तृतीयः
पाठः परोपकाराय सतां विभूतयः
1.
संस्कृतभाषया उत्तरत
(क) जातकमालाया: लेखकः कः ?
उत्तर:
जातकमालायाः लेखकः आयूशूरः वर्तते।
(ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ?
उत्तर:
कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः
बभूव ।
(ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत्?
उत्तर:
महासत्त्वः मीनानां स्वकीय सत्य तपोबलेन परमनुग्रहम्
अकरोत्।
(घ) सर: लघुपल्वलमिव कथमभवत् ?
उत्तर:
उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारूतेन पिपासावशादिव
प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्।
(ङ) बोधिसत्त्व : किमर्थं चिन्तामकरोत् ?
उत्तर:
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करूणायमानः चिन्तामापेदे ।
(च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म?
उत्तर:
तोयम् आयुषा स्पर्धमानमिव प्रत्यहं क्षीयते स्म।
(छ) आकाशे अकाला अपि के प्रादुरभवन्?
उत्तर:
आकाशे अकाला अपि कालमेघाः प्रादुरभवन्।
(ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् ?
उत्तर:
वर्षानिवृत्ति आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं
प्रार्थितवान् ।
(झ) शक्र: केषां राजा आसीत् ?
उत्तर:
शक्रः देवानां राजा आसीत्।
(ञ) अस्माभिः कुत्र प्रयतितव्यम् ?
उत्तर:
अस्माभिः शीलविशुद्धौ प्रयतितव्यम्।
2.
रिक्तस्थानानि पूरयत
(क)
बोधिसत्त्वः परहितसुखसाधने ...व्यापृत: .....अभवत्
।
(ख)
तत्रस्थिता: मीना: जलाभावात् .....मृतप्राया:
.....इव संजाताः ।
(ग)
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्व: ..करूणायमानं
चिन्ताम् .....आपेदे।
(घ)
स महात्मा स्वकीयसत्यतपोबलमेव तेषां ..रक्षणोपायम् ...अमन्यत
।
(ङ)
तत् ....सर: ...... तोयसमृद्धिमवाप।
3.
सप्रसङ्ग व्याख्या कार्या
(क) बहुषु जन्मान्तरेषु परोपकार - अभ्यासवशात् तत्रस्थः अपि परहितसुखसाधने
व्यापृतः अभवत् ।
उत्तर:
प्रसङ्गः
पंक्तिरियं
अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः इति पाठात् उद्धृतः। मूलतः अयं
पाठः आर्यशूर- विरचितात् 'जातकमाला' इति कथाग्रन्थात् संकलितः । अत्र लेखकः बोधिसत्त्वस्य
परहित- दयार्द्रतां वर्णयति-
व्याख्या
बहुषु जन्मान्तरेषु = अनेकेषु पूर्वजन्मसु, परोपकार- अभ्यासवशात् = परहित-कार्याणि अनवरतमेव सम्पादनात्
अभ्यस्तोऽयं बोधिसत्त्वः, तत्रस्थः अपि= तस्मिन्नेवजन्मनि
(मत्स्याधिपतिः रूपे) एव स्थितः, परहितसुखसाधने व्यापृतः
अभवत्= परोपकाररतः संजातः, तेषां मीनानां सुखसाधने, संलग्नोऽभवत्।
(ख) अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः ।
उत्तर: प्रसङ्गः
पंक्तिरियं
अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः पाठात् उद्धृतः । मूलतोऽयं पाठः
आर्यशूर-विरचितात् जातकमाला इति कथाग्रन्थात् संकलितः। अस्मिन् वाक्ये बोधिसत्त्वः
कथयति-यत् मानवः स्वकर्मणां फलं अवश्यमेव भुङ्क्ते
व्याख्या
अस्माकं
पापाचारैः एव आकृष्टाः अस्माकं शत्रवः ईतिभीत्यादयः समन्ततः आगच्छन्ति । अर्थात् मानवः
स्वकर्मणामेव फलं भुङ्क्ते ।
(ग) शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति ।
उत्तर:
प्रसङ्गः
इयं
पंक्तिः अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः इति पाठात् उद्धृतः
। मूलतोऽयं पाठः आर्यशूर-विरचितात् जातकमाला इति कथाग्रन्थात् संकलितः । अस्मिन् वाक्ये
बोधिसत्त्वः मानवेभ्यः उपदिशति-
व्याख्या
ये
मानवाः शीलवन्तः सदाचारशालिनः वर्तन्ते, ते अस्मिन् संसारे एव भद्राणि मनोरथान् वृद्धिञ्च
प्राप्नुवन्ति । भावोऽयं यत् मानवः स्वकर्मणां फलं अत्रैव अस्मिन् एव जन्मनि अस्मिन्
एव लोके च भुङक्ते ।
4.
अधोलिखितशब्दान् ल्यबन्तेषु शतृप्रत्ययान्तेषु शानच्प्रत्ययान्तेषु च विभज्य लिखत
आपीयमानम्, अवेक्ष्य, स्पर्धमानम्, समापीड्यमानम्, निःश्वस्य, रत्नायमानानि,
अभिगम्य, संराधयन्, विमृशन्, समुल्लोकयन् ।
उत्तर:
ल्यबन्त :-
अवेक्ष्य - अव + ईक्ष् + ल्यप्
निःश्वस्य - निः + श्वस् + ल्यप्
अभिगम्य - अभि + गम् + ल्यप् ।
शतृ प्रत्ययान्त-
संराधयन् - सम् + राध् + शतृ ।
विमृशन् - वि + मृश् + शतृ।
समुल्लोकयन् - सम् + उत् + लोक् + शतृ।
शानच् प्रत्ययान्त-
आपीयमानम् - आ + पा + शानच् ।
स्पर्धमानम् - स्पर्ध + शानच् ।
समापीड्यमानम् - सम् + आङ् + पीड्
रत्नायमानानि - रत्नाय + शानच् ।
5.
विशेषणानि विशेष्यैः सह योजयत
(क) सरसि
इष्टानाम्
(ख) धरण्या
कदम्बकुसुमगौरेण
(ग) अपत्यानाम्
हंसचक्रवाकादिशोभिते
(घ) नवसलिलेन अभितप्तया
(ङ) पक्षिण:
ज्वालानुगतेन
(च) बोधिसत्त्व:
तंत्रस्थाः
(छ) मीन:
सलिलतीरवासिनः
(ज) मारुतेन
करुणायमानः
उत्तर:
(क)
सरसि हंसचचक्रवाकादि शोभिते
(ख)
धरण्या अभितप्तया
(ग)
अपत्यानाम् इष्टानाम्
(घ)
नवसलिलेन कदम्बकुसुमगौरेण
(ङ)
पक्षिण: सलिलतीरवासिनः
(च)
बोधिसत्त्व: करुणायमानः
(छ)
मीन: तत्रस्थाः
(ज)
मारुतेन ज्वालानुगतेन
6.
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुध्वम्
कस्मिंश्चित्, भाग्यवैकल्यात्, आपीयमानम्, लक्ष्यते, विमृशन्, अभिगम्य,
प्रयतितव्यम्।
उत्तर:
1.
कस्मिंश्चित् वने एकः सिंहः वसति स्म ।
2.
प्राणिनाम् भाग्यवैकल्यात् देवो न ववर्ष।
3.
प्रत्यहम् आपीयमानम् तत् सरः शुष्कमभवत्।
4.
अस्मात् स्थानात् तत् चित्रं न लक्ष्यते।
5.
अस्मिन् विषये विमृशन् सः सुप्तः।
6.
देवराजः साक्षात् अभिगम्य बोधिसत्वम् उवाच ।
7.
अस्माभिः अस्मिन् विषये प्रयतितव्यम् ।
7.
पर्यायवाचकं चिनुत
मीन:, पक्षी, प्रत्यहम्, आपद्, पर्जन्यः ।
उत्तर:
शब्दः |
पर्यायम् |
मीन:
= |
मत्स्यः,
झषः |
पक्षी
= |
खगः,
शकुन्तः। |
प्रत्यहम्
= |
प्रतिदिनम्। |
आपद्
= |
विपद्,
विपत्तिः। |
पर्जन्यः
= |
मेघः
वारिधरः वारिदः । |
8.
अधोलिखितवाक्येषु उपमानानि योजयत
(क)
.....इष्टानाम् .... इव मीनानां परमनुग्रहं चकार
।
(ख)
.....आयुषा .... इव तोयं प्रत्यहं क्षीयते ।
(ग)
...आवर्जिता: करना: .... इव इमे पयोदाः क्षरन्ति
।
(घ)
...कदम्बकुसुमगौरेण ... इव नवसलिलेन सर: परिपूर्णं
न जातम् ।
(ङ) सर: ग्रीष्मकाले .....लघुपल्वलम् ...... इव सञ्जातम् ।