Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्

Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्

 

द्वादशः पाठः गान्धिनः संस्मरणम्

PDF. Book Download करे

1. संस्कृतेन उत्तरं दीयताम्

(क) प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङ्कलितः?

उत्तर: प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः ।

(ख) गान्धिन: आत्मकथा मूलतः कस्यां भाषायां लिखिता ?

उत्तर: गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता।

(ग) गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः कः ?

उत्तर: गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित होसकेरे नागप्पशास्त्री अस्ति ।

(घ) महात्मा गाँधी किन्नाम नाटकम् अपठत् ?

उत्तर: महात्मागांधी ‘श्रवणपितृभक्तिः’ नामक नाटकमपठत् ।

(ङ) गान्धिनः ग्रामं के उपागच्छन्?

उत्तर: गान्धिनः ग्रामं पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन् ।

(च) गान्धिनः मनसि कयो : विलापः पुनः पुनः श्रूयते स्म ?

उत्तर: गान्धिनः मनसि श्रवणस्य मातापित्रोः विलापः पुनःपुनः श्रूयते स्म ।

(छ) महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्?

उत्तर: महात्मागांधी हरिश्चन्द्र नाटकं द्रष्टुं स्वपितुः अनुज्ञाम् अध्यगच्छत्।

(ज) कस्य कथायां सत्यत्वप्रतीतिः आसीत् ?

उत्तर: हरिश्चन्द्रस्य कथायां सत्यत्वप्रतीतिः आसीत्।

(झ) कौ गान्धिन: हृदये नित्यसन्निहितौ आस्ताम्?

उत्तर: श्रवणहरिश्चन्दौ गान्धिनः हृदये नित्यसन्निहितौ आस्ताम् ।

(ञ) कीदृशस्य श्रवणस्य प्रतिकृति: गान्धिना अवलोकिता ?

उत्तर: स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिः गान्धिनाऽवलोकिता ।

(ट) गान्धिनः मनसा किं प्रयुक्तम् आसीत् ?

उत्तर: गान्धिनः मनसा सत्यहरिश्चन्द्रनाटकं प्रयुक्तम् ।

(ठ) क: प्रश्न: गान्धिनः मनसि पुनः पुनः स्फुरति स्म ?

उत्तर: 'हरिश्चन्द्रेणेव सर्वैरपि कस्मात् सत्यवद्भिः न भवितव्यम्' इति प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म।

 

2. रिक्त स्थानानि पूरयत

(क) ग्रामात् ग्रामं ....पर्यटन्तः........ पुत्तलिकाप्रदर्शनोपजीविन: उपागच्छन् ?

(ख) श्रवणस्य पितृभक्तिः ....आदर्शरूपेण......... त्वया स्थापनीया।

(ग) स राग: मे ......हृदयं......... तन्मयमकरोत्।

(घ) अनेकशः मे नेत्राभ्याम् .....अश्रूणि....... विस्सारितानि ।

(ङ) हरिश्चन्द्र श्रवणौ .....उभावपि.......... मम हृदये नित्यसन्निहितौ ।

 

3. अधोलिखितेषु यथानिर्देशं पदचयनादिकं कुरुत

(क) अस्मात् पाठात् अव्ययपदानि चिनुत ।

उत्तर: अव्ययपदानि-(उपरि (ऊपर), कथम् (कैसे), अपि (भी), एव (ही), इति (इस प्रकार या यह), च (और), कदापि (कभी), अद्य (आज), पुनः पुनः (बार-बार), तथापि (फिर भी), किन्तु (लेकिन), इव (तरह, समान), वत् (तरह), अनेकशः (अनेकबार), अक्षरशः (अक्षर-अक्षर)।

 

(ख) एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत

      पर्यटनम्, उद्दिश्य, संवृत्ता, प्राप्य, भवितव्यम्

उत्तर:

(i) पर्यटनम्- तीर्थस्थानानां पर्यटनं मह्यं रोचते।

(ii) उद्दिश्य- किं उद्दिश्य त्वं तत्र गतवान्?

(iii) संवृत्ता- श्रवणसदृशी एका घटना मम जीवने संवृत्ता ।

(iv) प्राप्य- सः पितुः आज्ञां प्राप्य चलचित्रं द्रष्टुं गतवान् ।

(v) भवितव्यम्- सर्वैः हरिश्चन्द्रेणेव सत्यवद्भिः भवितव्यम् ।

 

(ग) अस्मिन् पाठे कर्मवाच्ये प्रयुक्तानि क्रियापदानि चिनुत ।

उत्तर: कर्मवाच्ये प्रयुक्तानि क्रियापदानि- अवलोकिता, स्थापनीया, श्रूयते, भवितव्यम्, निस्सारितानि, शक्यते, विलीयते ।

 

(घ) अधोलिखितशब्दानां समानार्थक शब्द लिखत

     लोचनम्, पितरौ, मनः

उत्तर:

(i) लोचनम् - नेत्रम्, चक्षुः, अक्षि, नयनम्।

(ii) पितरौ - मातापितरौ, जननीजनकौ ।

(iii) मनः - चित्तम्, चेतः, हृदयम् ।

 

4. अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत

(क) दृष्टिरपतत् = दृष्टिः + अपतत्।

(ख) ग्रामात् + ग्रामम् = ग्रामाद्ग्रामम् ।

(ग) कदा + अपि + अप्रमार्जनीयाम् = कदाऽप्यप्रमार्जनीयाम्।

(घ) घटनैका = घटना + एका ।

(ङ) तत् + नाटकम् = तन्नाटकम् ।

(च) इत्येष = इति + एष ।

(छ) मनसि + आविरभूत् = मनस्याविरभूत् ।

 

5. हिन्दीभाषया आशयं स्पष्टीकुरुत

(क) सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभवः ।

उत्तर: महात्मा गाँधी ने अपनी आत्मकक्षा में लिखा है कि हरिश्चन्द्र नाटक को देखकर मेरे मन में बार-बार यह प्रश्न उठने लगा की हरिश्चन्द्र के समान सत्य के लिए सत्य का अनुसरण करना, सत्य के लिए निर्विकल्प मन में क्लेशों का अनुभव करना ।

(ख) निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्तं स्यात् ।

उत्तर: हरिश्चन्द्र नाटक को देखने के उपरान्त गाँधीजी ने अपनी मनः स्थिति का वर्णन करते हुए कहा- अनेक बार इस नाटक को मैंने स्वयं मन से प्रयुक्त किया । अर्थात् मन ही मन अनेक बार इसके व्यवहार पक्ष एवं परिणाम के सन्दर्भ में चिन्तन- मनन किया ।

(ग) श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्।

उत्तर: ‘श्रवणपितृभक्ति' नाटक को बाल्यावस्था में पढ़कर तथा कठपुतली प्रदर्शन में कावड़ पर बैठाकर अपने माता-पिता को यात्रा कराने की प्रतिकृति को देखकर गाँधीजी के मन में विचार आया कि श्रवणकुमार की पितृभक्ति को आदर्श रूप से मुझे अपने हृदय में स्थापित करना चाहिए- ऐसा स्वयं ने स्वयं को समझाया अर्थात् अन्तः करण में इस प्रकार अनुभूति हुई ।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare