झारखण्ड अधिविद्य परिषद्
CLASS-XI EΧΑΜΙΝΑΤΙΟΝ, 2025
Art's (Paper - III)
SANSKRIT (MCQ Type)
खण्ड - क (अपठित अवबोधनम् )
निर्देश
: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तानां प्रश्नानां समुचितम् उत्तरं चिनुत ।
एकदा
एकः सम्म्राट् रथे उपविश्य राजमार्गेण गच्छति स्म । किञ्चिदग्रे कश्चन संन्यासी रथस्य
पुरतः आगतः । सम्राट् क्रोधेन अगर्जत् "अये कस्त्वम् ?" संन्यासी सम्राजः
समक्षं स्थित्वा अवदत् "अहमस्मि सम्राट् ।" कुद्धः राजा अवदत् "जीर्णवस्त्रधारी
नग्नपादः कथं सम्राट् भवितुम् अर्हति ?" संन्यासी अवदत् "किं सुवर्णरथारूढः
अहङ्कारी सम्राट् भवितुम् अर्हति ? सम्राट् तु जितक्रोधः विनम्रः भवति ।" लज्जितः
सम्राट् संन्यासिनः पादयोः अपतत् ।
1. सम्राटः रथस्य अग्रे कः आगतः ?
(A)
राजा
(B)
रानी
(C) संन्यासी
(D)
भिक्षुकः
2. संन्यासिनः पादयोः लज्जितः कः अपतत् ?
(A)
अश्वः
(B)
भिक्षुकः
(C)
द्वारपालः
(D) सम्राट्
3. 'अगर्जत्' इति क्रियापदस्य कर्तृपदं किम् ?
(A) सम्राट्
(B)
द्वारपालः
(C)
भिक्षुकः
(D)
संन्यासी
4. 'पश्चात्' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(A)
उपविश्य
(B)
अहङ्कारी
(C) अग्रे
(D)
जितक्रोधः
5. 'सम्मुखम्' इति अर्थे किं पदमत्र प्रयुक्तम् ?
(A)
अग्रे
(B) पुरतः
(C)
कश्चन
(D)
एकदा
खण्ड - ख (पठित अवबोधनम् )
निर्देश
: अधोलिखितं पद्यं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत
सङ्गच्छध्वं
सं वदध्वं सं वो मनांसि जानताम्। देवा भागं यथा पूर्वे सञ्जानाना उपासते ।
समानी
व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ।।
6. 'समानी व आकूतिः समाना हृदयानि वः ।' अत्र अस्माकम् आकृतिः कीदृशी
स्यात् ?
(A)
असमाना
(B)
भिन्ना-भिन्ना
(C) समानी
(D)
दुराचारी
7. 'सङ्गच्छध्वं' इति मन्त्रः कस्मात् वेदात् संकलितः ?
(A) ऋग्वेदात्
(B)
यजुर्वेदात्
(C)
सामवेदात्
(D)
अथर्ववेदात्
8. 'समानमस्तु' अस्य सन्धिविच्छेदं किम् ?
(A)
समा + नमस्तु
(B)
समा + मनस्तु
(C) समान + अस्तु
(D)
समानम् + अस्तु
9. 'आकूतिः' अस्य कः अर्थः ?
(A)
आकृतिः
(B)
सौन्दर्यम्
(C) संकल्पः
(D)
आखेटः
10. 'वः' अस्य पर्यायपदं किम् ?
(A) युष्माकम्
(B) अस्माकम्
(C)
सर्वेषाम्
(D)
केषाम्
निर्देश
: अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत ।
अथ
कदाचित् सत्त्वानां भाग्यवैकल्यात् प्रमादाच्च सम्यग् देवो न ववर्ष । वृष्टेः अभावे
तत् सरः कदम्बकुसुमगौरेण नवसलिलेन यथापूर्वं न परिपूर्णम् जातम् । क्रमेण च उपगते निदाघकाले
दिनकरकिरणैः अभितप्तया धरण्या, ज्वालानुगतेनेव मारुतेन पिपासावशादिव प्रत्यहम् आपीयमानं
तत् सरः लघुपल्वलमिवाभवत् । तत्रस्थिताः मीनाश्च जलाभावात् मृतप्रायाः इव सञ्जाताः
।
11. 'परोपकाराय सतां विभूतयः' पाठानुसारं इन्द्रः केषां राजा अस्ति
?
(A) देवानाम्
(B)
नदीनाम्
(C)
पक्षिणाम्
(D)
पुरुषाणाम्
12. कस्य अभावे तत् सरः कदम्बकुसुमगौरेण नवसलिलेन यथापूर्वं न परिपूर्णम्
जातम् ?
(A)
भाग्यस्य
(B) वृष्टे:
(C)
मत्स्यानाम्
(D)
मारुतस्य
13. 'मत्स्याः' इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(A)
प्रत्यहम्
(B) मीनाः
(C)
दिनकरः
(D)
आपीयमानम्
14. 'ववर्ष' अस्य कर्तृपदम् अत्र किं प्रयुक्तम् ?
(A) देवः
(B)
मीना
(C)
दिनकरः
(D)
किरणः
15. 'अभितप्तया धरण्या' अस्य विशेष्यपदम् अत्र किं प्रयुक्तम् ?
(A)
अभित्
(B)
तप्तया
(C)
धरण्या
(D) अभितप्तया
निर्देश: अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्नान्
उतरत ।
वसन्तसेना (बाहू प्रसार्य)- एहि
मे पुत्रक। आलिङ्ग । ( इत्यङ्के उपवेश्य )
अनुकृतमनेन पितुः रूपम् ।
रदनिका- न
केवलं रूपं, शीलमपि तर्कयामि । एतेन आर्यचारुदत्त आत्मानं विनोदयति ।
वसन्तसेना- अथ
किन्निमित्तमेष रोदिति ?
रदनिका- एतेन प्रातिवेशिकगृहपतिदारकस्य सुवर्णशकटिकया क्रीडितम्
। तेन च सा नीता । ततः पुनस्तां मार्गयतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो
भणति रदनिके ! किम्मम एतया मृत्तिकाशकटिकया ? तामेव सौवर्णशकटिकां देहि इति ।
वसन्तसेना - हा धिक् हा धिक् । अयमपि नाम परसम्पत्या सन्तप्यते
? भगवन् कृतान्त । पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । (इति
शास्त्रा) । जात । मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि ।
दारकः- रदनिके
। का एषा ?
रदनिका- आर्या
ते जननी भवति ।
16. दारकः रदनिकां किम् अयाचत ?
(A) मृत्तिकाशकटिकाम्
(B) सौवर्णशकटिकाम्
(C) रजतशकटिकाम्
(D) ताम्रशकटिकाम्
17. रदनिका दारकाय किं ददाति ?
(A) सौवर्णशकटिकाम्
(B)
रजतशकटिकाम्
(C) ताम्रशकटिकाम्
(D) मृत्तिकाशकटिकाम्
18. कस्य रूपं पितृसदृशः आसीत् ?
(A)
दारकस्य
(B)
रदनिकायाः
(C) वसन्तसेनायाः
(D)
चारुदत्तस्य
19. का बाहू प्रसार्य दारकं स्व अङ्के उपवेशयति ?
(A)
रदनिका
(B)
धूता
(C) वसन्तसेना
(D)
मदनिका
20. 'सौवर्णशकटिकाम्' अत्र विशेष्यपदं किम् ?
(A)
वर्ण
(B)
कटिकाम्
(C)
सौवर्ण
(D) शकटिकाम्
21. 'कमलपत्रम्' अस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(A) पुष्करपत्रम्
(B)
मृत्तिका
(C)
नीता
(D)
शकटिका
खण्ड - ग (व्याकरणकार्यम्)
22. 'श' वर्णस्य उच्चारणस्थानं चिनुत ।
(A)
दन्तः
(B)
ओष्ठः
(C) तालुः
(D)
दंतोष्ठः
23. दन्त्यः वर्णः कः ?
(A)
ख्
(B)
छ्
(C)
ठ्
(D) थ्
24. 'क्षत्रियः' अस्य वर्णविच्छेदं किम् ?
(A) क् + ष् + अ + त् + र् + इ + य् + अः
(B)
क+ ष +त्र+ इ + य् + अ
(C)
क्ष + त्र + इ + य् + अ
(D)
क्ष+ त्रि + य
25. क् + र् + अ + म् + अ = ?
(A)
कर्म
(B) क्रम
(C)
करम
(D)
क्रमा
26. 'फल' शब्दस्य तृतीया बहुवचनं किम् ?
(A)
फलेन
(B)
फलाभ्याम्
(C) फलैः
(D)
फलाय
27. 'कवये' पदे का विभक्तिः ?
(A)
तृतीया
(B)
चतुर्थी
(C)
पंचमी
(D) षष्ठी
28. ...........मिष्टान्नं रोचते । रिक्तस्थानाय उचितं पदं चिनुत ।
(A)
बालकाय
(B)
बालकात्
(C) बालकस्य
(D)
बालके
29. 'पठिष्यति' पदे कः लकारः ?
(A) लट्
(B)
लोट्
(C)
लृट्
(D)
लङ्
30. 'सेव्' धातोः लट् लकारे प्रथमपुरुषे बहुवचने किं भवति ?
(A)
सेवेते
(B)
सेवते
(C) सेवन्ते
(D)
सेवसे
31. दशरथस्य चत्वारः पुत्राः.......... Ι
(A)
आसीत्
(B) आसन्
(C)
अस्ति
(D)
आसम्
32. सदा+ एव = ?
(A)
सदेव
(B)
सदाएव
(C) सदैव
(D)
सत्यैव
33. 'उच्चारणम्' अस्य सन्धिविच्छेदं कुरुत ।
(A)
उत् + चारणम्
(B)
उच् + चारणम्
(C) उच्च + चारणम्
(D)
उच्चा + रणम्
34. पिता पुत्राय क्रुध्यति । अत्र रेखाङ्कित पदे का विभक्तिः
प्रयुक्ता ?
(A)
तृतीया
(B) चतुर्थी
(C)
पंचमी
(D)
षष्ठी
35. ...........उभयतः वृक्षाः सन्ति । रिक्तस्थानाय उचितं पदं चिनुत
।
(A) गृहस्य
(B)
गृहात्
(C)
गृहेण
(D)
गृहम्
खण्ड - घ (संस्कृतसाहित्यम्)
36. 'चातुर्विंशतिसहस्रसंहिता' अपि कथ्यते
-
(A) रामायणम्
(B)
महाभारतम्
(C) कठोपनिषद्
(D) पुराणम्
37. नाटकस्य कति तत्वानि भवन्ति ?
(A) त्रीणि
(B) चत्वारि
(C) पञ्च
(D)
षट्
38. कति पुराणानि सन्ति ?
(A) षोडश
(B)
सप्तदश
(C) अष्टादश
(D) नवदश
39 'मृच्छकटिकम्' कस्य रचना अस्ति ?
(A) कालिदासस्य
(B)
बाणभट्टस्य
(C) शूद्रकस्य
(D) भारवे:
40 वेदव्यासस्य रचनां अस्ति
(A) रामायणम
(B) महाभारतम्
(C) रघुवशम्
(D) किरातार्जुनीयम्
Class XI Sanskrit
Class 11 SANSKRIT ELECTIVE Jac Board SA-1 Exam 2024 Answer key
Class 11 Sanskrit Jac Board 2024 Answer key
Class 11 Sanskrit Jac Board 2023 Answer key
CLASS-XI Sanskrit Arts Answer Key (TERM I) 2022