Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23

झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची ।

PROJECT RAIL

(REGULAR ASSESSMENT FOR IMPROVED LEARNING)

19.10.2023

विषयः - संस्कृतम्

कक्षा - 12

समयः 90 निमेषा:

पूर्णांक: - 40

सामान्यनिर्देशाः

अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति।

• सर्वे प्रश्नाः अनिवार्याः सन्ति।

प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति।

प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति।

प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति ।

प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति ।

अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत-

1. जनकादयः केन सिद्धिम् आस्थिताः ?

क. अकर्मणा

ख. धनेन

ग. कर्मणा

घ. पराक्रमेण

2. अकर्मणः किं ज्यायः ?

क. कर्म

ख. विकर्म

ग. अधर्मः

घ. कुकर्म

3. लक्ष्मीमदः कीदृशः भवति?

क. उपशमः

ख. अपरिणामः

ग. अपरिणामोपशमः

घ. सुखावहः

4. चन्द्रापीडं कः उपदिशति ?

क. शुकनासः

ख. शुकः

ग. तारापीडः

घ. बृहस्पतिः

5. कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ?

क. मलिने

ख. अपगतमले

ग. छलयुक्ते

घ. छलान्विते

6. कीदृशं भूषणं न क्षीयते ?

क. स्वर्णभूषणम्

ख. ताम्रभूषणम्

ग. रजतभूषणम्

घ. वाग्भूषणम्

7. पापात् कः निवारयति?

क. सन्मित्रम्

ख. कुमित्रम्

ग. राजपुरुषः

घ. महाबलि:

9. अपण्डितानां विभूषणं किम् ?

क. धनम्

ख. मौनम्

ग. स्वर्णम्

घ. शास्त्रम्

10. महाकाव्यस्य विभाजनं कस्मिन् भवति ?

क. सर्गेषु

ख. अङ्केषु

ग. काण्डेषु

घ. पर्वेषु

अधोदत्तं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

अस्ति यद्यपि सर्वत्र नीरं नीरज -राजितम् ।

रमते न मरालस्य मानसं मानसं विना ॥

11. सर्वत्र कीदृशं नीरम् अस्ति ?

उत्तर - सर्वत्र नीरज - राजितं नीरम् अस्ति ।

12. मरालस्य मानसं कं विना न रमते ?

उत्तर - मरालस्य मानसं मानसं विना न रमते ।

13. अधोलिखितपदानां विलोमपदं लिखत ।

(क) मूर्खः - बुद्धिमान्

(ख) अप्रियः - प्रियः

(ग) पुण्यात् - पापात्

14. श्लोकांशमेलनं कुरुत ।

क. दातव्यं भोक्तव्यं धनविषये     नीरं नीरज - राजितम् ।

ख. अस्ति यद्यपि सर्वत्र               उभे सुकृतदुष्कृते ।

ग. बुद्धियुक्तो जातीह                सञ्चयो न कर्तव्यः ।

उत्तर -

क.  दातव्यं भोक्तव्यं धनविषये- सञ्चयो न कर्तव्यः ।

ख. अस्ति यद्यपि सर्वत्र-  नीरं नीरज - राजितम् ।

ग. बुद्धियुक्तो जातीह - उभे सुकृतदुष्कृते ।

15. अधोलिखितग्रन्थानां लेखकानां नामानि लिखत (केवलं पञ्चानाम् )

क. महाभारतम् - महर्षिः वेदव्यासः

ख. शिवराजविजयम् - अम्बिकादत्तव्यासः

ग. रघुवंशम् - महाकविकालिदासः

घ. उत्तररामचरितम् - भवभूति:

ड. रामायणम् - महर्षिः वाल्मीकिः

च. हर्षचरितम् - बाणभट्ट:

16. पद्यकाव्यस्य अथवा महाकाव्यस्य वैशिष्ट्यं पञ्चवाक्येषु प्रतिपादयत ।

उत्तर -

पद्यकाव्यम्

1. छन्दयुक्तं काव्यं 'पद्यकाव्यं' इति कथ्यते।

2. पद्यकाव्यं गीतात्मकं भवति ।

3. अतः इदं गातुं शक्यते ।

4. पद्यकाव्यं श्रव्यकाव्यस्य एका विधा अस्ति ।

5. अस्मिन् काव्ये वर्णानां संख्या नियत भवति ।

6. पद्यकाव्यस्य आरम्भः वैदिककाले एव अभवत् ।

7. रामायणम्, महाभारतम्, मेघदूतम् इत्यादयः पद्यकाव्यानाम् उदाहरणानि सन्ति ।

महाकाव्यम्

1. सर्गबन्धः काव्यं 'महाकाव्यम्' इति कथ्यते ।

2. अस्य नायकः धीरोदात्तगुणान्वितः एकः सुरः अथवा क्षत्रियः भवति ।

3. महाकाव्ये खलादीनां निन्दा सतां च गुणकीर्तनं भवति ।

4. शृंगारवीरशान्तानाम् एकः अङ्गीरसः भवति ।

5. महाकाव्ये नाटकस्य सर्वे सन्धयः भवन्ति ।

6. अस्मिन् अष्टाधिकाः सर्गाः भवन्ति ।

7. सर्गान्ते भाविसर्गस्य कथायाः सूचनां भवति ।

8. रामायण, महाभारतं रघुवंशं कुमारसम्भवं इत्यादयः प्रसिद्धा: महाकाव्याः सन्ति ।

Click Here👇👇

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare