ्जानस्य उत्स्नेहनस्य समाप्तिः
न नियता ?
उत्तर: अतिद्रुतं भुञ्जानस्य उत्स्नेहस्य समाप्तिः न नियता
।
(झ) अतिविलम्बितं हि भुञ्जानः कां न अधिगच्छति
?
उत्तर: अतिविलम्बितं हि भुञ्जानः तृप्तिम् नाधिगच्छति ।
(ञ) जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के
दोषाः भवन्ति ?
उत्तर: ये दोषाः अतिद्रुतं अश्नतः भवन्ति, ते एव दोषाः जल्पतः,
हसतः, अन्यमनसः वा भुञ्जानस्य भवन्ति।
2. उचितक्रियापदैः रिक्तस्थानानि पूरयत
(क) बहु भुक्तं आहारजातम् ....शीतीभवति विषमं च पच्यते ...।
(ख) अजल्पन् अहसन् ......भुज्जीत.....।
(ग) उष्णं हि भुज्यमानं ....स्वदते....।
(घ) उष्णं भोजनं उदरस्य अग्निम् ...........उदीरयति............।
(ङ) स्निग्धं भुज्यमानं भोजनम् शरीरम् .....उपचिनोति.....।
(च) मात्रावद् हि भुक्तं सुखं ...........विपच्यते............।
(छ) अतिद्रुतं हि न ........अश्नीयात्......।
(ज) उष्णं भोजनं वातम् .....अनुलोमयति....।
3. अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत
शीघ्रम्, उष्णम्, स्निग्धम्, तैलादियुक्तम्,
विवर्धयति अतिद्रुतम् अतिविलम्बितम् पच्यते।
उत्तर:
शीघ्रम्- बालकः शीघ्रम् भोजनं
करोति।
उष्णम्- सदैव उष्णम् भोजनं
करणीयम्।
स्निग्धम्- अशोकः स्निग्धम् भोजनं
न करोति ।
तैलादियुक्तम्-
तैलादियुक्तम् भोजनं बलाभिवृद्धिं करोति ।
विवर्धयति- सन्तुलित-आहारः आयुः
विवर्धयति ।
अतिद्रुतम् -अतिद्रुतम् न अश्नीयात् ।
अतिविलम्बितम्-
अतिविलम्बितं न अश्नीयात् ।
पच्यते- सन्तुलित भोजनं सम्यक्तया
पच्यते।
4. अधोलिखितप्रकृतिप्रत्ययविभागं योजयत
यथा- जृ + क्त नपुं., प्र. एकवचनम् = जीर्णम्।
अश् शतृ पुं. प्रथमा एकवचनम् = अश्नन्।
अभि वृध् णिच् लट् प्र. पु. एकवचनम् = अभिवर्धयति।
उप + सृज् कर्मवाच्य, लट्, प्र. पु. एकवचनम् = उपसृज्यते।
इष् + क्त पुं. सप्तमी एकवचनम् = इष्टे।
भुज् शानच्, पुं. षष्ठी, एकवचनम् = भुञ्जानस्य
।
न हसन् इति = अहसन्।
प्र + कुप् + णिच् लट्, प्र. पु. एकवचनम् = प्रकोपयति ।
जन् + क्त स्त्रीलिङ्गम् = जाता।
उप + चि + लट्, प्र. पु. एकवचनम् = उपचिनोति।
अभि + नि + वृत् + णिच्, लट्लकार,प्र.
पु. एकवचनम् = अभिनिर्वर्तयति ।
5. अधोलिखतानां पदानां सन्धिच्छेदं कुरुत
जीर्णेऽश्नीयात्, चोष्माणं, पूर्वस्याहारस्य,
प्रकोपयत्याशु, दोषेष्वग्नौ, अभ्यवहृतम्, तस्माज्जीर्णे, चाश्नीयात् ।
उत्तर:
पदम् |
सन्धि-विच्छेदः |
(1)
जीर्णेऽश्नीयात् |
जीर्णे
+ अश्नीयात्। |
(2) चोष्माणं |
च
+ ऊष्माणम्। |
(3)
पूर्वस्याहारस्य |
पूर्वस्य
+ आहारस्य । |
(4)
प्रकोपयत्याशु |
प्रकोपयति
+ आशु। |
(5) दोषेष्वग्नौ |
दोषेषु + अग्नौ। |
(6)
अभ्यवहृतम् |
अभि
+ अवहृतम् । |
(7)
तस्माज्जीर्णे |
तस्मात्
+ जीर्णे। |
(8)
चाश्नीयात् |
च
+ अश्नीयात्। |
6. अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत
मुखेषु, सर्वान्, हृदये, वृद्धिम्, जराम्,
भुञ्जानस्य।
उत्तर:
पदम् |
विभक्तिः |
(1)
मुखेषु |
सप्तमी
विभक्ति, बहुवचनम् । |
(2)
सर्वान् |
द्वितीया
विभक्ति, बहुवचनम् । |
(3)
हृदये |
सप्तमी
विभक्ति, एकवचनम्। |
(4)
वृद्धिम् |
द्वितीया
विभक्ति, एकवचनम् । |
(5)
जराम |
द्वितीया
विभक्ति, एकवचनम्। |
(6)
भुञ्जानस्य |
षष्ठी
विभक्ति, एकवचनम् । |
7. पाठात् चित्वा विलोमशब्दान् लिखत
उत्तर:
शब्द |
विलोम
शब्द |
विरुद्धम्
|
अविरुद्धम् |
अतिविलम्बितम् |
अतिद्रुतम् |
जल्पन् |
अजल्पन् |
हसन् |
अहसन्,
रुदन् |
जीर्णे |
अजीर्णे |
इष्टम् |
अनिष्टम् |
तन्मनाः |
अन्यमनाः |
अतिद्रुतम् |
अतिविलम्बितम् |
8. इष्टे देशे .............चाश्नीयात् इत्यस्य गद्यांशस्य आशयं हिन्दी भाषया स्पष्टं कुरुत
उत्तर: अभीष्ट अथवा मनपसन्द स्थान पर तथा मनोवांछित खाद्य-पदार्थों से युक्त भोजन करना चाहिए क्योंकि मनपसन्द स्थान पर मनोवांछित भोजन करने से वे कष्ट तथा विकार उत्पन्न नहीं होते जो अवांछित स्थान पर भोजन करने से उत्पन्न होते हैं।