झारखंड - शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, रांची
वार्षिक
परीक्षा आदर्श प्रश्न-पत्रम्
कक्षा दशमी विषयः-संस्कृतम्
बहु-
विकल्पात्मका: (MCQ) (FM=40)
2022-23
समय:- सार्द्ध एक होरा,
सामान्य-निर्देशा:-
1.
अस्मिन् प्रश्नपत्रे सर्वे चत्वारिंशत् ( 40 ) प्रश्नाः सन्ति ।
2.
प्रत्येक प्रश्नस्य कृते चत्वारः विकल्पाः प्रदत्ताः सन्ति ।
3.
सर्वे प्रश्नाः अनिवार्याः सन्ति
4.
प्रत्येक प्रश्नस्य कृते 1-1 अंकः निर्धारितः ।
खण्ड-क
(अपठित गद्यांशः) (5)
निर्देशः - अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उत्तराणि चित्वा लिखन्तु
-
"भारतदेशः
प्राचीनकालादेव अहिंसायाः प्रचारम् "अहिंसा परमोधर्मः" इति कथयित्वा कुर्वन्नस्ति
। आधुनिक युगे राष्ट्रपिता महात्मागांधी अपि हिंसायाः विरोधे स्वस्वरं गुञ्जितम् अकरोत्
अहिंसायाः च प्रचारम् अकरोत्। वास्तवरूपे हिंसा जनान् पशुवत् करोति । अनया जनेषु प्रेम्णः
स्नेहस्य च भावना समाप्यते । निस्सन्देहं हिंसा अतीव दुर्गुणरूपे भवति । परं दासता
तु तस्याः अपि वीभत्सरूपं वर्तते । कश्चिदपि जनः स्वस्वतन्त्रतां विस्मृत्य सुख-शान्तिपूर्वकं
स्वप्तुमपि न शक्यते यदि कश्चिदपि पक्षी पञ्जरे बद्धयते तर्हि सः बहिः गन्तुं परिपूर्णशक्तया
प्रयत्नं करोति उदासीनः दुःखी च भवति । परं मनुष्यः तु विवेकी प्राणी भवति, तस्य समीपे
मस्तिष्को हृदयश्च वर्तते अतः सः दासतायाः बन्धनेषु कथं वस्तुं शक्नोति। "
1. अतीव दुर्गुणरूपे का भवति ?
(क)
अहिंसा
(ख) हिंसा
(ग)
अधिकारः
(घ)
सत्यम्
2. प्राचीनकालादेव अहिंसायाः प्रचारम् अकरोत् ?
(क)
आंग्लदेशः
(ख)
अमेरिका-देशः
(ग)
पाकिस्तानदेशः
(घ) भारतदेशः
3. हिंसा कान् पशुवत् करोति ?
(क)
गजान्
(ख)
नृपान्
(ग) जनान्
(घ)
दुर्गुणान्
4. मनुष्यः कीदृशः प्राणी भवति?
(क) विवेकी
(ख)
अविवेकी
(ग)
असभ्यः
(घ)
बुद्धिहीनः
5. आधुनिकयुगे कः महापुरुषः हिंसायाः विरोधे आसीत् ?
(क)
सुभास चन्द्र बोसः
(ख)
जवाहरलाल नेहरु:
(ग) महात्मा गांधी
(घ)
पटेलः
खण्ड ख
पठित-अवबोधनम् (20)
निर्देशः- अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्यः
चित्वा लिखन्तु -
"अस्ति
देउलाख्यो ग्रामः । तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यक कार्ये
तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृह प्रति चलिता । मार्गे गहनकानने सा
एकं व्याघ्रं ददर्श । सा व्याघ्रं आगच्छन्तं दृष्ट्वा धाष्ट्रर्यात् पुत्रौ चपेटया
प्रहृत्य जगाद कथम् एकैकशः व्याघ्रं भक्षणाय कलहं कुरुथः ? "
6. किं नाम ग्रामः आसीत
(क) देउलाख्यो
(ख)
कर्णपुरम्
(ग)
जगतपुरम्
(घ)
पाटलिपुत्रम्
7. राजपुत्रस्य नाम किम् आसीत्?
