झारखण्ड
शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची, झारखण्ड
वार्षिक
परीक्षा 2022-23
मॉडल
प्रश्न पत्र ( वस्तुनिष्ठ)
कक्षा
- द्वादश
विषय - संस्कृत
समय
-1.30 घंटा / पूर्णाक 40
सामान्य-निर्देशाः
:-
•
अस्मिन् प्रश्नपत्रे 40 वस्तुनिष्ठप्रश्नाः सन्ति ।
•
सर्वे प्रश्ना समानाकाः ।
•
सर्वे प्रश्नाः अनिवार्याः ।
•
प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुता।
निर्देश : अधोलिखितं अपठितगद्यांशं पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः
उत्तरं चिनुत-
सर्वेषु
धनेषु विद्याधनम् एव उत्तमं धनं मन्यते । विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम्
अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम् । विद्याधनेन
एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्ग : । विद्यया एव मनुष्यः संसारे
सम्मानं प्राप्नोति । विद्याहीनः जनः पशुतुल्यः एव भवति। कर्तव्याकर्तव्ययोः, धर्माधर्मयो:,
हानिलाभयोः उचितानुचितयोश्च मध्ये सः अन्तरं न जानाति । विद्यया एव मानवजीवनमूल्यं
ज्ञायते, जनानां सुखदुःखयोः भागं विद्यया एव गृह्यते विद्याहीनस्य जनस्य जीवने कदापि
सुखं, सोहार्द्र, प्रसन्नता सहभागिताः च न भवन्ति । अतः विद्या विहीनः पशुः' इति कथयित्वा
विद्यायाः गुणगानं शास्त्रैः कृतम् । विद्याधनाय वारं वारं नमः ।
1. किं धनम् उत्तमं मन्यते ?
(क) विद्याधनम्
(ख)
पशुधनम्
(ग)
सर्वधनम्
(घ)
साधुधनम्
2. कया मनुष्यः सम्मानं प्राप्नोति ?
(क) विद्यया
(ख)
अन्या
(ग)
कन्या
(घ)
लतया
3. 'वयम्' इति कर्तृपदस्य क्रियापदं किम् ?
(क)
जानान्ति
(ख) जानीमः
(ग)
जानाम:
(घ)
ज्ञास्यामः
4. गद्यांशे अव्ययपदं किम् ?
(क)
जानीमः
(ख) एव
(ग)
अस्ति
(घ)
क:
निर्देश :- अधोलिखितं पयम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं
चिनुत-
तमध्वरे
विश्वजिति क्षितीशं
निःशेषविश्राणितकोषजातम्
उपात्तविद्यो
गुरुदक्षिणार्थी
कौत्सः
प्रपेदे वरतन्तुशिष्यः ।।
5. विश्वजित् यज्ञं कः अकरोत् ?
(क)
कुबेर:
(ख)
इन्द्रः
(ग)
वरुण:
(घ) रघुः
6. कौत्स : कस्य शिष्यः आसीत् ?
(क)
विश्वामित्रस्य
(ख)
द्रोणाचार्यस्य
(ग) वरतन्तो:
(घ)
परशुरामस्य
7. रघुः कम् अध्वरम् अनुतिष्ठति स्म ?
(क)
अश्वमेध:
(ख) विश्वजित्
(ग)
पुत्रेष्टि:
(घ)
न कोऽपि
8. दक्षिणार्थी अस्य सन्धिविच्छेदं चिनुत-
(क)
द + क्षिणार्थी
(ख)
दक्षि + णार्थी
(ग) दक्षिणा + अर्थी
(घ)
दक्षिणा + थी
निर्देश :- अधोलिखितं गद्यांशम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः
उत्तरं चिनुत-
दीनबन्धुः
श्रीनायार: प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म कश्चित्
सम्पर्कः कानिचिन् मलयालम भाषायाः संवादपत्राणि अतिरिच्य कदापि तस्य नाम्ना किमपि पत्रमागतमिति
कोsपि कदापि न जानाति।
9. दीनबन्धुः श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति
स्म ?
a.
उड़ीसाप्रदेशे
b.
मध्यप्रदेशे
c.
उत्तरप्रदेशे
d. केरलप्रदेशे
10. पत्रस्य भाषा का आसीत् ?
(क)
तमिल भाषा
(ख) मलयालम भाषा
(ग)
कन्नड़भाषा
(घ)
तेलगु भाषा
11. प्रतियोगे का विभक्तिः भवति ?
(क) द्वितीया
(ख)
तृतीया
(ग)
चतुर्थी
(घ)
पंचमी
12. रात्रौ अस्य विलोमपदम् अत्र किं प्रयुक्तम् ?
(क) दिवसे
(ख)
मासं
(ग)
वेतनं
(घ)
अतिरिच्य
निर्देश :- अधोलिखितं पद्यम् पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः
उत्तरं चिनुत-
कर्मण्येवाधिकारस्ते
मा फलेषु कदाचन
मा
कर्मफलहेतुर्भूर्मा ते सङ्गोऽत्स्वकर्मणि ।।
13. गीतायां श्रीकृष्णः कस्मै उपदेशं यच्छति ?
(क)
युधिष्ठिराय
(ख)
भीमाय
(ग) अर्जुनाय
(घ)
नकुलाय
14. कर्मण्येवाधिकारस्ते मा ..........कदाचन।
उचितं पदं चित्वा रिक्तस्थानं पूरयत ।
(क)
पुष्पेषु
(ख) फलेषु
(ग)
पत्रेषु
(घ)
वृक्षेषु
15. उपर्युक्तश्लोकः केन कथितः ?
(क)
अर्जुनेन
(ख)
भीमेन
(ग) कृष्णेन
(घ)
नकुलेन
16. फलेषु पदे का विभक्तिः प्रयुक्ता ?
(क)
पंचमी
(ख)
षष्ठी
(ग) सप्तमी
(घ)
तृतीया
निर्देश :- प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुत ।
17. अम्बिकादत्तव्यासस्य रचनां चिनुत-
(क)
मेघदूतम्
(ख)
शिशुपालवधम्
(ङ)
उत्तररामचरितम्
(ग) शिवराजविजयम्
18. सिंहासनद्वात्रिंशिका' इति ग्रंथात् कः पाठः संकलितः
(क) विक्रमस्यौदार्यम्
(ख)
बालकौतुकम्
(ग)
किन्तो: कुटिलता
(घ)
सूक्ति-सुधा
19. संस्कृतभाषाया: सर्वाधिक प्रतिभाशाली गद्यकारः कः ?
(क) बाणभट्ट:
(ख)
कालिदासः
(ग)
अम्बिकादत्तव्यासः
(घ)
चन्द्रशेखरदासवर्मा
20. स्मृतः शब्दस्य विपरीतार्थकपदं चिनुत-
(क)
अस्मृतः
(ख) विस्मृतः
(ग)
अमृतः
(घ)
मृतः
21. 'सर्वाण्येव' अस्य सन्धिविच्छेदं चिनुत-
(क) सर्वाणि+एव
(ख)
सर्वा+ण्येव
(ग)
सर्वाण + एव
(घ)
सर्वाण्ये+ व
22. स+ उत्साहम्= ?
(क)
सुत्साहम्
(ख)
सात्साहम्
(ग) सोत्साहम्
(घ)
स्वात्साहम्
23. पुनः + अत्र = ?
(क)
पुनत्र
(ख) पुनरत्र
(ग)
पुनोत्र
(घ)
पुनः अत्र
24. 'कोsपि अस्य सन्धिविच्छेदं किम् ?
(क)
को+ अपि
(ख)
का + अपि
(ग) कः+ अपि
(घ)
को + sपि
25. 'दातव्यम् ' इत्यस्य प्रकृतिप्रत्ययविभागः कुरुत -
(क)
दा+ तव्यत्
(ख)
दा+ क्त्वा
(ग)
दा+ तुमुन्
(घ)
दा+ क्त
26. दृश् + अनीयर् =?
(क) दर्शनीयम्
(ख)
दृशनीय
(ग)
दृशनीयर
(घ)
दृशानीय
27. महत्+त्व = ?
(क)
महत्त
(ख) महत्त्व
(ग)
महत्ता
(घ)
महान्
28. गुरुता ' पदे कः प्रत्ययः प्रयुक्तः ?
