Class 12 Sanskrit Arts/ Science/Commerce Jac Board 2026 Answer key

Class 12 Sanskrit Arts/ Science/Commerce Jac Board 2026 Answer key

Class 12 Sanskrit Arts/ Science/Commerce Jac Board 2026 Answer key

झारखण्ड अधिविद्य परिषद्

ANNUAL INTERMEDIATE EXAMINATION - 2026

SANSKRIT (21.02.2026) Arts/Science/Commerce

General Instructions / सामान्य निर्देश

1. इस प्रश्न-पुस्तिका में दो भाग भाग-A तथा भाग-B

2. भाग-A में 30 अंक के बहुविकल्पीय प्रश्न तथा भाग-B में 50 अंक के विषयनिष्ठ प्रश्न हैं।

3. परीक्षार्थी को अलग से उपलब्ध कराई गई उत्तर-पुस्तिका में उत्तर देना है।

4. भाग-A - इसमें 30 बहुविकल्पीय प्रश्न हैं जिनके 4 विकल्प (A, B, C तथा D') हैं। परीक्षार्थी को उत्तर-पुस्तिका में सही उत्तर लिखनी है। सभी प्रश्न अनिवार्य हैं। प्रत्येक प्रश्न 1 अंक का है। गलत उत्तर के लिए कोई अंक काटा नहीं जाएगा।

5. भाग-B - इस भाग में तीन खण्ड-A, B तथा C हैं। इस भाग में अति लघु उत्तरीय, लघु उत्तरीय तथा दीर्घ उत्तरीय प्रकार के विषयनिष्ठ प्रश्न हैं। कुल प्रश्नों की संख्या 22 है।

खण्ड-A  - प्रश्न संख्या 31-38 अति लघु उत्तरीय हैं। किन्हीं 6 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न 2 अंक का है।

खण्ड-B - प्रश्न संख्या 39-46 लघु उत्तरीय हैं। किन्हीं 6 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न 3 अंक का है। प्रत्येक प्रश्न का उत्तर अधिकतम 150 शब्दों में दें।

खण्ड-C - प्रश्न संख्या 47-52 दीर्घ उत्तरीय हैं। किन्हीं 4 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न 5 अंक का है। प्रत्येक प्रश्न का उत्तर अधिकतम 250 शब्दों में दें।

6. परीक्षार्थी यथासंभव अपने शब्दों में ही उत्तर दें।

7. परीक्षार्थी परीक्षा भवन छोड़ने के पहले अपनी उत्तर पुस्तिका वीक्षक को अनिवार्य रूप से लौटा दें।

8. परीक्षा समाप्त होने के उपरांत परीक्षार्थी प्रश्न-पुस्तिका अपने साथ लेकर जा सकते हैं।

भाग-A (बहुविकल्पीय प्रश्न)

प्रश्न संख्या 1 से 30 तक बहुविकल्पीय प्रकार के हैं। प्रत्येक प्रश्न के चार विकल्प है। सही विकल्प चुनकर उत्तर पुस्तिका में लिखें। प्रत्येक प्रश्न 1 अंक का है।

प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।

सर्वे प्रश्नाः समाना‌ङ्काः ।

सर्वे प्रश्नाः अनिबार्याः ।

प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।

अपठितांश-अवबोधनम्

निर्देश : अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत

अनुच्छेदः

एकदा एकः सम्राट् रथे उपविश्य राजमार्गेण गच्छति स्म। किञ्चिदग्रे कश्चन संन्यासी रथस्य पुरतः आगतः । सम्राट् क्रोधेन अगर्जत् "अये कस्त्वम् ?" संन्यासी समाजः समक्ष स्थित्वा अवदत् - "अहमस्मि सम्राट् ।" कुद्धः राजा अवदत् "जीर्णवस्त्रधारी नग्नपादः कथं सम्राट् भवितुम् अर्हति ?" संन्यासी अवदत् "किं सुबर्णरथारूढः अह‌ङ्कारी सम्राट् भवितुम् अर्हति ? सम्राट् तु जितक्रोधः विनम्रः भवति ।" लज्जितः सम्राट् संन्यासिनः पादयोः अपतत् ।

प्रश्नाः

1. सम्राटः रथस्य अग्रे कः आगतः ?

(A) अश्वः

(B) अह‌ङ्कारी

(C) कुक्कुरः

(D) संन्यासी

2. संन्यासिनः पादयोः लज्जितः कः अपतत् ?

(A) द्वारपालः

(B) सम्राट्

(C) ब्राह्मणः

(D) संन्यासी

3. 'अगर्जत्' इति क्रियापदस्य कर्तृपदं किम् ?

(A) सम्राट्

(B) संन्यासी

(C) क्रोधेन

(D) कस्त्वम्

4. 'क्रुद्धः' इति पदस्य विशेष्यं किम् ?

(A) संन्यासी

(B) राजा

(C) अवदत्

(D) जीर्णवस्त्रधारी

5. 'पार्श्वम्' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

(A) उपविश्य

(B) एकदा

(C) पुरतः

(D) कश्चन

पठितावबोधनम्

निर्देश : अधोलिखितं गद्यांशं, पद्यं, नाट्यं च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत

गद्यांशः

भवादृशा एव भवन्ति भाजनान्युपदेशानाम् । अपगतमले हि मनसि विशन्ति सुखेनोपदेशगुणाः । हरति अतिमलिनमपि दोषजातं गुरुपदेशः गुरुपदेशश्च नाम अखिलमलप्रक्षालनक्षमम् अजलं स्नानम् । विशेषेण तु राज्ञाम्। विरला हि तेषामुपदेष्टारः । राजवचनमनुगच्छति जनो भयात् ।

6. गुरुपदेशः कीदृशं दोषजातं हरति ?

(A) अतिमलिनम्

(B) पितृदोषम्

(C) हत्यादोषम्

(D) पुनरुक्तिदोषम्

7. जनः केन भावेन राजवचनमनुगच्छति ?

(A) सद्भावेन

(B) दुर्भावेन

(C) तापेश

(D) भयेन / भयात्

8. 'दुःखेन' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

(A) अपगतमले

(B) सुखेन

(C) गुरुपदेशः

(D) राज्ञाम्

9. अजलं स्नानम् किम् ?

(A) ग‌ङ्गास्नानम्

(B) सङ्गमस्नानम्

(C) समुद्रस्नानम्

(D) गुरुपदेशः

10. 'गुरुपदेशश्च' अस्य सन्धिविच्छेदं किम् ?

(A) गुरु + उपदेशः + च

(B) गुरवे + उपदेशश्च

(C) गुरोपदेशः + च

(D) गुरौ + उपदेशः + च

पद्यम्

तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोषजातम् ।

उपातविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ।।

प्रश्नाः

11. कौत्सः कं प्रपेदे ?

(A) रघुम्

(B) शोणितम्

(C) वरतन्तुम्

(D) क्षितीशम्

12. कौत्सः कस्य शिष्यः आसीत् ?

(A) प्रपेदे

(B) वरतन्तोः

(C) रघोः

(D) तमध्वरे

13. 'यज्ञे' इत्यस्य किं पर्यायपदम् ?

(A) निःशेष

(B) प्रपेदे

(C) अध्वरे

(D) क्षितीशम्

14. 'शिष्यः' इत्यस्य विलोमपदं किम् ?

(A) गुरुः

(B) वरतन्तुः

(C) प्रपेदे

(D) उपातविद्यो

15. 'तमध्वरे' इत्यस्य विशेषणपदं किम् ?

(A) क्षितीशं

(B) निःशेष

(C) गुरुदक्षिणार्थी

(D) विश्वजिति

नाट्यांशः

"कौसल्या जात । अस्ति ते माता ? स्मरसि वा तातम् ?

लवः - नहि ।

कौसल्या - ततः कस्य त्वम् ?

लवः - भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।

कौसल्या - अयि जात । कथयितव्यं कथय ।

लवः - एतावदेव जानामि । (प्रविश्य सम्भ्रान्ताः )

बटवः - कुमार । कुमार । अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः ।"

16. 'वाल्मीकेः' अस्य किं विशेषणम् ?

(A) सुगृहीतनामधेयस्य

(B) कुमारः

(C) भूतविशेषो

(D) कोऽपि

17. अस्माभिः कः भूतविशेषः प्रत्यक्षीकृतः ?

