12th Sanskrit सप्तमः पाठः "विक्रमस्यौदार्यम्”

12th Sanskrit सप्तमः पाठः "विक्रमस्यौदार्यम्”
12th Sanskrit सप्तमः पाठः "विक्रमस्यौदार्यम्”
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit सप्तमः पाठः " विक्रमस्यौदार्यम्” 1. पूर्णवाक्येन उत्तरत- (क) विक्रमस्यौदार्यं पाठः कस्मात् ग्रन्थात् सङ्कलितः ? उत्तर- विक्रमस्यौदार्यं पाठः सिंहासनद्वात्रिंशिका इति ग्रन्थात् सङ्कलितः । (ख) उपार्जितानां वित्तानां रक्षणं कथं भवति? उत्तर- उपार्जितानां वित्तानां रक्षणं त्यागेन भवति । (ग) धनविषये कीदृशः व्यवहारः कर्तव्यः ? उत्तर- धनविषये दानभोगैः व्यवहारः कर्तव्यः । (घ) जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ? उत्तर- जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं ब्राह्मणः स्थितः। (ङ) समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान्? उत्तर- समुद्रः राज्ञे व्ययार्थं रत्नचतुष्टयं दत्तवान् । (च) द्वितीयरत्नेन किम् उत्पद्यते? उत्तर- द्वितीयरत्नेन अमृततुल्यं भोजनादिकम् उत्पद्यते । (छ) प्रीतिलक्षणम् कतिविधं भवति? उत्तर- प्रीतिलक्षणं षड्विधं भवति । 2. रिक्तस्थानानि पूरयत (क) उपार्जितानां वित्तानां ---- त्याग एव ----हि रक्षणम् । (ख) दातव्यं भोक्तव्यं धनविषये -- सञ्चयः ---- न कर्तव्यः ।