(क)
देउलाख्यों
(ख)
गहनकाननं
(ग) राजसिंहः
(घ)
महेन्द्रवीरः
8. बुद्धिमती केन सह पितुर्गृहं प्रति चलिता?
(क) पुत्रद्वयोपेता
(ख)
राजसिंहेन
(ग)
राजपुत्रेण
(घ)
व्याघ्रेण
10th Science (विज्ञान) Model Question Solution, 2022-23
9. "मार्गे गहनकानने सा एकं व्याघ्रं ददर्श "अत्र क्रियापदं
किम् अस्ति ?
(क)
व्याघ्रं
(ख) ददर्श
(ग)
सा
(घ)
मार्गे
10. "बुद्धिमती पुत्रद्वयोपेता पितुर्गृह प्रति चलिता" अत्र
कर्तृ-पदं किम् अस्ति?
(क) बुद्धिमती
(ख)
पितुर्गृह
(ग)
चलिता
(घ)
पुत्रद्वयोपेता
निर्देश:- अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा
लिखन्तु -
"
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् । शुचि-पर्यावरणम्
महानगरमध्ये
चलदनिशं कालायसचक्रम् ।।
मनः
शोषयत् तनुः पेषयत् भ्रमति सदा वक्रम्
दुर्दान्तैर्दशनैरमुना
स्यान्नैव जनग्रसनम् । शुचि ... | "
11. दुर्वहम् अत्र किं जातम् ?
(क) जीवितं
(ख)
शरणम्
(ग)
प्रकृतिरेव
(घ)
सुधि
12. अत्र जीवितं कीदृशं जातम् ?
(क) दुर्वहम्
(ख)
पर्यावरणम्
(ग)
प्रकृतिः
(घ)
चक्रम्
13. अनिशं महानगरमध्ये किं प्रचलति ?
(क)
प्रकृतिः
(ख) कालायसचक्रम्
(ग)
जीवितं
(घ)
यानम्
14. किम् शोषयत् सदा वक्रं भ्रमतिर
(क)
वृक्षम्
(ख)
जलम्
(ग) मनः
(घ)
चक्रम्
15. "प्रकृतिः एव शरणम् " अत्र अव्यय पदं किम्?
(क)
प्रकृतिः
(ख) एव
(ग)
शरणम्
(घ)
प्रकृतिरेव
निर्देश:- नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा लिखन्तु
-
"(
सिंहासनस्थः रामः । ततः प्रविशतः विदूषकेन उपदिश्यमानमार्गी तापसौ कुशलवाँ ।)
विदूषकः-
इत इत आर्यो ।
कुशलवौ
(रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य ?
रामः-
युष्मद् दर्शनात् कुशलमिव । भवतोः किं वयम् अत्र कुशल प्रश्नस्य भाजनम् एव, न पुनः
अतिथिजन - समुचितस्य कण्ठाश्लेषस्य । (परिष्वज्य ) अहो हृदयग्राही स्पर्शः। "
16. कुशलवौ कम् उपसृत्य प्रणमतः ?
(क) रामम्
(ख)
विदूषकम्
(ग)
भरतम्
(घ)
दशरथम्
17." इत इत आर्यों" इति कः कथयति?
(क)
रामः
(ख)
लवः
(ग)
कुशः
(घ) विदूषकः
18. सिंहासनस्थः कः?
(क)
दशरथः
(ख) रामः
(ग)
विदूषकः
(घ)
कुशः
19." ततः प्रविशतः ---------- तापसौ कुशलवा" अत्र कुशलवाँ
' इत्यस्य विशेषणं किम् अस्ति ?
(क) तापसौ
(ख)
ततः
(ग)
प्रविशतः
(घ)
विदूषकेन
20. 'अकुशलम् ' इत्यस्य विलोमपदं किम्?
