Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्
द्वादशः
पाठः गान्धिनः संस्मरणम् PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङ्कलितः? उत्तर: प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः । (ख) गान्धिन: आत्मकथा मूलतः कस्यां भाषायां
लिखिता ? उत्तर: गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता। (ग) गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः
कः ? उत्तर: गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित
होसकेरे नागप्पशास्त्री अस्ति । (घ) महात्मा गाँधी किन्नाम नाटकम् अपठत् ? उत्तर: महात्मागांधी ‘श्रवणपितृभक्तिः’
नामक नाटकमपठत् । (ङ) गान्धिनः ग्रामं के उपागच्छन्? उत्तर: गान्धिनः ग्रामं पुत्तलिकाप्रदर्शनोपजीविनः
उपागच्छन् । (च) गान्धिनः मनसि कयो : विलापः पुनः पुनः
श्रूयते स्म ? उत्तर: गान्धिनः मनसि श्रवणस्य मातापित्रोः विलापः पुनःपुनः
श्रूयते स्म । (छ) महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं
कस्य अनुज्ञाम् अध्यगच्छत्? उत्तर: महात्मागांधी हरिश्चन्द्र नाटकं
द्रष्टुं स्वपितुः अनुज्ञाम् अध्यगच्छत्। (ज) कस्य कथायां सत्यत्वप्रतीतिः आसीत् ? उत्तर: हरिश्चन्द्रस्य कथायां सत्यत्वप्रतीतिः
आसीत्। (झ) कौ गान्धिन: हृदये नित…