Class 12 Sanskrit Elective Jac Model Paper Solution 2024-25

Class 12 Sanskrit Elective Jac Model Paper Solution 2024-25

Class 12 Hindi Core Jac Model Paper Solution 2024-25

झारखण्ड शैक्षणिक अनुसंधान एवं प्रशिक्षण परिषद, राँची, झारखण्ड

वार्षिक परीक्षा (Annual Examination)

2024-2025

मॉडल प्रश्न पत्र

Class-XII

Subject- Sanskrit Elective

Time- 3 Hour

Marks - 80

सामान्य-निर्देशाः-

• सर्वे प्रश्नाः अनिवार्याः ।

• सर्वे प्रश्नाः समानांकाः ।

• अस्मिन् प्रश्नपत्रे 30 वस्तुनिष्ठप्रश्नाः सन्ति ।

• प्रदततेषु विकल्पेषु समुचितम् उत्तरं विनुत ।

• अपठितावबोधनम्

अधोलिखित गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तरं विकल्पेषु चिनुत-

अनुच्छेदः

गीतायाः द्वादशे अध्याये भगवान् कृष्णः वदति "यः निन्दां स्तुतिं च समानतया स्वीकरोति, सः भक्तः मम प्रियः।" 'तुल्यनिन्दास्तुतिः' इति शब्दः सामान्य इव प्रतीयते परन्तु तदनुगुणम् आचरणं महत् कष्टसाधकम्‌। निन्दावचनानां श्रवणेन मानसिकः उद्वेगः जायते । स्तुतिशब्दानां श्रवणेन मनसः उल्लासः भवति। निन्दकाः, दोषदर्शयितारः च भगवता एव प्रेष्यन्ते। यः निन्दकस्य कथनं शान्तिपूर्वकं शृणोति विरोध न करोति अपितु आत्मनिरीक्षणं करोति, सः वर्धते। यदा स्तुतिः श्रूयते तदा 'अत्र गम किमपि वैशिष्ट्यं नास्ति' इति चिन्तनीयम्। एतत् सर्वं मम गुरुजनानां प्रसादः इति यः स्वीकरोति सः विनयी भवति । अतः तुल्यनिन्दास्तुतित्वम् अभ्यासेनैव सिध्यति । यः एवम् आचरति, सः जीवने निरन्तरम् उन्नतिन प्राप्नोति ।

प्रश्नाः

1. निन्दकाः केन एव प्रेष्यन्ते ?

क. पशुना

ख. भगवता

ग. मित्रेण

घ. मुनिना

2. गीतायाः कस्मिन् अध्याये प्रियभक्तस्य लक्षणं भगवता प्रोक्तम् ?

क.द्वादशे

ख. प्रथमे

ग. द्वितीये

घ. सप्तमे

3. 'जायते' इति क्रियापदस्य कर्तृपदं किम् ?

क. विनयी

ख. निन्दकाः

ग. मम

घ.उद्वेगः

4.' कृपा' इति अर्थ कि पदमत्र प्रयुक्तम् ?

क. निन्दा

ख. प्रसादः

ग.भक्तः

घ. निरन्तरम्

5. 'उद्वेगस्य' किं विलोमपदमत्र प्रयुक्तम् ?

क. उल्लासः

ख. वैशिष्ट्यम्

ग. विरोधम्

घ. स्तुतिः

निर्देशः - अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तरं विकल्पेषु चिनुत-

गद्यांशः

"तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि। एतेषां माहात्म्यम् एकं रत्नं यद्धस्तु स्मर्यते तद्ददाति द्वितीयरत्नेन भोजनादिकम् अमृततुल्यम् उत्पद्यते। तृतीयरत्नात् चतुर‌ङ्गबलं भवति । चतुर्थाद् रत्नादिदिव्याभरणानि जायन्ते । तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेति।"

प्रश्नाः

6. प्रथमेन रत्नेन किं स्मर्यते ?