(क) कुशलम्
(ख)
अपि
(ग)
दुर्जनम्
(घ)
शोभनम्
निर्देश:- रेखांकितपदेषु प्रश्नवाचक पदानि विकल्पेभ्यः चित्वा लिखन्तु
-
21. शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते
(क)
केन
(ख) कस्य
(ग)
कीदृशः
(घ)
कम्
22. सुराधिपः ताम् अपृच्छत् ।
(क)
कस्य
(ख) कः
(ग)
कुत्र
(घ)
कस्मात्
23. मनुष्याणां महान् रिपुः आलस्यम् ।
(क)
कस्य
(ख) केषाम्
(ग)
कथम्
(घ)
कति
24. ' पुत्रं द्रष्टुं सः प्रस्थितः ।
(क)
केन
(ख) कम्
(ग)
कुत्र
(घ)
कीदृशः
25. न्यायाधीशः बंकिमचन्द्रः आसीत् ।
(क) कः
(ख)
कस्मै
(ग)
कम्
(घ)
कदा
'खण्ड-ग' (अनुप्रयुक्त-व्याकरणम् (15)
निर्देशः - अधोलिखित - वाक्येषु रेखांकितपदस्य संधि-पदं विच्छेद- पदं वा
चिनुत-
26. नास्ति उद्यम समः बन्धुः ।
(क)
नो+अस्ति
(ख) न+अस्ति
(ग)
नि+अस्ति
(घ)
ने+अस्ति
27. तथापि वृषः न + उत्थितः
(क) नोत्थितः
(ख)
नोउत्थितः
(ग)
नावोत्थितः
(घ)
नौत्थितः
28. क्षणमपि मे स्यात् सञ्चरणम्
(क)
सत्+चरणम्
(ख) सम्+चरणम्
(ग)
सन्+चरणम्
(घ)
स+चरणम्
29. पिता अस्य किं 'तपस्तेपे'।
(क) तपः+तेपे
(ख)
तपस् +तेपे
(ग)
तपश्+तेपे
(घ)
तपो+तेपे
30. 'तथा+एव' कार्यं करणीयम् ।
(क)
तथाएव
(ख) तथैव
(ग)
तथोव
(घ)
तथाव
निर्देश:- रेखांकितपदानां प्रकृति- प्रत्ययाँ संयोज्य विभाज्य वा विकल्पेभ्यः
चिनुत-
31. करणीयं बहिः अन्तर्जगति तु बहुशुद्धीकरणम् ॥'
(क) कृ+अनीयर्
(ख)
क्रा + अनीयर्
(ग)
करण + अनीयर्
(घ)
क्री+अनीयर्
32. बुद्धिः बल + मतुषु तन्वि सर्वकार्येषु सर्वदा
(क) बलवती
(ख)
बलवत्
(ग)
बलमान्
(ध)
बलुमान्
33. 'गुणी' गुणं वेति ।
(क) गुण+इनि
(ख)
गुण+टाप्
(ग)
गुण+क्त
(घ)
गुण+अनीयर्
34. इयं 'बालक+टाप्' अस्ति ।
(क) बालिका
(ख)
बालिकी
(ग)
बालिके
(घ)
बालिक
35. परिश्रमस्य महत्त्वं को न जानाति?
(क) महत् + त्व
(ख)
महत् +टाप्
(ग)
महत् + डीप्
(घ)
महत् + मतुप्
निर्देश:- उचित-अव्ययपदं विकल्पेभ्यः चिनुत-
36. .......... व्यायमः कर्तव्यः ।
(क) सर्वदा
(ख)
अन्यथा
(ग)
यदा-कदा
(घ)
अपि
37. सिंहः ------ गर्जति
(क) उच्चैः
(ख)
खलु
(ग)
च
(घ)
मा
38. -------- दशरथः नाम नृपः आसीत् ।
(क)
अद्य
(ख) पुरा
(ग)
इव
(घ)
इति
39. त्वम्------ गच्छसि ?
(क)
इति
(ख)
उच्चैः
(ग) अपि
(घ)
अन्यथा
40. कुक्कुरः ---------- भ्रमति ।
(क)
मा
(ख)
चित्
(ग)
विना
(घ) इतस्ततः
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद, राँची वार्षिक परीक्षा 2022-23,
(विषयनिष्ठ Subjective) (मॉडल प्रश्न-पत्र ) पूर्णांका:- 40 अंकाः ।
सामान्य-निर्देशा:-
1.
सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्तव्याणि-
2.
अस्मिन् प्रश्नपत्रे त्रयः खण्डाः सन्ति सर्वेषां प्रश्नानाम् संख्याः 19 सन्ति ।
3.
प्रश्न- संख्या 1 तः 7 पर्यन्तम् अति- लघुतरीयाः प्रश्नाः सन्ति । अस्य कृते 2-2 अंक
निर्धारितौ स्तः । केचन पंचानाम् प्रश्नानाम् उत्तराणि देयानि ।
4.
प्रश्न संख्या 8 तः 14 पर्यन्तम् लघुत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 3-3 अंका:
निर्धारिताः सन्ति । केचन पंचानाम् प्रश्नानाम् उत्तराणि देयानि ।
5.
प्रश्न संख्या 15 तः 19 पर्यन्तं दीर्घत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 5-5 अंकाः
निर्धारिताः । केचन त्रयाणाम् प्रश्नानाम् उत्तराणि देयानि
"खण्ड क" (10 अंकाः)
निर्देश:- निम्नलिखितं गद्यांश पद्यांशं नाट्यांश च पठित्वा केवलं पञ्चानां
प्रश्नानाम् उत्तराणि एव देयानि (2x5=10)
"कश्चन
निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन्
महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने
संलग्नः समभूत् । एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं
च प्रस्थितः । परमर्थकायॆन पीडितः स बसयानं विहाय पदातिरेव प्राचलत् । "
पूर्णवाक्येन
उत्तरत-
1. कीदृशः जनः परिश्रमं कृत्वा धनमर्जितवान्? (2)
उत्तर
: निर्धनः जनः परिश्रमं कृत्वा धनमर्जितवान् ।
2. किं विहाय सः पदातिरेव प्राचलत् ? (2)
उत्तर
: बसयानं विहाय सः पदातिरेव प्राचलत्।
3. "निर्धनः जनः" अत्र विशेषणपदं किम् ? (2)
उत्तर
: अत्र “निर्धनः” विशेषणपदम् अस्ति ।
निर्देश:- अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत-
"आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः
नास्त्युद्यमसमः बन्धुः कृत्वा यं नावसीदति ॥
पूर्णवाक्येन
उत्तरत-
4. अस्माकं महान् रिपुः कः वर्तते ? (2)
उत्तर
: अस्माकं महान् रिपुः “आलस्यम्” वर्तते।
5. "मित्रम्" इति पदस्य विलोमपदम् पद्यांशे किम् प्रयुक्तम्
? (2)
उत्तर
: पद्यांशे “मित्रम्” इति पदस्य विलोमपदं “रिपुः” प्रयुक्तम्
निर्देश:- Q. (3) अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
-
"सिंहः-
(क्रोधेन गर्जन) भोः ! अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा
?
एकः
वानरः यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः । राजा तु रक्षकः भवति परं भवान् तु
भक्षकः । अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?"
पूर्णवाक्येन
उत्तरत-
6. 'यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः । इति कः कथयति? (2)
उत्तर
: “यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः” इति एकः वानरः कथयति।
7. "राजा तु रक्षकः" अत्र विशेषेण पदं किम् अस्ति ? (2)
उत्तर
: “राजा तु रक्षकः” अत्र विशेषण - पदं “रक्षकः” अस्ति।
खण्ड-ख (15)
निर्देश:- (अस्मिन् खण्डे केवलं पञ्चानां प्रश्नानाम् उत्तराणि एव देयानि
)
अधोलिखित श्लोकस्य अन्वयं मंजूषायाः पदानि चित्वा पूरयत (3)
"
शरीरायासजननं कर्म व्यायामसंज्ञितम्
तत्कृत्वा
तु सुखं देहं विमृद्नीयात् समन्ततः ॥"
8. अन्वयः - शरीरस्य आयास जननं कर्म व्यायामसंज्ञितम्
(i)
--तत्कृत्वा------तु
(ii)
--देहम्---- सुखं
(iii)
---समन्ततः---- विमृदुनीयात्।
मंजूषा
- ( देहम्, समन्ततः, तत्कृत्वा)
निर्देश:- अधोलिखितश्लोकस्य भावार्थ मञ्जूषातः उचितं पदं चित्वा पूरयत
(3)
"सेवितव्यः
महावृक्षः फलच्छाया समन्वितः ।
यदि
दैवात् फलं नास्ति छाया केन निवार्यते ॥"
9.
भावार्थ: संसारे सदैव फलैः छायया च युक्तः महान् वृक्षः (i)--आश्रितव्यः----- भवति । यदि दुर्भाग्यवशात् तस्मिन् वृक्षे
(ii)---फलानि------- न अपि भवेयुः तथापि तम्
(iii) ----छायाम्----- दातुम् कश्चित् अपि रोद्धं
न शक्नोति
मञ्जूषा
(आश्रयितव्यः, छायाम् फलानि )
10. समुचितं कालबोधकं शब्द लिखत-(3)
(i)
जननी प्रातः ---नव------ (09:00) वादने उत्तिष्ठति ।
(ii)
छात्रः विद्यालयं --सपादनव------ (09:15) वादने
गच्छति ।
(iii)
देव: सायं --पादोनषड् / पादोनषट्-----(05:45) वादने
भ्रमति ।
11. वाच्यस्य नियमानुगुणम् विकल्पं शुद्धं चिनुत- (3)
(i)
देवः ----फलम्-------- खादति ।
(क)
फलम् (ख) फलेन (ग) फलस्य (घ) फलात्
(ii) लतया पुस्तकम् --पठ्यते-----
(क)
पठन्ति (ख) पठ्यते (ग) पठानि (घ) पठ्यन्ते
(iii)
मया उच्चैः --हस्यते------
(क)
हस्यते (ख) हसति (ग) हसामि (घ) हसन्ति
12. रेखांकितपदम् अशुद्धम् अस्ति । शुद्धं कुरुत-(3)
(i) सः पाठं पठन्ति ।
उत्तर
: पठति
(ii) अहं विद्यालयं श्वः गच्छामि
उत्तर
: गमिष्यामि
(iii) सः बालिका अस्ति ।
उत्तर
: सा
13. रेखांकित पदानां समासं विग्रहं वा चिनुत (3)
(i) मक्षिकाणाम अभावः ' अत्र
उत्तर
: निर्मक्षिकम्
(क)
मक्षिकाभाव: (ख) निर्मक्षिकम् (ग) मक्षिभाव: (घ) निर्मक्षिका
(ii) ' अयोग्यः' पुरुषः नास्ति ।
उत्तर
: न योग्यः
(क)
आ योग्य: (ख) न योग्य: (ग) आम् योग्य: (घ) नञ योग्यः
(iii) 'दशरथस्य पुत्रः' रामः आसीत् ।
उत्तर
: दशरथपुत्रः
(क) दशरथायपुत्रः (ख) दशरथपुत्रः (ग) दशरथेपुत्रः (घ) दशरथपुत्राय
14. अधोलिखित- समानार्थक पदैः मेलनं 'कुरुत - (3)
(i)
चक्षुर्भ्याम् (क) वृषभः
(ii)
जवेन (ख) देवराजः
(iii)
इन्द्रः (ग) नेत्राभ्याम्
(iv)
शीघ्रम् (घ) अचिरम्
(v)
बलीवर्दः (ङ) सुताः
(vi)
पुत्राः (च) तीव्रगत्या
उत्तर : (i) - (ग), (ii) -
(च), (iii) - (ख), (iv) - (घ),
(v) - (क), (vi), - (ङ)
खण्ड ग (15)
( अस्मिन् खण्डे केवलं त्रयाणां प्रश्नानाम् उत्तराणि एव देयानि -)
15. अवकाशाय प्रधानाध्यापकं प्रति लिखितमिदं पत्रं मंजूषा सहायतया पूरयत-
(5)
(i)
--सेवायाम्--------,
प्रधानाध्यापक
महोदय !
