Class XII (संस्कृत) द्वादश: पाठ: किन्तोः कुटिलता
द्वादश :
पाठ : किन्तोः कुटिलता प्रश्न 1. संस्कृतेन उत्तरं दीयताम् - (क) भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता ? उत्तर
: 'राजस्वविभागस्य प्रधानः अधिकारी तद्-विरोधे एकं पत्रं प्रेषितवान्'- इति बाधा किन्तुना
उपस्थापिता। (ख) वाक्यमध्ये प्रविश्य सर्वं कार्यं केन विनाश्यते ? उत्तर
: वाक्यमध्ये प्रविश्य सर्वं कार्यं किन्तुना विनाश्यते। (ग) लेखकस्य देशसेवायाः विचारस्य कथम् इतिश्रीरभूत् ? उत्तर
: 'किन्तु किञ्चित् स्वगृहाभिमुखं विलोकनीयम्' इति अध्यापकवचनेन लेखकस्य देशसेवायाः
विचारस्य इति श्रीः अभूत्। (घ) नेतृमहोदयः पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम्
अददात् ? उत्तर
: नेतृमहोदयः परामर्शम् अददात्- "यदि इदं पुस्तकं हिन्दीभाषायाम् अलिखिष्यत् तर्हि
सम्यग् अभविष्यत्।" (ङ) भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत् ? उत्तर
: भोजन-गोष्ठीस्थले भोज्य-व्यञ्जनानां प्रदर्शनी
समायोजिता आसीत्। (च) भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां कः अरुधत् ? उत्तर
: लेखकमहोदयस्य कण्ठनलिकां स्वामिमहोदयस्य 'किन्तुः' अरुधत्। (छ) धर्मव्यवस्थापक: …