क. भोजनादिकम्

ख. चतुर‌ङ्गबलं

ग. रत्नादिदिव्याभरणानि

घ. यद्धस्तु

7. अमृततुल्यं किमुत्पद्यते ?

क. रत्नादि

ख. चतुर‌ङ्गबलं

ग. भोजनादिकम्

घ. जीवनम्

8. (अहम्) राज्ञे किं दास्यामि ?

क. भोजनादिकम्

ख. चतुरङ्गबलं

ग. रत्नचतुष्टयम्

घ. रत्नादिदिव्याभरणानि

9. 'ददाति' अस्य कर्तृपदं किम् ?

क. चतुर‌ङ्गबलं

ख. रत्नम्

ग. भोजनादिकम्

घ. राजा

10. 'आदाय' अस्य कः पर्यायः अत्र प्रयुक्तः ?

क. गृहीत्वा

ख. स्मर्यते

ग. दास्यामि

घ. उत्पद्यते

निर्देशः - अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तरं विकल्पेषु चिनुत-

कौसल्या - जात! अस्ति ते माता ? स्मरसि वा तातम् ?

लवः - नहि।

कौसल्या - ततः कस्य त्वम् ?

लवः - भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।

कौसल्या - अयि जातः कथयितव्यं कथय ।

लवः - एतावदेव जानामि । (प्रविश्य सम्भ्रान्ताः)

बटवः कुमार ! कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।"

11. 'वाल्मीकेः' अस्य किं विशेषणम् ?

क. सुगृहीतनामधेयस्य

ख. कुमार

ग.जात

घ. कुमारी

12. अस्माभिः कः भूतविशेषः प्रत्यक्षीकृतः ?

क. अज:

ख. गजः

ग.अश्वः

घ. व्याघ्रः

13. 'अस्माभिः' इति सर्वनामपदं केभ्यः प्रयुक्तम् ?

क. अश्वेभ्यः

ख. पशुभ्यः

ग. वृक्षेभ्यः

घ. बटुभ्यः

14. 'इदानीम् अस्य कः पर्यायः अत्र प्रयुक्तः ?

क. अधुना

ख. भगवतः

ग.कोऽपि

घ. भूतविशेषो

15.' परोक्षीकृतः' अस्य विलोमपदं किम् ?

क. प्रविश्य

ख. प्रत्यक्षीकृतः

ग. एतावदेव

घ. कथयितव्यं

(व्याकरण -कार्यम्)

16. 'वक्तव्यम्' अस्य प्रत्ययं वियोज्य लिखत ।

(क) वक्तव्यत्

(ख) वद्+ तव्यत्

(ग) व + तव्यत्

(घ) वच् + तव्यत्

17. 'दर्शनीयम्' पदे कः प्रत्ययः ?

(क) णीयम्

(ख) करणी

(ग) अनीयर्

(घ) णिनि

18. 'नायकः' इत्यस्य सन्धिविच्छेदं विनुत ।

(क) ना+यक:

(ख) नाय+क

(ग) ने + अक:

(घ) नै+ अक:

19. 'अनुविष्णु' अस्य सामासिकविग्रहं चिनुत ।

(क) विष्णोः सह

(ख) विष्णोः विना

(ग) विष्णो पूर्वम्

(घ) विष्णोः पश्चात्

20. नीलं कमलं अस्य समस्तपदं लिखत ।

(क) नीलकमलम्

(ख) नीलाकमला

(ग) नीलकमलानि

(घ) नीले कमले

रेखांकितं पदमाधृत्य प्रश्ननिर्माणं कुरुत -

21. सहसा विदधीत न क्रियामा

क. केन

ख. काम्

ग. कम्

घ. कस्मिन्

22. बुद्धियुक्तो जहातीह सुकुत-दुष्कृते

क. केन

ख. काम्

ग. कम्

घ. कस्मिन्

23. धनेन सर्वमपि लभ्यते ।

क. कम्

ख. केन

ग. कस्मै

घ. कस्मात्

24. तस्याः दार्शनिकैः सप्तधा विभागः कृतः ।

क. केन

ख. कस्मिन्

ग. कै:

घ. कयोः

25. पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्द्राकरोति स्मा

. कस्प

ख. कीदृशः

ग. केन

घ. कुत्र

निर्देशः - निर्देशानुसारम् उत्तरं चिनुत -

26. 'बालकौतुकम्' इति पाठः कस्य रचना ?

क. कालिदासस्य ।

ख. भर्तृहरेः

ग. बाणभट्टस्य

घ. सुश्रुतस्य

सही उत्तर - भवभूतेः

27. अन्ताराष्ट्रिययोगदिवसः कदा समायोज्यते?

क. 19 जून

ख. 20 जून

ग. 21 जून

घ. 22 जून

28. रघुवंशात् कः पाठः संकलितः?

क. रघुकौत्ससंवादः

ख. बालकौतुकम्

ग. सूक्ति-सुधा

घ. दीनबंधुश्रीनायारः

29. 'बालकौतुकम्' इति पाठः कस्य रचना ?

क. कालिदासस्य ।

ख. भर्तृहरेः

ग. बाणभट्टस्य

घ. सुश्रुतस्य

सही उत्तर - भवभूतेः

30. 'पाषाणी कन्या' इति कस्य रचना ?

क. चन्द्रशेखरदासवर्मणः

. अम्बिकादत्तव्यासस्य

ग. कालिदासस्य ।

घ. बाणभट्टस्य

SUBJECTIVE TYPE

सामान्य निर्देशⅡ:-

1. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्तव्यानि ।

2. प्रश्नानां संख्याः 21 सन्ति ।

3. प्रश्नसंख्या 1 तः 8 पर्यन्तम् अतिलघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 2-2 अंकों निर्धारितौ स्तः । केचन षड् प्रश्नान् उत्तरत ।

4. प्रश्नसंख्या 9 तः 16पर्यन्तम् लघुत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 3-3 अंकाः निर्धारिताः। केचन षड् प्रश्नाः समाधेयाः ।

5. प्रश्नसंख्या 17 तः 22 पर्यन्तम् दीर्घोत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 5-5 अंकाः निर्धारिताः। केचन चतुरः प्रश्नान् उत्तरत ।

खण्ड-क

निर्देशः अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत- शिष्यः गुरुम् अपृच्छत्- "महोदय सुखसुविधयोः को भेदः ?" गुरुः अवदत् "अहम् एकदा एकस्य धनिनो गृहे अतिथिः अभवम्‌ तस्य आतिथ्यगृहं दृष्ट्वा मनसि अतिव्यथितः आसम्‌ तत्र सर्वतः बहुमूल्यानि उपकरणानि आसन्, भ्रमणेऽपि अवधानतायाः आवश्यकता अभवत्, कदाचित् किमपि उपकरणं त्रुटितं न स्यात्‌ आसीत् तत्र सर्वा सुखसामग्री परम् आनन्दस्य न अवर्तत कोऽपि उपभोक्ता । आतिथ्यस्थानं नासीद् उपवेष्टुं योग्यम्।" एवमुक्त्वा गुरुः शिष्यं समबोधयत्-" उपकरणैः प्राप्यते नैव सुखम्। तत् तु मनसः आनन्देन एव जायते ।"

प्रश्ना:-

पूर्णवाक्येन उत्तरत-

1. शिष्यः कयोः भेदम् अपृच्छत् ?

उत्तर - शिष्यः सुखसुविधयोः भेदम् अपृच्छत्।

2. गुरुः कस्य गृहे अतिथिः अभवत् ?

उत्तर - गुरुः एकस्यधनिनो गृहे अतिथिः अभवत् ।

3. सुखसामग्याः आनन्दस्य कः न आसीत् ?

उत्तर - तत्र सर्वा सुखसामग्री परम् आनन्दस्य न अवर्तत कोऽपि उपभोक्ता ।

4. निर्देशानुसारं उत्तरं लिखत -

(i) 'अभवम्' इति क्रियापदस्य किं कर्तृपदम् ?

उत्तर - अहम् ।

(ii) 'अनवधानता' अस्य विलोमपदं किम् ?

उत्तर - अवधानता।

(iii) 'दृष्ट्वा' पदे कः प्रत्ययः प्रयुक्तः?

उत्तर - क्त्त्वा।

(iv) 'बहुमूल्यानि उपकरणानि अत्र विशेषणपदं किम् ?

उत्तर - बहुमूल्यानि।

(पठितावबोधनम् )

अधोलिखितं गद्यांशं, पद्यं, च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत-

गद्यांशः

"तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि। एतेषां माहात्म्यम् एकं रत्नं यद्धस्तु स्मर्यते तद्ददाति । द्वितीयरत्नेन भोजनादिकम् अमृततुल्यम् उत्पद्यते। तृतीयस्त्नात् चतुर‌ङ्गबलं भवति। चतुर्थाद् रत्नादिदिव्याभरणानि जायन्ते। तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेति।"

प्रश्नाः

पूर्णवाक्येनोत्तरत-

5. प्रथमेन रत्नेन किं स्मर्यते ?

उत्तर - प्रथमेन रत्नेन यद्वस्तु स्मर्यते तद्ददाति ।

6. यथानिर्देशमुत्तरत-

(i) 'ददाति' अस्य कर्तृपदं किम् ?

उत्तर - रत्नम्

(ii) 'आदाय' अस्य कः पर्यायः अत्र प्रयुक्तः ?

उत्तर - गृहीत्वा ।

(iii) 'एतेषां माहात्म्यम्' अत्र 'एतेषाम्' इतिपदं केभ्यः प्रयुक्तम् ?

उत्तर - रत्नचतुष्टयम् ।

(iv) 'विषम्' अस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

उत्तर - अमृतम् ।

पद्यम्

"पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजखम्,

दीर्घग्रीवः स भवति, खुरास्तस्य चत्वार एवा

शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाममात्रान्,

किं व्याख्यानैव्रजति स पुनर्दुरमेयेहि यामः।"

प्रश्नाः

पूर्णवाक्येनोत्तरत-

7. दीर्घग्रीवः कः भवति ?

उत्तर - दीर्घग्रीवः अश्वः भवति।

8. यथानिर्देशमुत्तरत-

(i) 'सततम्' अस्य कः पर्यायः?

उत्तर - धूनोत्यजखम्

(ii) 'अग्रे' अस्य विलोमपदं किम्?

उत्तर - पश्चात्पुच्छं

(iii)' चत्वारः खुराः' अत्र विशेष्यपदं किम्?

उत्तर - खुराः।

(iv) 'दीर्घग्रीवः स भवति' अत्र 'सः' कस्मै प्रयुक्तम् ?

उत्तर - अश्वः।

खण्ड - ख

9. अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानपूर्ति कुरुत :

(अ) ईशावास्यमिदं सर्व यत्किंच जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद् धनम् ॥

अन्वयः

जगत्यां यत् किम् च (i) ---जगत्----- इदम् सर्वम् (ii) ----ईशावास्यम्----- तेन त्यक्तेन भुञ्जीथाः, कस्यस्वित् धनं मा (iii) ----गृधः-----|

10. वाक्यं शुद्धं कुरुत-

क. त्वं पत्रं लिखामि ।

उत्तर - त्वम् पत्रं लिखसि।

ख. मया गृहं गच्छति ।

उत्तर - मया गृहं गम्यते।

ग. पांडवाः पञ्च आसीत् ।

उत्तर - पांडवाः पञ्च आसन् ।

11. उचितरुपैः रिक्तस्थानं पूरयत-

क. --विद्यालयं--- पत्रं लिखन्ति। (छात्र)

ख. --कविषु-- कालिदासः श्रेष्ठः (कवि)

ग. छात्राः -----विद्यालयं--- गच्छन्ति। (विद्यालय)

12. प्रत्ययं संयोज्य लिखत-

क. नम् + क्त्वा ---नत्वा--

ख. दृश् + तव्यत् --द्रष्टव्यम्--

ग. कुमार + डीप् --कुमारी--

13. अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत -

(क) धनाय आदेश:- धनादेशः।

(ख) गुणानां लुब्धाः- गुणलुब्धाः ।

(ग) कर्मसु नैपुण्यम्ः- कर्मनैपुण्यम्।

14. शब्दार्थं लिखत

क. कलविङ्काः- --गौरैया पंक्षी

ख. शौचम्----शुद्धता

ग. जुगुप्सा --घृणा अथवा निन्दा

15. रेखाङ्कितपदस्य विभक्तिं तत् कारणञ्च लिखत -

क. सः कर्णेन बधिरः ।

उत्तर - तृतीया विभक्ति, येना‌ङ्ङ्गिङ्कारः सूत्रेण।

ख. पिता पुत्राय कुप्यति।

उत्तर - चतुर्थी विभक्ति, "कुध द्रुह ०" सूत्रेण।

ग. विद्यालयम् उभयतः वृक्षाः सन्ति।

उत्तर - द्वितीया विभक्ति, "उभयतः सर्वतः ०" योगे

16. संधिविच्छेदं कुरुत-

(क) कोऽपि = कः +....अपि

(ख) चाभिरुचिर्व्यसनं = च + ..अभिरुचिः.... + व्यसनम्

(ग) चन्द्रोज्ज्वलाः = ....चन्द्र + उज्ज्वलाः ...

खण्ड - 'ग'

17. श्लोकमेलनं कुरुत

''

''

कर्मण्येवाधिकारस्ते

यत्किञ्च जगत्यां जगत्

ददाति प्रतिगृह्णाति

मा फलेषु कदाचन

ईशावास्यमिदं सर्वं

गुह्यमाख्याति पृच्छति

अस्ति यद्यपि सर्वत्र

त्वं कर्म ज्यायो ह्यकर्मणः

नियतं कुरु कर्म

नीरं नीरजराजितम्।

 

उत्तर -

''

''

कर्मण्येवाधिकारस्ते

मा फलेषु कदाचन ।

ददाति प्रतिगृह्णाति

गुह्यमाख्याति पृच्छति ।

ईशावास्यमिदं सर्वं

यत्किञ्च जगत्यां जगत् ।

अस्ति यद्यपि सर्वत्र

नीरं नीरजराजितम्।

नियतं कुरु कर्म

त्वं कर्म ज्यायो ह्यकर्मणः ।

 

18. विद्यालयशुल्कक्षमापनार्थं स्वप्राचार्यं प्रति एकं पत्रं लिखत ।

उत्तर -

सेवायाम्

        श्रीमान् प्रधानाचार्य महोदयः

        उत्क्रमित उच्च विद्यालय, विरहुतः (बोधगया)

विषयः- विद्यालय शुल्काय याचना पत्रम्

महाशयः.

सविनयं निवेदनं अस्ति यत् मम पिता एकः निर्धनः किसानः अस्ति। तस्य मासिक आयः अति न्यूनः अस्ति । च मम परिवारे पञ्च सदस्याः सन्ति। येषां भरणपोषणं एव कष्टेन भवति। अस्मात् कारणात् विद्यालयस्य शुल्कं प्रदानं अति कठिनं अस्ति।

अतः श्रीमतः प्रार्थना अस्ति यत् मम विद्यालयस्य शुल्कादि क्षमा कुर्वन्तु।

भवतां शिष्यः / शिष्या

नामः - महेश कुमार रामः

वर्ग:- द्वादश

अनुक्रमांकः -2

19. नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत। चम्पूकाव्यस्य उदाहरणम् अपि लिखत

उत्तर -

नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत

संस्कृतनाटकानां प्रमुखाः विशेषता: -

1) नाटकस्य इतिवृत्तं इतिहासपुराणप्रसिद्धं स्यात् ।

2) नाटकानाम् आरम्भ: मंगलाचरणेन नान्द्या वा भवति ।

3) मुखादिपञ्चसन्धियुक्तं भवति।

4) नाटकं रूपकस्य दशभेदेषु विशिष्टं भवति ।

5) संस्कृतनाटकानि प्रायः सुखान्तानि भवन्ति।

6) नाटकानां प्रधानरस: श्रृंगार : वीरः वा भवति ।

7) संस्कृतनाटकेषु न्यूनतमाः पञ्च, अधिकाधिकाः च दश अंकाः भवन्ति ।

8) विदूषकस्य कल्पना संस्कृतनाटकानां मौलिकविशेषता अस्ति । अयं पात्रः हास्योत्पादकं पात्रं भवति ।

9) नाटकानां समाप्ति: भरतवाक्येन भवति । यत्र प्रधानपात्रं देशस्य समाजस्य च उन्नते: कामनां करोति ।

10) प्रमुखनाटकानि सन्ति- महाकविभास: स्वप्नवासवदत्तम्, दूतवाक्यम्, प्रतिमानाटकम्, उरुभंगम् च । शूद्रक:- मृच्छकटिकम् । कालिदासः - अभिज्ञानशाकुंतलम् । भवभूति - उत्तररामचरितम् । विशाखादत्त :- मुद्राराक्षस ।

चम्पूकाव्यस्य उदाहरणम् अपि लिखत।

1) गद्यपद्यमयी रचना चम्पूकाव्यं कथ्यते।

2) श्रृंगारवीरशान्तादिरसानां प्रयोगः चम्पूकाव्ये क्रियते ।

3) चम्पूकाव्ये सर्गाणां नामानि उच्छवासः उल्लासः इत्यादिपदैः क्रियन्ते

4) विविधानां कथावस्तूनां प्रयोगः चम्पूकाव्येषु दृश्यते।

5) चम्पूकाव्येषु सरलगद्यानां प्रयोगः क्रियते ।

20. अधोलिखितरचनानां लेखकानां नामानि लिखता (केवलं पञ्चानाम्)

क. रामायणम्- महर्षि वाल्मीकि।

ख. पाषाणी कन्या- चन्द्रशेखरदासवर्मा।

ग. महाभारतम्- महर्षि व्यासः।

घ. रघुवंशम्- कालिदासः।

ङ. उत्तररामचरितम्- भवभूति।

च. कादम्बरी- वाणभट्ट।

21. मंजूषासहायतया चित्रं दृष्ट्वा फञ्च वाक्यानि रचयत ।

Class 12 Sanskrit Elective Jac Model Paper Solution 2024-25

सायंकाले, वृक्षाः, हरिताः, गृहाणि, तृणानि, सूर्यः, आकाशः, वर्णः

उत्तर -

1. इदं सायंकालस्य चित्रम् अस्ति।

2. चित्रे वृक्षाः सन्ति।

3. चित्रे गृहाणि सन्ति ।

4. अस्मिन् चित्रे सूर्यः अस्ति।

5. चित्रे तृणानि सन्ति।

22. अघोलिखितभावार्थस्य रिक्तस्थानपूर्ति मञ्जूषापदसहायतया कृत्वा लिखता

(अ) "असूर्या नाम ते लोका अन्धेन तमसावृताः ।

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।।"

भावार्थः

संसारे स्वेच्छ्या मृत्योः ------ (ⅰ) --वरणम्----- महत्पापं भवति । ये जनाः (ii)----एतादृशाः--- भवन्ति ते मृत्योः -------(iii) ----अनन्तरम्------ यान् लोकान् प्राप्नुवन्ति तत्र----- (iv) --महान्--अन्धकारः भवति तत्र कीदृशम् अपि ------ (v) --सुखम्-- न भवति अतः आत्मवधो नैव कार्यः ।

मञ्जूषा-

वरणम्, अनन्तरम्, सुखम्, एतादृशाः महान्

Sanskrit









Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare