झारखण्ड
शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची, झारखण्ड
वार्षिक
परीक्षा 2022-23
आदर्शप्रश्नपत्रम्
(बहुविकल्पीयाः प्रश्नाः )
कक्षा-11 विषयः - संस्कृतम् समय - 1 घंटा पूर्णांकाः - 40
सामान्यनिर्देशाः
-
•
अस्मिन् प्रश्नपत्रे चत्वारिंशत् ( 40 ) प्रश्नाः । (इस
प्रश्न-पत्र में 40 प्रश्न हैं ।)
•
सर्वे प्रश्नाः अनिवार्या: । (सभी प्रश्न अनिवार्य हैं। )
•
प्रत्येकप्रश्नार्थं एकोऽको निर्धारितः । (प्रत्येक प्रश्न के लिए एक अंक निर्धारित
है।)
•
प्रत्येकप्रश्नस्य चत्वारो विकल्पाः । उचितविकल्पं चिनुत । (प्रत्येक प्रश्न के चार
विकल्प दिए गए हैं। उचित विकल्प का चयन करें।)
•
अनुचितोत्तरार्थं कोऽपि नकारात्मकाको नास्ति । (गलत उत्तर के लिए
कोई नकारात्मक अंक नहीं है।)
खण्ड-क
अपठितावबोधनम्
अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-
छात्रावस्थायां तु अध्ययनस्य अनिवार्यता भवति, अन्यथा अध्ययनेन विना विद्यार्थी सत्यार्थेषु विद्यां ग्रहीतुं न पारयति । अध्ययनस्य स्थानं मानवजीवने तावदेव महत्वपूर्णम् अस्ति, यावत् कस्याश्चित् नद्याः पारे गन्तुं कस्याश्चित् तरण्याः भवति । यथा उच्छलन्त्याः तटिन्याः पारे गन्तुम् एका नौका विशालम् आश्रयत्वं प्राप्नोति तथैव अध्ययनमपि मानवजीवनं सौख्यप्रद विधातुम् एकोऽति महान् आश्रयः अस्ति।
1. छात्रावस्थायां कस्य अनिवार्यता भवति?
2. अध्ययनेन विना कां ग्रहीतुं न पारयति
3. उच्छलन्त्याः तटिन्याः पारे गन्तुं का विशालम् आश्रयत्वं प्राप्नोति?
4. मानवजीवनं सौख्यप्रदं विधातुम् -------- महान् आश्रयः अस्ति ।
5 तथा + एव =.............. ?
खण्ड-ख
पठितावबोधनम्
अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-
अस्ति
कालिन्दीतीरे योगिनीपुरं नाम नगरम् । तत्र अलावदीनो नाम यवनराजो बभूव । स चैकदा केनापि
निमित्तेन महिमासाहिनाम्ने सेनानिने अकुप्यत् । स च यवनस्वामिनं प्र प्राणग्राहकं च
ज्ञात्वा चिन्तयामास, सामर्षो राजा विश्वसनीयो न भवति । तदिदानीं यावदनिरुद्धोऽस्मि
तावदेवेतः क्वापि गत्वा निजप्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः ।
6. यवनराज्ञः नाम किम् आसीत्?
7. योगिनीपुरं नाम नगरं कुत्र आसीत् ?
8. कीदृशो राजा विश्वसनीयो न भवति?
9. कः पलायितः ?
10. 'गत्वा' इति पदे कः प्रत्ययः ?
अधोलिखितं पद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-
देवागारे
पिहितद्वारे
तमोवृतेऽस्मिन्
भजसे कम् ?
त्यज
जपमालां त्यज तव गानं
नास्त्यत्रेशः
स्फुटय दृशम् ।।
11. कवेः अनुसारम् ईशः कुत्र नास्ति ?
12. कविः किं त्यक्तुं कथयति ?
13. किं स्फुटय?
14. 'पिहितद्वारे' इति पदे का विभक्तिः
15. नास्ति + अ + ईश: = ------
अधोलिखितं नाट्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-
(ततः
प्रविशति दारकं गृहीत्वा रदनिका)
रदनिका
एहि वत्स! शकटिकया क्रीडावः ।
दारकं
- (सकरुणम्)
रदनिके!
किं मम एतया मृत्तिकाशकटिकया?
तामेव
सौवर्णशकटिकां देहि ।
रदनिका
(सानिर्वेदं निःश्वस्य )
जात!
कुतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया
क्रीडिष्यसि
।
16. रदनिका कं गृहीत्वा प्रविशति ?
17. "एहि वत्स! शकटिकया क्रीडावः ।" इति का कथयति?
18. मृत्तिकाशकटिका कस्य आसीत्?
19. 'शकटिकया' इति पदे का विभक्तिः ?
20. 'निःश्वस्य' इति पदे कः प्रत्ययः ?
खण्ड-ग
अनुप्रयुक्तव्याकरणम्
उचितविकल्पेभ्यः रिक्तस्थानानि पूरयत-
21. राम: .............. सह गच्छति ।
22. ............... परितः वृक्षाः सन्ति ।
23. ................ संस्कृतं रोचते।
24. स् + अ + म् + स् + क् + ऋ + त् + अ + म् = -----
25. कर्म = .............
26. 'प' इति वर्णस्य उच्चारणस्थानं किम् अस्ति ?
27. तालव्यवर्णः कः अस्ति?
28. 'म' इति कीदृशः वर्णः अस्ति?
29. गम् धातोः लृट्लकारे प्रथमपुरुषबहुवचने किं रूपं भवति ?
30. 'पठति' इति क्रियापदस्य बहुवचने किं रूपं भवति ?
31. 'लिखतु' इति कस्य लकारस्य रूपम् अस्ति ?
32. बालकशब्दस्य षष्ठीविभक्तेः एकवचने किं रूपम् अस्ति ?
33. पितृशब्दस्य तृतीयाविभक्तेः एकवचने किं रूपं भवति ?
34. सदा + एव = ...........
35. महा + ऋषि: = .............
खण्ड-घ
रचनात्मक
कार्यम्
उचितविकल्पं चिनुत-
36. रामायणस्य लेखकः कः ?
37. हितोपदेशः कस्य रचना अस्ति?
38. प्रधानाचार्य प्रति लिखितं पत्रं कीदृशं पत्रं भवति ?
39. नाटकस्य अन्तः केन भवति ?
40. छन्दरहितं काव्यं ............... कथ्यते।