(क) तल्
(ख)
त्व
(ग)
क्त्वा
(घ)
क्त
29. 'व्याघ्रभयम्' अस्य सामासिकविग्रहं कुरुत-
(क)
व्याघ्रस्य भयम्
(ख)
व्याघ्रेण भयम्
(ग) व्याघ्रात् भयम्
(घ)
व्याघ्रे भयम्
30. "अहः च निशा च अस्य समस्तपदं चिनुत-
(क) अहर्निशम्
(ख)
अहा निशम्
(ग)
अहः निशा
(घ)
निशा अहः
31. "दिक् अम्बरम् यस्य सः अस्य समस्तपदं चिनुत-
(क)
दिगाम्बरान्
(ख) दिगम्बर:
(ग)
दिगम्बरस्य
(घ)
दिगम्बराणाम्
32. 'पितरौ' अस्य सामासिकविग्रहं चिनुत-
(क)
पिता पिता
(ख)
माता माता
(ग) माता च पिता च
(घ)
मातरौ च पितरौ च
33. कर्मणाम्_अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते । अत्र रेखाङ्कितपदे
का विभक्तिः?
(क) षष्ठी
(ख)
सप्तमी
(ग)
पंचमी
(घ)
चतुर्थी
34. 'नमः योगे का विभक्तिः भवति ?
(क)
तृतीया
(ख) चतुर्थी
(ग)
पंचमी
(घ)
षष्ठी
35. धिक् विद्याहीनम् । अत्र रेखाङ्कितपदे का विभक्तिः ?
(क) द्वितीया
(ख)
तृतीया
(ग)
चतुर्थी
(घ)
पंचमी
36. मम माता मयि स्निह्यति अत्र स्निह् योगे का विभक्तिः ?
(क)
चतुर्थी
(ख)
पंचमी
(ग)
षष्ठी
(घ) सप्तमी
37. कति वेदा: ?
(क)
त्रय:
(ख) चत्वार:
(ग)
पंच
(घ)
षड्
38. "बाणोच्छिष्टं जगत्सर्वम् इति उक्तिः कस्य विषये प्रसिद्धा
?
(क)
कालिदासस्य
(ख)
माघस्य
(ग) बाणभट्टस्य
(घ)
भारवेः
39. गद्यपद्यमिश्रितं काव्यं कथ्यते
(क) चम्पूकाव्यम्
(ख)
नाटकम्
(ग)
प्रकरणम्
(घ)
पद्यम्
40. य नाटकस्य सूत्रं धारयति सः कः भवति?
(क)
विषकम्भकः
(ख)
नायक:
(ग)
जवनिका
(घ) सूत्रधारः
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची, झारखण्ड
मॉडल प्रश्न पत्र (विषयनिष्ठ)
सामान्य-निर्देशाः
:-
1.
सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्त्तव्याणि-
2.
सर्वेषां प्रश्नानाम् संख्या 19 अस्ति ।
3.
प्रश्न संख्या 1 तः 7 पर्यन्तम् अति- लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 2-2 अंक
निर्धारितौ स्तः । केचन पंच प्रश्नान् उत्तरत।
4.
प्रश्न संख्या 8तः 14 पर्यन्तम् लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 3-3 अंका:
निर्धारिता: । केचन पंचैव प्रश्नाः समाधेयाः ।
5.
प्रश्न संख्या 15तः 19 पर्यन्तं दीर्घत्तरीयाः प्रश्नाः सन्ति अस्य कृते 5-5 अंकाः
निर्धारिताः केचन त्रयैव प्रश्नान् उत्तरत।
खण्ड क
अपठितावबोधनम्
निर्देश: अस्मिन् खण्डे सर्वे प्रश्नाः समानाङका: । केचन पंचैव प्रश्ना:
समाधेयाः । 2*5 = 10
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम्
उत्तरत -
भारतदेश:
आप्राचीनकालादपि विद्याप्रधानः विद्याप्रदातारः गुरवः पूज्यतमाः । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो
महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः" इत्येव अस्माकं मूलमंत्रः
गुरुणा विना कापि विद्या पूर्णतां न प्राप्नोति यः गुरुम् आद्रियते , शुश्रूषते, गुरुपदेशान्
आचरति तस्मै विद्या स्वयं स्पृह्यति गुरुः अपि तादृशं शिष्यं वात्सल्येन पश्यति, सर्वाः
विद्या: शिक्षयति च ।
प्रश्ना:
1. पूर्णवाक्येन उत्तरत- 2
(क) कः खलु साक्षात् परं ब्रह्म ?
उत्तर
: खलु गुरु: साक्षात् परं ब्रह्म ।
(ख) गुरु: कीदृशं शिष्यं वात्सल्येन पश्यति?
उत्तर
: य: गुरुम् आद्रियते शुश्रूषते गुरूपदेशान् आचरति, तस्मै विद्या स्वयं स्पृहयति गुरुः
अपि तादृशं शिष्यं वात्सल्येन पश्यति ।
2. यथानिर्देशम् उत्तरत- 2
(क) प्राप्नोति इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर
: विद्या ।
(ख) 'विद्याप्रदातारः ' इति विशेषणस्य विशेष्यं किम्?
उत्तर
: गुरवः ।
(ग) आधुनिककालात्' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तर
: प्राचीनकालात्।
(घ) 'सेवा करोति' इति अर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?
उत्तर
: शुश्रूषते ।
पठितावबोधनम्
अधोलिखितम् गद्यांशं, पद्यं नाट्यांशं च पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारं
संस्कृतेन उत्तरत-
गद्यांश:
तस्मै
राज्ञे व्ययार्थ रत्नचतुष्टयं दास्यामि । द्वितीयरत्नेन भोजनादिकम् अमृततुल्यम् उत्पद्यते।
एतेषां महात्म्यम् एकं रत्नं यद्वस्तु स्मर्यते तद्ददाति । । तृतीयरत्नात् चतुरङ्गबलं
भवति चतुर्थाद् रत्नानिदिव्याभरणानि जायन्ते । तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते
प्रयच्छेति।
3.
पूर्णवाक्येन उत्तरत- 2
(क) द्वितीयरत्नेन किम् उत्पद्यते ?
उत्तर
: द्वितीयरत्नेन भोजनादिकं अमृततुल्यं उत्पद्यते ।
(ख) चतुर्थाद् कानि जायन्ते ?
उत्तर
: चतुर्थाद् रत्नानि दिव्याभरणानि जायन्ते ।
4.
यथानिर्देशम् उत्तरत- 2
(क) ददाति अस्य कर्तृपदं किम् ?
उत्तर
: रत्नम् ।
(ख) 'राजे' अस्य मूलशब्दं लिखत ।
उत्तर
: राजा ।
(ग) विषम् अस्य विलोमपदम् अत्र किम् ?
उत्तर
: अमृतम्।
(घ) 'एतेषां महात्म्यम्' अत्र 'एतेषाम्' इतिपदं केभ्यः प्रयुक्तम्
?
उत्तर
: रत्नेभ्यः ।
पद्यम्
सहसा
विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते
हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ।।
5 पूर्णवाक्येन उत्तरत- 2
(क) सहसा किं न विद्धीत ?
उत्तर
: सहसा क्रियाम् न विदधीत ।
(ख) अविवेकः कासां पदं वर्तते ?
उत्तर
: अविवेकः परमापदां वर्तते।
नाट्यांश:-
बटव:-
पश्यतु कुमारस्तावदाश्चर्यम्
लवः
दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः
बटव:
- कथं ज्ञायते ?
लव:
- ननु मूर्खाः । पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ ? प्रत्येकं शतसंख्या:
कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः । यदि च विप्रत्ययस्तत्पृच्छत ।
6. पूर्णवाक्येन उत्तरत- 2
(क) कीदृश: अश्वः तत्र आसीत् ?
उत्तर
: आश्वमेधिकोऽयमश्वः तत्र आसीत्।
(ख) अश्वस्य रक्षार्थ कति रक्षितारः आसन् ?
उत्तर
: प्रत्येकं शतसंख्या कवचिनो दण्डिनो निषङ्गिणश्च रक्षितार: अश्वस्य रक्षार्थं आसन्
।
7. यथानिर्देशम् उत्तरत- 2
(क) 'पश्यथ' इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर
: यूयम् ।
(ख) 'प्रत्ययः' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तर
: विप्रत्ययः ।
(ग) निषङ्गिणः अस्य विशेष्यपदम् अत्र किम् ?
उत्तर
: रक्षितारः ।
(घ) 'पश्यथ' इति पदस्य मूलधातुः लिखत ।
उत्तर
: दृश् धातु
खण्ड ख
निर्देश: - खण्डेऽस्मिन् सर्वे प्रश्नाः समानाङका: केचन पंचैव प्रश्नाः
समाधेया: 3*5=15
8.
अधोलिखितश्लोकस्य अन्वयं पूर्णं कुरुत- 3
ईशावास्यमिदं
सर्वं यत्किंच जगत्यां जगत् ।
तेन
त्यक्तेन भुञ्जीथा मा कस्यस्विद् धनम् ॥
अन्वयः
जगत्यां
यत् किम् च ........जगत्.......... इदं सर्वम्
.......ईशावास्यम्............ तेन त्यक्तेन भुञ्जीथा:,
कस्यस्विद् धनं मा ....गृध:.....
9. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 3
(क) योग: कर्मसु कौशलम् ।
उत्तर
: योगः केषु कौशलम् ?
(ख) पृथिव्याः सप्त भेदाः ।
उत्तर
: पृथिव्याः कति भेदा: ?
(ग) कर्मणि एव अधिकारः ते।
उत्तर
: कस्मिन् एव अधिकार: ते ?
10. श्लोकांशमेलनं कुरुत- 3
अ |
ब |
ददातिप्रतिगृहणति |
अन्धेन तमसाssवृत्ताः |
असूर्या
नाम ते लोका |
मां
फलेषु कदाचन। |
कर्मण्येवाधिकारस्ते |
गुह्यमाख्याति
पृच्छति। |
उत्तर
:
ददातिप्रतिगृहणति
→ गुह्यमाख्याति पृच्छति।
असूर्या
नाम ते लोका → अन्धेन तमसाssवृत्ताः
कर्मण्येवाधिकारस्ते
→ मां फलेषु कदाचन।
11. कोष्ठकेषु प्रदत्तपदेषु उचितं विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
- 3
(क)
सीता ........रामेण........ सह वनं गच्छति (राम)
(ख)
........ग्रामम्............. अभितः वृक्षाः सन्ति
। (ग्राम)
(ग)
........नगरात्.............. बहि: मन्दिरं शोभते
(नगर)
12. वाक्यनिर्माणं कुरुत - 3
(क)
विद्यालय: → मम
विद्यालय: आदर्श विद्यालयः अस्ति।
(ख)
वयम् →
वयम् ग्रामं गच्छामः |
(ग)
सरोवरम् →
सः सरोवरं प्रति गच्छति।
13. अशुद्धिशोधनं कुरुत - 3
(क) चत्वारि बालिकाः पठन्ति ।
उत्तर
: चतस्र: वालिकाः पठन्ति ।
(ख) यूयम् किं कुर्वन्ति
उत्तर
: ते किं कुर्वन्ति ।
(ग) छात्रौ पुस्तकम् पठति
उत्तर
: छात्रः पुस्तकम् पठति ।
14. सन्धिविच्छेदं कुरुत - 3
(क)
स्वागतम् → सु
+ आगतम्।
(ख)
यशोदा → यश:
+ दा ।
(ग)
जगन्नाथ: → जगत्
+ नाथः।
खण्ड ग
निर्देश: - खण्डेऽस्मिन् पञ्च प्रश्नाः प्रदत्ता: । केचन त्रयैव उत्तरत।
5*3 = 15
15. चित्रं दृष्ट्वा मञ्जूषासहायतया पंच वाक्यानि लिखत- 5
मञ्जूषा-
तृणानि,
वृक्षः, आकाशे, उदेति, सूर्यः , खगाः, हरितः, गृहाणि, पर्वताः, क्षेत्रम् |
उत्तर
:
1.
इदं चित्रम् प्रातःकालस्य अस्ति।
2.
अस्मिन् चित्रे सूर्य: उदेति ।
3.
अस्मिन् चित्रे खगाः सन्ति ।
4.
अस्मिन् चित्रे पर्वताः सन्ति।
5.
अस्मिन् चित्रे गृहे स्तः ।
16. विद्यालय शुल्कक्षमापनार्थ स्वप्राचार्य प्रति एकम् आवेदनपत्रं
लिखत । 5
उत्तर
:
सेवायाम्
प्राचार्यमहोदयः
+2
उच्च विदविद्यालय पेटरवार बोकारो।
विषय:
विद्यालयशुल्कक्षमापनार्थं आवेदनपत्रम्। वेदनपत्रं लिखते।
महोदयः,
सविनयं
निवेदयामि यत् अहम् भवतां विद्यालये द्वादश कक्षायां पठामि । अहम् एकः अतिनिर्धनः छात्रः
अस्मि । मम जनकस्य आर्थिकस्थिति: शोचनीया अस्ति । अहं विद्यालयशुल्कदातुं असमर्थः अस्मि
। अतः विद्यालयशुल्कमुक्तं कृत्वा भवन्तः माम अनुग्रहणन्तु ।
दिनांक:
15/01/2023
भवताम्
आज्ञाकारी शिष्यः
क
ख ग
क्रमांक
12
17. मञ्जूषात: उचितसङ्केतान् गृहीत्वा अधोलिखितां कथां पूरयित्वा पुनः
लिखत । 5
स्वामिनो
रामकृष्णपरमहंसस्य ...1.ख्यात्या........एको योगी
तं प्रति ईर्ष्यालुः अभवत् । एकदा सः स्वामिनम् अधः कर्तुम् तत्पार्श्वे गत्वा
........2.....अब्रवीत्..... किमस्ति कोऽपि चमत्कारो
भवत्पार्श्वे ? रामकृष्णः अवदत्- "अहं तु ........3...सामान्य:....... प्राणी । " योगी कथितवान्- “भवान्
जलोपरि .........4...चलितुं...... शक्नोति किम्
? जले चलन मारुतिः अपि .........5...समुद्रम् क्या........
अलङ्घयत् । अतः भवान् ......6...गंगाया:.......
जलोपरि चल।" रामकृष्णः प्रत्यवदत्- नाहम् एतत् कर्तुं क्षमः । परमेश्वरः एतद्
नादिशति तत्कथं ........7....परिवर्तितुं.....
इमं श्रमं करिष्यामि ।" योगी उच्चस्वरेण प्रत्यब्रवीत्- " अष्टादशवर्षाणि
तपः तप्त्वा चमत्कारमिमं लब्धवान् अहम् । " योगिनः ....8...गर्वोक्तिम्.... श्रुत्वा स्वामी प्रत्युत्तरत्,
"भवान् अष्टादशवर्षाणि जीवनं वृथा अकरोत् अहं तु नाविकेन ...9...पणद्वयेन......गंगायाः पारं गच्छामि। किं भवतः अष्टादशवर्षाणाम्
उपार्जनं नाविकस्य पणद्वयान् अधिकम् अस्ति?" स्वामिनो वचांसि श्रुत्वा योगी
............10...निरुत्तर: .... सञ्जातः ।
चलितुम्,
समुद्रम्, अब्रवीत्, पणद्वयेन, निरुत्तरः, परिवर्तितुम्, ग र्वोक्तिम्, गङ्गायाः,
सामान्य: , ख्यात्या |
18. नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत । 5
उत्तर
: संस्कृतनाटकानां प्रमुखाः विशेषता: -
1)
नाटकस्य इतिवृत्तं इतिहासपुराणप्रसिद्धं स्यात् ।
2)
नाटकानाम् आरम्भ: मंगलाचरणेन नान्द्या वा भवति ।
3)
मुखादिपञ्चसन्धियुक्तं भवति।
4)
नाटकं रूपकस्य दशभेदेषु विशिष्टं भवति ।
5)
संस्कृतनाटकानि प्रायः सुखान्तानि भवन्ति।
6)
नाटकानां प्रधानरस: श्रृंगार : वीरः वा भवति ।
7)
संस्कृतनाटकेषु न्यूनतमाः पञ्च, अधिकाधिकाः च दश अंकाः भवन्ति ।
8)
विदूषकस्य कल्पना संस्कृतनाटकानां मौलिकविशेषता अस्ति । अयं पात्रः हास्योत्पादकं पात्रं
भवति ।
9)
नाटकानां समाप्ति: भरतवाक्येन भवति । यत्र प्रधानपात्रं देशस्य समाजस्य च उन्नते: कामनां
करोति ।
10)
प्रमुखनाटकानि सन्ति- महाकविभास: स्वप्नवासवदत्तम्, दूतवाक्यम्, प्रतिमानाटकम्, उरुभंगम्
च । शूद्रक:- मृच्छकटिकम् । कालिदासः - अभिज्ञानशाकुंतलम् । भवभूति - उत्तररामचरितम्
। विशाखादत्त :- मुद्राराक्षस ।
19. अधोलिखितरचनानां लेखकानां नामानि लिखत । (केवलं पंचानाम् ) 5
(क)
रघुवंशम् → कालिदासः ।
(ख)
पाषाणीकन्या → चन्द्रशेखरदास
वर्मा ।
(ग)
समुद्रसंगमः → दाराशिकोहः
।
(घ)
शिशुपालवधम् → माघः
।
(ङ) उत्तररामचरितम् → भवभूतिः ।