(A) अजः

(B) चित्रकः

(C) व्याघ्रः

(D) अश्वः

18. भूतविशेषोऽश्व कुत्र अनुश्रूयते ?

(A) ग्रामेषु

(B) जनपदेषु

(C) वनेषु

(D) गृहेषु

19. 'युष्माभिः' अस्य विलोमपदं किम् ?

(A) भूतविशेषः

(B) अश्वः

(C) अस्माभिः

(D) तातम्

20. 'कथयितव्यं' पदे कः प्रत्ययः प्रयुक्तः ?

(A) क्त्वा

(B) क्त

(C) तव्यत्

(D) ल्यप्

निर्देशः रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।

21. योग कर्मसु कौशलम् ।

(A) कः

(B) कीदृशः

(C) केषु

(D) कुत्र

22. सर्वक्षत्रपरिभावी महान् उत्कर्षनिकषः ।

(A) कः

(B) कीदृशः

(C) केन

(D) कुत्र

23. पत्रस्य अर्थाधिकं भागं अश्रुधारा आर्द्राकरोति स्म ।

(A) कस्य

(B) कीदृशः

(C) केन

(D) कुत्र

24. समुद्रः ब्राह्मणाय चत्वारि रत्नानि ददौ ।

(A) कस्मै

(B) कीदृशः

(C) केन

(D) कुत्र

25. षोडशवर्षदेशीयः शिववीरः पत्रम् आदाय तोरणदुर्गं प्राविशत् ।

(A) कः

(B) कीदृशः

(C) केन

(D) कुत्र

निर्देशः निर्देशानुसारम् उत्तरं चिनुत -

26. 'कादम्बरी' कस्य रचना अस्ति ?

(A) भारवेः

(B) पतञ्जलेः

(C) बाणभट्टस्य

(D) कालिदासस्य

27. 'योगस्य वैशिष्ट्यम्' पाठः कस्मात् ग्रंथात् संकलितः ?

(A) नीतिशतकात्

(B) रामायणात्

(C) महाभारतात्

(D) योगसूत्रात्

28. 'सिंहासनद्वात्रिंशिका' इति ग्रंथात् कः पाठः उद्धृतः ?

(A) बालकौतुकम्

(B) विक्रमस्यौदार्यम्

(C) ईशावास्योपनिषद्

(D) कार्यं वा साधयेयं देहं वा पातयेयम्

29. कालिदासस्य ग्रन्थं चिनुत

(A) रघुवंशम्

(B) प्रबन्ध-मञ्जरी

(C) किरातार्जुनीयम्

(D) नीतिशतकम्

30. 'उत्तररामचरितम्' कस्य रचना ?

(A) भवभूतेः

(B) कालिदासस्य

(C) बाणभट्टस्य

(D) भारवेः

भाग-B (विषयनिष्ठ प्रश्न)

खण्ड - A (अति लघु उत्तरीय प्रश्न)

किन्हीं छः प्रश्नों के उत्तर दें। 2x6-12

(अपठितावबोधनम् )

निर्देश: अधोलिखितगद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत -

रामायणं हि वाल्मीकिना रचितम् । अयं ग्रन्थ राजनीतेः धर्मनीतेः च आदर्शरूपः अस्ति । 'रामायणम्' लौकिकसंस्कृतस्य आदिकाव्यं विद्यते, उक्तं च "आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम् । रामायणे सप्तकाण्डानि चतुर्विंशतिः सहस्रपरिमिताः श्लोकाः सन्ति । रामायणम् अस्माकं आदर्शभूतं राष्ट्रियमहाकाव्यं वर्तते । इदं हि महाकाव्यं सांस्कृतिक-सामाजिक-पारिवारिक धार्मिक व्यावहारिक चारित्रिक ऐतिहासिक रूपेण अतिमहत्त्वपूर्ण विद्यते । रामायणे करुणरसस्य प्रधानता विद्यते ।"

प्रश्नाः

31. पूर्णवाक्येन उत्तरत

(क) रामायणस्य रचयिता कः ?

उत्तरम्: रामायणस्य रचयिता महर्षिः वाल्मीकिः अस्ति।

(ख) रामायणं कीदृशं काव्यं विद्यते ?

