Class XII (संस्कृत) नवम: पाठ: कार्यं वा साधयेयम्, देहं वा पातयेयम्
नवम :
पाठ : कार्यं वा साधयेयम्, देहं वा पातयेयम् प्रश्न 1. संस्कृतेन उत्तरं दीयताम् - (क) सायं समये भगवान् भास्कर: कुत्र जिगमिषुः भवति ? उत्तर
: सायं समये भगवान् भास्करः अस्तं जिगमिषुः भवति। (ख) अस्ताचलगमनकाले भास्करस्य वर्णः कीदृशः भवति ? उत्तर
: अस्ताचलगमनकाले भास्करस्य वर्णः अरुणः भवति। (ग) नीडेषु के प्रतिनिवर्तन्ते ? उत्तर
: नीडेषु कलविड्काः प्रतिनिवर्तन्ते। (घ) शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म ? उत्तर
: शिववीरस्य विश्वासपात्रं तोरणदुर्गं प्रयाति
स्म। (ङ) प्रतिक्षणमधिकाधिका श्यामतां कानि कलयन्ति ? उत्तर
: प्रतिक्षणमधिकाधिका श्यामतां वनानि कलयन्ति। (च) शिववीरविश्वासपात्रस्य उष्णीषम् कीदृशमासीत् ? उत्तर
: शिववीरविश्वासपात्रस्य उष्णीषं राजतसूत्रितम्, बहुल-चाकचक्यम्, वक्रम्, हरितवर्णं
च आसीत्। (छ) मेघमाला कथं शोभते ? उत्तर
: मेघमाला
दीर्घशुण्डमण्डितानां दिग्गजानां दन्तावलाः इव भयानकाकारा शोभते। प्रश्न 2. समीचीनोत्तरसङ्ख्यां कोष्ठके लिखत - अ. शिवराजविजयस्य रचयिता कः अस्ति ? (क)
बाणभट्टः (ख)
श्रीहर्षः (ग)
अम्बिकादत्तव्यासः (घ)
माघः उत्तर : (ग) अम्बिकादत्तव्यासः आ. कतिवर्षदेशीयो…