कखग
- उच्च विद्यालयः रॉचीनगरम् ।
विषय:-
अवकाशाय आवेदनपत्रम् ।
महाशय,
सविनयं
(ii) ----निवेदनम्------- इदम् अस्ति यत्
(iii) ----अहम्------ हयः ज्वरेण (iv)---पीडितः---- आसम् । अस्मात् (v) --कारणात्---- अहं विद्यालयम् आगन्तुम् (vi)----असमर्थः------ अस्मि। चिकित्सकः मम कृते विश्रामं कर्तुं
(vii)--परामर्शम्-----दतवान्। अत एव त्रयाणां दिवसानां
(viii)---अवकाशम्------ प्रदाय ममोपरि भवान्
(ix)----अनुग्रहं-----करोतु । एतदर्थं सदैव ऋणी
भविष्यामि।
सधन्यवादः
।
भवतः
(x)---आज्ञाकारी----छात्रः
महेश्वर:
कक्षा नवमी।
तिथि:--------
मंजूषा
- (अनुग्रह, सेवायाम् पीडित, असमर्थः कारणात् परामर्शम, आज्ञाकारी, अवकाशम् निवेदनम्
अहम्)
16. चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि विरचयत- (5)
मंजूषा
(नदी, जनाः, तरन्ति वार्तालाप, क्रीडतः, नदीतीरे, वृक्षः, व्यायामम्, शीतलम्, जलम्,
अधः, नद्याम्)
उत्तर
:
(i)
इदं एकस्याः नद्याः चित्रम् अस्ति ।
(ii)
अत्र जनाः नद्यां तरन्ति ।
(iii)
नदीतीरे एकः वृक्षः अस्ति।
(iv)
वृक्षस्य अधः जनाः वार्तालापं कुर्वन्ति ।
(v)
अत्र द्वौ बालकौ क्रीडतः ।
17. 'मम विद्यालय इति विषयम् अधिकृत्य संस्कृते पञ्चवाक्येषु मंजूषा
सहायतया अनुपदं लिखत-(5)
मञ्जूषा
(आदर्श विद्यालयः, श्रेष्ठः प्राचार्य, शिक्षकाः, विषयान् सहस्रं छात्राः, बालक-बालिकाः,
नगरे, पंक्तिबद्धाः, प्रार्थयन्ति, वृक्षाः, क्षेत्रम्, उद्यानम् )
उत्तर
:
[i]
मम विद्यालयः आदर्श विद्यालयः अस्ति ।
[ii]
अत्र सहस्रं छात्राः पठन्ति ।
[iii]
सर्वे बालक-बालिकाः पंक्तिबद्धाः भूत्वा ईश्वरं प्रार्थयन्ति ।
[iv]
सर्वे शिक्षकाः स्वविषयान् पाठयन्ति।
[v]
विद्यालये एकं सुन्दरम् उद्यानम् अपि अस्ति ।
18. स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(5)
(क) शिविना विना इदं दुष्करं कार्य कः कुर्यात् ।
उत्तर
: कम्/केन विना इदं दुष्करं कार्यं कः कुर्यात् ?
(ख) प्राणेभ्योऽपि प्रियः सुहृत् ।
उत्तर
: प्राणेभ्योऽपि प्रियः किम् ?
(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता ।
उत्तर
: कस्य प्रसादेन मे वणिज्या अखण्डिता ?
(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति
।
उत्तर
: प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति ?
(ङ) तृणानाम् अग्निना सह विरोधो भवति ।
उत्तर
: केषाम् अग्निना सह विरोधो भवति ?
19. अधोलिखित वाक्यानि घटनाक्रमानुसारेण योजयत -(5)
(क) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
उत्तर
: बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
(ख) मार्गे सा एकं व्याघ्रम् अपश्यत् ।
उत्तर
: मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच अधुना एकमेव व्याघ्रं
विभज्य भुज्यताम्।
उत्तर
: व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच - अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
उत्तर
: व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
(ङ) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता ।
उत्तर : जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।