उत्तरम्: रामायणं लौकिकसंस्कृतस्य आदिकाव्यम्, अस्माकं आदर्शभूतं राष्ट्रियमहाकाव्यं च विद्यते।

32. यथानिर्देशम् उत्तरत

(क) 'धार्मिकः' इत्यस्य विलोमपदं किम् ?

उत्तरम्: 'धार्मिकः' इत्यस्य विलोमपदम् अधार्मिकः अस्ति।

(ख) 'अस्ति' कर्तृपदं किम् ?

उत्तरम्: गद्यांशे "अयं ग्रन्थ राजनीतेः धर्मनीतेः च आदर्शरूपः अस्ति" इति वाक्ये 'अस्ति' क्रियापदस्य कर्तृपदम् 'ग्रन्थः' (अथवा 'अयं ग्रन्थः') अस्ति।

(ग) 'अस्माकं' पदे का विभक्तिः ?

उत्तरम्: 'अस्माकं' पदे षष्ठी विभक्तिः (बहुवचनम्) अस्ति।

(घ) 'ऐतिहासिक' पदे कः प्रत्ययः ?

उत्तरम्: 'ऐतिहासिक' पदे 'ठक्' (इक) प्रत्ययः अस्ति।

(पठितावबोधनम् )

निर्देश: अधोलिखितं गद्यांशं, पद्यं, नाट्यांशं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -

मासोऽयमाषाढः, अस्ति च सायं समयः, अस्तं जिगमिषुर्भगवान् भास्करः सिन्दूर द्रव-स्नातानामिव वरुण-दिगवलम्बिनामरुण-वारिवाहानामभ्यन्तरं प्रविष्टः । कलविङ्काश्चाटकैर रुतैः परिपूर्णषु नीडेषु प्रतिनिवर्तन्ते । वनानि प्रतिक्षणमधिकाधिकां श्यामतां कलयन्ति । अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत् ।

प्रश्ना :

33. पूर्णवाक्येन उत्तरत -

(क) कलविङ्काः कुत्र प्रतिनिवर्तन्ते ?

उत्तरम्: कलविङ्काः चाटकैः रुतैः परिपूर्णेषु नीडेषु प्रतिनिवर्तन्ते।

(ख) कानि प्रतिक्षणमधिकाधिका श्यामलतां कलयन्ति ?

उत्तरम्: वनानि प्रतिक्षणम् अधिकाधिकां श्यामतां (श्यामलतां) कलयन्ति।

34. यथानिर्देशम् उत्तरत -

(क) 'प्रतिनिवर्तन्ते' इति क्रियापदस्य कर्तृपदं किम् ?

उत्तरम्: अत्र 'प्रतिनिवर्तन्ते' इति क्रियापदस्य कर्तृपदं 'कलविङ्काः' अस्ति।

(ख) 'उदयम्' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

उत्तरम्: 'उदयम्' इति पदस्य विलोमपदम् 'अस्तम्' अत्र प्रयुक्तम् अस्ति।

(ग) 'अरण्यानि' इति पदस्य किं समानार्थकपदम् अत्र प्रयुक्तम् ?

उत्तरम्: 'अरण्यानि' इति पदस्य समानार्थकपदम् 'वनानि' अत्र प्रयुक्तम् अस्ति।

(घ) 'परिपूर्णेषु' इति पदस्य विशेष्यं किम् ?

उत्तरम्: 'परिपूर्णेषु' इति विशेषणपदस्य विशेष्यं 'नीडेषु' अस्ति।

नाट्यांश :

लव : ( सकौतुकोपरोधविनयम् ।) आर्याः । पश्यत । एभिर्नीतोऽस्मि । (इति) त्वरितं परिक्रामति । )

अरुन्धतीजनकौ : महत्कौतुकं वत्सस्य ।

कौसल्या : अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च । भगवति । जानामि तं पश्यन्ती वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत् पलायमानं दीर्घायुषम् ।

अरुन्धती : अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ? (प्रविश्य)

बटव : पश्यतु कुमारस्तावदाश्चर्यम् ।

लव : दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।

35. पूर्णवाक्येन उत्तरत

(क) अश्वः कीदृशः अस्ति ?

उत्तरम्: अश्वः आश्वमेधिकः अस्ति।

(ख) कः दूरमतिक्रान्त ?

