CLASS-XI Sanskrit Arts Answer Key (TERM II) 2022

CLASS-XI Sanskrit Arts Answer Key (TERM II) 2022

Group - A खण्ड - क ( अति लघु उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानांकाः । केचन् पंच प्रश्नान् पूर्णवाक्येन उत्तरत - 2x 5 =10

1. अलावदीनः कस्य नगरस्य राजा आसीत् ?

उत्तर: अलावदीन: योगिनीपुरस्य नगरस्य राजा आसीत् ।

2. अलावदीनो नाम यवनराजः कस्मै कुप्यति ?

उत्तर: अलावदीनो नाम यवनराज: महिमासाहिनाम्ने सेनानिने कुप्यति ।

3. लाङ्गलिकः किं करोति ?

उत्तर: लाङ्गलिकः भूमिं कर्षति ।

4. 'ईशः कुत्र अस्ति' इति पाठः कस्मात् ग्रन्थात् संकलितः ?

उत्तर: इति पाठ: गीताञ्जल्या: ग्रन्थात् संकलितः।

5. कौ गान्धिनः हृदये नित्य सन्निहितौ आस्ताम् ?

उत्तर: हरिश्चन्द्रश्रवणौ गांधिनः हृदये नित्य सन्निहिती आस्ताम्।

6. गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?

उत्तर: गांधिन: आत्मकथा मूलत: गुजरातीभाषायां लिखिता।

7. कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति ?

उत्तर: स्निग्धं भोजनम् इन्द्रियाणि दृढीकरोति।

Group - B खण्ड ख ( लघु उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानांकाः । केचन् पंच प्रश्नान् उत्तरत- 3x 5 = 15

8. निर्देशानुसारं रूपं लिखत

(क) पठ् लृट्लकारे प्रथमपुरुषे बहुवचने

उत्तर: पठिष्यन्ति

(ख) दृश् लट्लकारे मध्यमपुरुषे एकवचने

उत्तर: पश्यसि

(ग) अस् लंङ्गलकारे उत्तमपुरुषे द्विवचने

उत्तर:  आस्व

9. उचितक्रियापदैः रिक्तस्थानानि पूरयत -

(क) जनाः गंगाजले स्नानं .....कुर्वन्ति.....। ( करोति / कुर्वन्ति )

(ख) सः चलचित्रं .....अपश्यत्......। ( अपश्यन् / अपश्यत्)

(ग) दशरथस्य चत्वारः पुत्राः ....आसन्......। (आसन् / आसीत्)

10. उचितं विभक्ति संयोज्य रिक्तस्थानानि पूरयत.

(क) ...विद्यालयं.......... उभयतः मार्गाः सन्ति । ( विद्यालय )

(ख) ... ब्राह्मणय:........... भोजनं यच्छ । (ब्राह्मण)

(ग) सीता .....रामेण........... सह वनम् अगच्छत् । (राम)

11. यथानिर्देशं परिचयं लिखत- 3

पद

लकार

पुरुष

वचन

(क) भवन्ति

लट् लकार

प्रथम पुरुष

बहुवचन

(ख) गमिष्यामि

लृट् लकार

उत्तम पुरुष

एकवचन

(ग) अपठः

लंऽ. लकार

मध्यम पुरुष

एकवचन

 

12. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत -3

(क) सत्यम् = रामः सत्यम् वदति।

(ख) वृक्षः = एषः वृक्ष: विशालः अस्ति ।

(ग) शीघ्रम् = सः शीघ्रम् चलति ।

13. पर्यायपदं लिखत - 3

(क) कमलम् = अम्बुजम् / जलजम्।

(ख) पिता = जनक: / तात:।

(ग) चन्द्रः = निशाकरः / हिमांशु

14. विलोमपदं लिखत- 3

(क) प्राचीनतमः = आधुनिकतम:।

(ख) दिनम् = रात्रि:

(ग) मम = तव।

Group - C खण्ड ग ( दीर्घ उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानाङ्काः । केषांचित् त्रयाणाम् एव उत्तरं लेख्यः 5 x 3 =15

15. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 5

देशस्य भक्तिः देशभक्तिः कथ्यते । देशभक्तिभावनया एव सैनिकाः अन्ये जनाः च देशहिताय स्वप्राणान् अपि त्यक्तुम् इच्छन्ति । कवयः च वदन्ति जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । लोकानां शरणदायिनी - नानाभोज्यपदार्थप्रदायिनी एषा अस्माकं जन्मभूमिः वीरभूमिः अस्ति ।

राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता । नरस्य हृदये राष्ट्रभावना यदि नास्ति, तदा तस्य जीवनं निष्फलम् अस्ति । युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः । यदा सर्वेषु एव देशवासिषु एतादृशी भविष्यति, तदा देशः नूनम् उन्नतिं करिष्यति ।

(क) एकपदेन उत्तरत-1/2x2 =1

(i) सैनिकाः अन्ये जनाः च देशहिताय किं त्यक्तुम् इच्छन्ति ?

उत्तर: स्वप्राणान्

(ii) अस्माकं जन्मभूमिः कीदृशी अस्ति ?

उत्तर: वीरभूमिः

(ख) पूर्णवाक्येन उत्तरत- 1×2=2

(i) राष्ट्रसंरक्षणाय का अपेक्षिता अस्ति ?

उत्तर: राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता ।

(ii) कवयः किं वदन्ति ?

उत्तर: कवयः वदन्ति जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।

(ग) यथानिर्देशम् उत्तरत- 1/2x4=2

(i) 'अवनतिः' इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?

उत्तर: उन्नति:

(ii) 'करिष्यति' पदे क लकार: ?

उत्तर: लृट्लकार:

(iii) 'समर्पितवन्तः' अस्य कर्तृपदं अत्र किं प्रयुक्तम् ?

उत्तर: वीरा:

(iv) 'शरणदायिनी जन्मभूमिः' अनयोः पदयोः विशेष्यपदं किम् ?

उत्तर: जन्मभूमि:

16. वार्षिकशुल्कं क्षमापनार्थं प्राचार्य प्रति पत्रे लिखत । 5

उत्तर: सेवायाम्

        प्राचार्यमहोदयः,

        +2 उच्च विद्यालय गोपीकांदर, दुमका ।

विषयः = वार्षिकशुल्कं क्षमापनार्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । अहं एकः अति निर्धनः छात्रः अस्मि । मम जनकस्य आर्थिकस्थिति: शोचनीया अस्ति।अहं वार्षिकशुल्कं दातुम् असमर्थ: अस्मि ।अतः वार्षिकशुल्कमुक्तं कृत्वा भवन्त: माम अनुग्रह्णन्तु ।

दिनांक:- 26/05/2022

भवताम् आज्ञाकारी शिष्य:

क ख ग

क्रमांक 11

17. मञ्जूषातः उचितानि पदानि चित्वा कथां पूरयत-5

मम नाम ....गंगा.....अस्ति । अहं ....पृथिव्याम्...... भागीरथी अस्मि, .....यतः....... भगीरथस्य तपसा एव ...अहम्..... धरित्र्याम् अवतीर्णा आसम् । जहनुः ऋषेः सुताकारणेन अहं .......जाह्नवी..... कथ्ये । देवानां नदीहेतुना अहं ...सुरसरिता...... अस्मि । .......त्रिपथगाम्.... माम् अनेन कारणेन ...कथयन्ति....... यतः मम ...त्रिषु....... पथिषु .....गमनम्...... अस्ति ।

मज्जूषा-

जाह्नवी, अहम्, सुरसरिता, गंगा, त्रिपथगाम्, पृथिव्याम्, कथयन्ति, यतः, गमनम्, त्रिषु ।

 

18. चम्पूकाव्यस्य वैशिष्ट्यं लिखत । 5

उत्तर:

1) गद्यपद्यमयी रचना चम्पूकाव्यं कथ्यते ।

2) श्रृंगारवीरशान्तादिरसानां प्रयोगः चम्पूकाव्ये क्रियते ।

3) चम्पूकाव्ये सर्गाणां नामानि उच्छवास: उल्लास: इत्यादिपदैः क्रियन्ते

4) विविधानां कथावस्तूनां प्रयोगः चम्पूकाव्येषु दृश्यते ।

5) चम्पूकाव्येषु सरलगद्यानां प्रयोगः क्रियते।

6) प्रमुखचम्पूकाव्यस्य नामानि = त्रिविक्रमभट्ट नलचम्पू: मदालसाचम्पूः च । सोमदेवसूरि कृत यशस्तिलकचम्पू:, अनन्तभट्ट कृत भारतचम्पू:, महाराज भोजकृत रामायणचम्पूः, श्रीकृष्ण कृत पारिजातहरणचम्पू: ।

19. अधोलिखितानां ग्रन्थानां लेखकानां नामानि लिखत- 5

(क) रामायणम् - वाल्मीकि:।

(ख) जातकमाला - आर्यशूर:।

(ग) पुरुषपरीक्षा - विद्यापति:।

(घ) अभिज्ञानशाकुंतलम् - कालिदास:।

(ङ) कादम्बरी - वाणभट्ट:।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare