द्वितीय: पाठः ऋतुचित्रणम्
1. संस्कृतेन उत्तरं दीयताम्
(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:?
उत्तर:
अयं पाठः रामायणग्रन्थात् सङ्कलितः।
(ख) वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति ?
उत्तर:
वसन्ते समन्तत: गिरिशिखराणि पुष्पभारसमृद्धानि पुष्पिताग्राभिः लताभिश्च उपगुदानि भवन्ति।
(ग) मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?
उत्तर:
मारुतः पतितेः पतमानैः पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते।
(घ) प्रकीर्णाम्बुधरं नभः कथं विभाति ?
उत्तर:
प्रकीर्णाम्बुधरं नभः क्वचित प्रकाशमयं क्वचित च अप्रकाशमयं विभाति ।
(ङ) कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति ?
उत्तर:
सलिलातिभारं समुद्वहन्तः वारिधराः प्रयान्ति ।
(च) वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
उत्तर:
वर्षर्तौ मत्तगजाः नदन्ति।
(छ) शरदृतौ चन्द्रः कीदृशो भवति?
उत्तर:
शरदूतौ चन्द्रः विमलः भवति।
(ज) कानि पूरयित्वा तोयधरा: प्रयाता: ?
उत्तर:
तटाकानि पूरयित्वा तोयधराः प्रयाताः।
(झ) अस्मिन् पाठे 'तोयधराः इत्यस्य के के पर्यायाः प्रयुक्ताः ?
उत्तर:
अस्मिन् पाठे 'तोयधराः, इत्यस्य अम्बुधराः वारिधराः घनाः इत्यादयः पर्यायाः प्रयुक्ताः।
(ञ) कीदृश: आदर्श: न प्रकाशते?
उत्तर:
निःश्वासान्धः आदर्श: न प्रकाशते?
(ट) शिशिरतौं सरितः के भान्ति ?
उत्तर:
शिशिरर्तौ सरितः तीरेः भान्ति।
2. रिक्तस्थानानि पूरयत
(क)
समन्ततः ...पुष्पभारसमृद्धानि....... शिखराणि सन्ति।
(ख)
नभः ....प्रकीर्णाम्बुधरं........ विभाति।
(ग)
वारिधराः महीधराणां शृङ्गेषु .....विश्रम्य पुनः....... प्रयान्ति।
(घ)
तोयधराः ...नभः त्यक्त्वा............
प्रयाताः।
(ङ)
नि:श्वासान्ध आदर्श इव .....चन्द्रमा........ न
प्रकाशते ।
3. अधोलिखितानां सप्रसङ्ग व्याख्या कार्या
(क) मारुत: कुसुमैः पश्य सौमित्रे ! क्रीडन्निव समन्ततः ।
उत्तर:
प्रसङ्गः
श्लोकांशोऽयं
अस्माकं पाठ्यपुस्तकस्य 'ऋतुचित्रणम्' इति पाठात् उद्धृतः । मूलतः एषः पाठः आदिकविवाल्मीकिः
विरचितात् रामायणमहाकाव्यात् संकलितोऽस्ति । अस्यां पंक्तौ सीता वियुक्तः श्रीरामः
लक्ष्मणं वसन्तऋतोः दृश्यं वर्णयन् कथयति-
व्याख्या
सौमित्रे! = हे सुमित्रानन्दन! पश्य, मारुतः = अयं वायुः, समन्ततः
= सर्वतः, कुसुमैः = पुष्पैः सह, क्रीडन् इव = क्रीडति यथा प्रतीयते । इदं दृश्य इत्थं शोभते यत् पवनः पुष्पैः सार्द्ध क्रीडतीव
(हे
लक्ष्मण ! इधर देखो, यह वायु सभी ओर से फूलों के साथ जैसे खेल रही है, ऐसा प्रतीत होता
है। यह दृश्य ऐसा सुशोभित हो रहा है कि हवा पुष्पों के साथ मानो खेल खेल रही है।
(ख) नि:श्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।।
उत्तर:
प्रसङ्गः
श्लोकांशोऽयं
अस्माकं पाठ्यपुस्तकस्य 'ऋतुचित्रणम्' इति पाठात् उद्धृतः । मूलतः एषः पाठः आदिक विवाल्मीकि
विरचितात् रामायणमहाकाव्यात् संकलितोऽस्ति । अस्यां पंक्तौ गोदावरी नद्यास्तीरे रामः
स्वकीय अनुजं लक्ष्मणं हेमन्त ऋतोः वर्णयन् कथयति-
व्याख्या
निःश्वासान्धः-दीर्घ
निःश्वासेन, अन्धः = मलिनः, आदर्श इव = दर्पणवत्, चन्द्रमा = शशिः, न प्रकाशते = न
शोभते । भावोऽयं यत् यथा दीर्घ निःश्वासेन निसृतेन वाष्पेण अन्धः मलिनः दर्पणः न शोभते
तथैव शशिः अपि सूर्येण आक्रान्तः हिमकणैः च मलिनः न शोभते ।
(दीर्घ
निःश्वास से मलीन दर्पण के समान चन्द्रमा सुशोभित नहीं हो रहा है। भाव यह है कि जैसे
लम्बी साँस से निकली हुई भाप से अन्धा (मलिन) हुआ दर्पण शोभा नहीं देता, उसी प्रकार
सूर्य द्वारा आक्रान्त हुआ तथा हिमकणों से मलिन हुआ चन्द्रमा शोभा नहीं देता।)
4. प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत
कृ+क्त्वा (त्वा), क्रीड्+ शतृ, गन्ध+मतुप्, सम्+नि+रुध्+क्त,
उत्तर:
कृ+क्त्वा
= कृत्वा
क्रौड्+शतृ
= क्रीडन्
गन्ध+मतुप्
= गन्धवान्
सम्+नि+रुध्+क्त
= सन्निरुद्धः
5. प्रकृतिप्रत्ययविभागः क्रियताम्
त्यक्त्वा, विश्रम्य, समुद्वहन्त:, पतमान:, हिमवान् ।
उत्तर:
त्यक्त्वा
= त्यज् धातु क्त्वा प्रत्यय
विश्रम्य
= वि उपसर्ग क्षम् धातु ल्यप् प्रत्यय
समुद्वहन्तः
= सम् उपसर्ग वह् धातु शतृ धातु
पतमानः
= पत् धातु शानच् प्रत्यय
हिमवान्
= हिम शब्द मतुप् प्रत्यय
6. अधोलिखितान् शब्दान् आश्रित्य वाक्यरचनां कुरुत
क्रीडन्, गन्धवान्, विश्रम्य, पूरयित्वा, नभः, नदन्तः, त्यक्त्वा,
साम्प्रतम्, शिखिनः, प्रयाति।
उत्तर:
क्रीडन्
- सः क्रीडन् हसति |
गन्धवान्
- उद्यानं गन्धवान बायुः वहति |
विश्रम्य
- सः वृक्षस्य अधः विश्रम्य पुनः प्रयाति |
पूरयित्वा
- कृषकः जालेन क्षेत्रं पूरयित्वा तिष्ठति |
नभः
- नभः मेघ्यै आच्छादितं अस्ति |
नदन्तः
- वारिधरः नदन्तः प्रयान्ति |
त्यक्त्वा
- रामः राज्यं त्यक्त्वा वनं आगच्छत्
साम्प्रतम्
- साम्प्रतम् बालः रोदति |
शिखिनः
- गिरौ शिखिनः नृतन्ति |
प्रयाति
- सः विद्यालात् गृहं प्रयाति |
7. सन्धिं / सन्धिविच्छेद वा कुरुत
(क)
सुख अनिलः + अयम् = सुखानिलोऽयम्।
(ख)
प्रकीर्णाम्बुधरम् = प्रकीर्ण + अम्बुधरनम्।
(ग)
क्रीडन् + इव = क्रीडन्निव।
(घ)
चन्द्रोऽपि = चन्द्रः + अपि
(ङ)
निःश्वास + अन्धः = निःश्वासान्धः
8. अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत
(क)
प्लवङ्गाः - समाश्वसन्ति
(ख)
वनान्ताः - भान्ति
(ग)
शिखिन: - नृत्यन्ति
(घ)
नद्यः - वहन्ति
(ङ)
मत्तगजा: - नदन्ति
(च)
प्रियाविहीना: - ध्यायन्त
(छ)
घनाः - वर्षन्ति
9. अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत
(क) समुद्वहन्तः सलिलातिभारं ........... प्रयान्ति।
उत्तर:
अन्वयः
सलिल
अतिभारं सम् उद्वहन्तः बलाकिनः
वारिधराः
नदन्तः महीधराणाम् महत्सु शृङ्गेषु
विश्रम्य-
विश्रम्य पुनः प्रयान्ति ।।
(ख) हंसो यथा ............ तथाम्बरस्थः।
उत्तर:
अन्वयः
यथा
हंसः राजतपञ्जरस्थः, यथा सिंहः
मन्दरकन्दरस्थः,
यथा वीरः गर्वितकुञ्जरस्थः
च,
तथा अम्बरस्थः चन्द्रः अपि बभ्राज ।
10, अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत
(क) पतितैः पतमानैश्च .......... क्रीडन्निव समन्ततः ।
उत्तर:
‘प वर्ण’ की आवृत्ति होने से इस श्लोक में अनुप्रास अलंकार है। ‘क्रीडन्निव' में उत्प्रेक्षा
अलंकार है।
(ख) वहन्ति वर्षन्ति ............... प्लवङ्गाः।
उत्तर:
इस श्लोक में अनुप्रास तथा यथासंख्य अलंकार है।
(ग) रविसङ्क्रान्तसौभाग्यः ............. चन्द्रमा न प्रकाशते।
उत्तर:
इस श्लोक में उपमा अलंकार हैं।
11. अधोलिखितश्लोकेषु छन्दो निर्देश: कार्य:
(क) क्वचित्प्रकाशम ...........शान्तमहार्णवस्य ।
उत्तर:
'उपजाति'
(ख) हंसो यथा ........... तथाम्बरस्थः ।
उत्तर:
इन्द्रवज्रा
(ग) रविसङ्ङ्क्रान्तसौभाग्यः ............. न प्रकाशते ।
उत्तर: 'अनुष्टुप्'