उत्तरम्: सः चपलः (लवः) अतिजवेन दूरमतिक्रान्तः।

36. यथानिर्देशम् उत्तरत -

(क) 'तं पश्यन्ती वञ्चितेव' अत्र 'तम्' ति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तरम्: अत्र 'तम्' इति सर्वनामपदं लवाय (लव के लिए) प्रयुक्तम्।

(ख) 'दीर्घायुषम्' अस्य पदस्य विशेषणं किम् ?

उत्तरम्: अत्र 'दीर्घायुषम्' अस्य पदस्य विशेषणं 'पलायमानम्' इति अस्ति।

(ग) 'घोटकः' अस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?

उत्तरम्: 'घोटकः' अस्य पर्यायपदम् अत्र 'अश्वः' इति प्रयुक्तम्।

(घ) 'भूत्वा' पदे कः प्रत्ययः ?

उत्तरम्: 'भूत्वा' पदे क्त्वा प्रत्ययः अस्ति। (भू + क्त्वा = भूत्वा)

पद्यम् :

विद्यां चाविद्यां च यस्तद्देदोभयं स ह ।

अविद्यया मृत्युं तीर्वा विद्ययाऽमृतमश्नुते ।।

37. पूर्णवाक्येन उत्तरत -

(क) अविद्यया किं तरति ?

उत्तरम्: अविद्यया मृत्युं तरति।

(ख) विद्यया किम् अश्नुते ?

उत्तरम्: विद्यया अमृतम् अश्नुते।

38. यथानिर्देशम् उत्तरत -

(क) 'तीर्वा' पदे कः प्रत्ययः प्रयुक्तः ?

उत्तरम्: 'तीर्वा' (शुद्धरूपम् - तीर्त्वा) पदे क्त्वा प्रत्ययः प्रयुक्तः अस्ति। (तॄ + क्त्वा = तीर्त्वा)

(ख) 'अमरता' अस्य कः पर्यायपदम् अत्र प्रयुक्तम् ?

उत्तरम्: 'अमरता' इत्यस्य पर्यायपदम् अत्र 'अमृतम्' इति प्रयुक्तम् अस्ति।

खण्ड - B (लघु उत्तरीय प्रश्न)

किन्हीं छः प्रश्नों के उत्तर दें। 3 x 6 = 18

39. अधोलिखितश्लोकस्य अन्वयं पूर्ण कुरुत -

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्‌ङ्गोऽस्त्वकर्मणि ।।

अन्वयम् :

कर्मणि एव ............. ते फलेषु ............... मा, मा कर्मफलहेतुर्भूर्मा ते सङ्गः, ............... मा अस्तु ।

उत्तरम्: कर्मणि एव अधिकारः ते फलेषु कदाचन मा, मा कर्मफलहेतुर्भूर्मा ते सङ्गः, अकर्मणि मा अस्तु ।

40. शब्दार्थं लिखत -

(क) कलविङ्काः - चटकाः / पक्षिणः

(ख) मातरिश्वा - वायुः / पवनः

(ग) शौचम् - शुद्धिः / पवित्रता

41. कोष्ठकेषु प्रदत्तपदेषु उचितं विभक्तिं प्रयुज्य रित्तस्थानानि पूरयत -

(क) श्री ...... इन्द्राय...... नमः । (इन्द्र)

(ख) ....... वृक्षात्........ फलानि पतन्ति । (वृक्ष)

(ग) .... विद्यालयम्....... प्रति चल । (विद्यालय )

42. वाक्यनिर्माणं कुरुत

(क) पत्रम् — अहं मित्राय पत्रं लिखामि।

(ख) व्यवहारः — सः सर्वैः सह विनयेन व्यवहारं करोति।

(ग) यज्ञम् — ग्रामे सर्वे मिलित्वा यज्ञं कुर्वन्ति।

43. अशुद्धिशोधनं कुरुत -

(क) तस्य चतस्रः पुत्राः आसन् ।

उत्तरम्: तस्य चत्वारः पुत्राः आसन्।

(ख) सः कन्दुकेन क्रीडन्ति ।

उत्तरम्: सः कन्दुकेन क्रीडति।

(ग) सः श्वः विद्यालयं अगच्छत् ।

उत्तरम्: सः श्वः विद्यालयं गमिष्यति।

44. सन्धिविच्छेदं कुरुत

(क) स्वागतम् सु + आगतम्

(ख) कालांशः काल + अंशः

(ग) सन्निधिः सम् + निधिः

45. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) अश्वमेध इति नाम क्षत्रियाणाम महान् उत्कर्षनिकषः ।

उत्तरम्: अश्वमेध इति नाम केषाम् महान् उत्कर्षनिकषः अस्ति ?

(ख) शिववीरः दुर्गं प्राविशत् ।

उत्तरम्: शिववीरः कुत्र प्राविशत् ?

(ग) योगस्य अष्ट अ‌ङ्गानि भवन्ति ।

उत्तरम्: योगस्य कति अङ्गानि भवन्ति ?

46. सामासिकविग्रहं कुरुत

(क) अनार्या न आर्या इति = न + आर्या

(ख) अहर्निशम् अहः च निशा च = अहः + निशा

(ग) राजपुत्रः राज्ञः पुत्रः = राज्ञः + पुत्रः

खण्ड - C (दीर्घ उत्तरीय प्रश्न)

किन्हीं चार प्रश्नों के उत्तर दें। 5 x 4-20

47. मञ्जूषातः उचितसङ्केतान् गृहीत्वा अधोलिखितां कथां पूरयित्वा पुनः लिखत -

मिष्टान्नम् ,तस्मै ,चलितः ,अतोलयत् ,श्रुत्वा

"एकदा कश्चित् बालः ...... मिष्टान्नम्.....(i) ....... क्रेतुम् अगच्छत् । सः मिष्टान्नविक्रेता महावञ्चकः आसीत् । सः न्यूनमेव .......... अतोलयत्....... (ii) ................  तदा बालकेन कथितम् भो किमिति ? मह्यं पूर्णपरिमाणं न ददासि इति इति तत् ....... श्रुत्वा......(iii) .................. सः अवदत् का हानिः ? यावत् अल्पं ते ददामि तावत् ते भारः सुवहो भविष्यति । बालकोऽपि ........ तस्मै.....(iv)................... न्यूनं मूल्यम् अददात् । ततः स क्क्रुद्ध्वा अवदत् किं मे अल्पं भारं ददासि इति । बालकोऽवदत् यतः ते गणनायां परिश्रमः न भवेत् इति कथयित्वा सः .......... चलितः............. (v) " .................

48. विद्यालयशुल्कक्षमापनार्थं स्व प्राचार्यं प्रति एकम् आवेदन-पत्रम् लिखत ।

उत्तर :

सेवायाम

प्राचार्य महोदयः

रा० कृ० +2 उच्च विद्यालय, गोपीकांदर

विषय: विद्यालय शुल्कक्षमापनार्थम् एकम् आवेदनपत्रम् ।

महोदय,

सादर निवेदनम् अस्ति यत् अहं द्वादशकक्षायाः छात्रः अस्मि । मम पिता एक निर्धनः कृषकः अस्ति। परिवारे अष्ट सदस्याः सन्ति । सर्वेषां भरण-पोषणं मम पिता एव करोति, येन सः मम विद्यालय शुल्कं दातुम् असमर्थः अस्ति । अहं कक्षायां सदा प्रथमस्थान प्राप्नोमि ।

अतः कृपया मम विद्यालयशुल्कं क्षमा करोतु भवान्, अहं सदैव भवतः कृतज्ञः भविष्यामि।

भवतः कृपाभिलाषी

मोहितकुमारः

दिनाक 26/6/2023

वर्ग- द्वादशः

क्रमांक:- 01

रा० कृ० +2 उच्च विद्यालय, गोपीकांदर

49. नाट्यसाहित्यस्य अथवा गद्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत ।

उत्तर :

नाट्यसाहित्यम्

संस्कृतसाहित्ये तिस्रः विधा: प्रमुखाः सन्ति-गद्यसाहित्य: पद्यसाहित्यः नाट्यसाहित्य: च नाट्यसाहित्य दृश्यकाव्यः इत्यपि कथ्यते । अस्य त्रीणि तत्त्वानि सन्ति वस्तु कथावस्तु) नेता (अभिनेता इत्यादय) रसः नव रस) च नाटके पंच सन्धयः भवन्ति मुख, प्रतिमुख, गर्भ, विमर्श, निर्वहण, च। एतदनुसारेण पंच अर्थप्रकृतयः- बीज-बिन्दु- पताका-प्रकरी-कार्यम् च। संस्कृतनाटककारेषु प्रमुखाः सन्ति- भास:- कालिदासः-शूद्रकः-भवभूतिः इत्यादयः।

कालिदासस्यत्रीणि नाटकानि सन्ति- अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, विक्रमोर्वर्शीयम् च शूद्रकस्य मृच्छकटिकम्, भवभूतेः मालतीमाधवम्, उत्तररामचरितम्, भीसस्य प्रतिमानाटकम् इत्यादयः

नाट्यसाहित्यस्य प्राणाः सन्ति ।

नाटकं पंचमवेदः अपि कथ्यते।

गद्यकाव्यस्य प्रमुखाः विशेषताः -

1) छन्दोरहिता रचना गद्यं कथ्यते।

2) संस्कृतस्य गद्यसाहित्यम् अत्यन्तं प्राचीनं अस्ति।

3) संस्कृतगद्यसाहित्ये समासशैल्याः आधिक्यं भवति ।

4) ओजः संस्कृतगद्यस्य प्राणः ।

5) संस्कृतगद्यसाहित्यस्य कथानकानां मूलं लोककथा: सन्ति ।

6) गद्यस्य भेदद्वयं मन्यते - कथा आख्यायिका च।

7) कथायाः कथानकं काल्पनिकं भवति ।

8) आख्यायिकायाः कथानकं ऐतिहासिकं भवति।

9) गद्यस्य विषये प्रसिद्धं अस्ति यत्- गद्यं कवीनां निकषं वदन्ति।

10) प्रमुखगद्य काव्यानि सन्ति - सुबंधुः- वासवदत्ता, दण्डी- दशकुमारचरितम्, बाणभट्ट - कादंबरी हर्षचरितं च, अंबिकादत्तव्यासः - शिवराजविजयम्।

50. अधोलिखितानां ग्रंथानां लेखकानां नामानि लिखत (केषांचित् पंचानाम् ) :

(क) किरातार्जुनीयम् भारविः ।

(ख) महाभाष्यम् पतञ्जलिः ।

(ग) महाभारतम् वेदव्यासः।

(घ) पाषणीकन्या चन्द्रशेखरदास वर्मा।

(ङ) शिवराजविजयम् पं अम्विकादत्तव्यासः ।

(च) कादम्बरी वाणभट्ट ।

51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत

Class 12 Sanskrit Arts/ Science/Commerce Jac Board 2026 Answer key

मञ्जूषा - विज्ञान, विज्ञानप्रदर्शनी, प्रदर्शाः, छात्राः, प्रतियोगिता, प्रतिभाशाली, रुचिः उत्तराणि, प्रश्नानाम्, अनुसंधानम्, बालवैज्ञानिकाः, विद्यालये ।

उत्तर :

1. विद्यालये विज्ञानप्रदर्शनी आयोजिता अस्ति।

2. छात्राः विज्ञानप्रदर्शनीमध्ये स्वप्रदर्शाः दर्शयन्ति।

3. बालवैज्ञानिकाः अनुसंधानम् कृत्वा प्रतिभाशाली भवन्ति।

4. एषा प्रतियोगिता छात्राणां विज्ञानस्य प्रति रुचिं वर्धयति।

5. ते प्रश्नानाम् उत्तराणि उत्साहेन ददति।

52. मञ्जूषासहायतया अधोलिखितं भावार्थस्य रिक्तस्थानं पूर्ति कुरुत - 5

"यदि नो सन्ति सन्त्येव केयमद्य विभीषिका ।

किमुक्तैरेभिरधुना तां पताकां हरामि वः ।।"

भावार्थः

काम ते .... भटाः..........सन्ति ........ यदि वा....... अहं एतं न । कथनस्य अत्र आवश्यकता नास्ति, अहं एतं ........... ध्वजम्.............अधुनैव नीत्वा गच्छामि ।

मञ्जूषा

(भटाः, यदि वा, ध्वजम्, सन्ति, कथनस्य )।

Class XII Sanskrit





Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare