12th Sanskrit तृतीय पाठ- बालकौतुकम्

12th Sanskrit तृतीय पाठ- बालकौतुकम्

 12th Sanskrit तृतीय पाठ- बालकौतुकम्

प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

Class - 12

Sanskrit

तृतीय पाठ- बालकौतुकम्

अधोलिखितं नाट्यांशम् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-

जनक :- अये शिष्टानध्याय इत्यस्खलितं खेलतां बटूनां कोलाहल:

कौसल्या :- सुलभसौख्यमिदानीं बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङगै- दारकोऽस्माकं लोचने शीतलयति?

अरुन्धती - कुवलयस्निग्धश्यामः शिखण्डकमण्डनो

वटुपरिषदं पुण्यश्रीकः प्रियैव सभाजयन्

पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो

 झटिति कुरुते दृष्टः कोऽयंदृशोरमृताञ्जनम् ।।

(क) एकपदेन उत्तरत

(i) मुखललितैः अंगेः कं शीतलयति?

उत्तर- लोचनं।

(ii) बालत्वं कीदृशं भवन्ति?

उत्तर- सुलभसौख्यम् ।

(ख) पूर्णवाक्येन उत्तरत

(i) कयो: अमृताञ्जनं कुरुते ?

उत्तर - दृशो: अमृताञ्जनं कुरुते ।

(ii) कया वटुपरिषदं सभाजयन् अस्ति ?

उत्तर - श्रिया वटुपरिषद् सभाजयन् अस्ति ।

(ग) निर्देशानुसारम् उत्तरत-

(i) नेत्रयोः किं पर्यायपदम् अत्र प्रयुक्तम् ?

उत्तर- लोचने

(ii) मुग्धललितैः इति विशेषणस्य अत्र विशेष्यपदं किम् ?

(क) अङ्गैः

(ख) दारकः

(ग) लोचने

(घ) रामभद्रस्य

उत्तर- अङ्गैः

नाट्यांश:

लव:- (प्रविश्य स्वगतम्) अविज्ञातव्यः क्रमौचित्यात् पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य) अर्थ पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः ।

अरुन्धती जनकौः - कल्याणिन् ! आयुष्मान् भूयाः ।

कौशल्या : - जात! चिरं जीव ।

अरुन्धती: - एहि वत्स ! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः।

कौशल्याः - जात! इतोऽपि तावदेहि । (उत्सङ्गे गृहीत्वा) अहो न केवल मांसलोज्ज्वलेन देहवन्धेन, कलहंसघोषः

- घर्घरानुनादिना स्वरेण च रामभद्रमनुसरति जात! पश्यामि ते मुखपुण्डरीकम् । राजर्षे किं न पश्यसि निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव ।

(क) एकपदेन उत्तरत

(i) कौसल्या कस्य मुखं पुण्डरीकं पश्यति?

उत्तर- लवस्य

(ii) लवं कस्मिन् गृहीत्वा अरुन्धत्याः मनोरथः पूरितः ?

उत्तर- उत्सङ्गे

ख पूर्णवाक्येन उत्तरत-

(i) लवः रामभद्रं केन अनुसरति ?

उत्तर- लवः रामभद्रं देहबन्धेन स्वरेण च अनुसरति ।

(ग) निर्देशानुसारम् उत्तरत-

(i) घर्घरानुनादिना इति विशेषणस्य अत्र विशेष्य पदं किम् ?

(क) देहबन्धेन

(ख) मुखेन

(ग) स्वरेण

(घ) रामभद्रेण

उत्तर- (ग) स्वरेण

(ii) क्रोडे इति पदस्य अत्र कः पर्याय ?

(क) मध्ये

(ख) उत्सङ्गे

(ग) देहे

(घ) शरीरे

उत्तर- (ख) उत्सङ्गे

नाट्यांश:

बटव: - अये, श्रूयताम्

पाश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रम्

दीर्घग्रीवः स भवति खुरास्तस्य चत्वारः एव

शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान्

किं व्याख्यानैर्व्रजति स पुनर्दूरयेहियामः

(इत्यजिने हस्तयोश्चाकर्षन्ति )||

(क) एकपदेन उत्तरत

(i) पुच्छं कुत्र वहति

उत्तर- पश्चात् ।

(ii) अजस्रं किं धुनोति

उत्तर-पुच्छम् ।

(ख) पूर्णवाक्येन उत्तरत-

(i) अश्वस्य कति खुराः भवन्ति

उत्तर - अश्वस्य चत्वारः खुराः भवन्ति ?

(ii) अश्वः किं प्रकिरति ?

उत्तर- अश्वः आम्रमात्रान् शकृत्पिण्डकान् प्रकिरति ।

(ग) निर्देशानुसारम् उत्तरत

पुच्छम् इति विशेष्यपदस्य अत्र विशेषणं किम्?

उत्तर- विपुलम्

नाट्यांश:

कौशल्या -जात! अस्ति ते माता ? स्मरसि वा तातम् ?

लवः -नहि।

कौशल्या - ततः कस्य त्वम् ?

लव: -भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।

कौशल्या - अयि जात। कथयितव्यं कथय ।

लवः - तावदेव जानामि (प्रविश्य सम्भ्रान्ताः)

वटव: - कुमार! कुमार । अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।

लवः - अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते तद् ब्रूत - कीदृश: ?

(क) एकपदेन उत्तरत-

(i) अश्वः कस्मिन् समानाये पठ्यते ?

उत्तर- पशुसमाम्नाये।

(ii) बटवः स्वयं किं प्रत्यक्षीकृत: ?

उत्तर- अश्वः

(ख) पूर्णवाक्येन उत्तरत-

(i) लवः स्वपितुः नाम किमुक्तवान्?

उत्तर- भगवतः सुगृहीत नामधेयस्य वाल्मीकेः ।

(ii) स्मरसि वा तातम् ? इति का उक्तवती ?

उत्तर- स्मरसि वा तातम् इति कौशल्याउक्तवती ।

(ग) निर्देशानुसारम् उत्तरत-

(i)  'पुत्र' इत्यर्थे किं पदं नाट्यांशे प्रयुक्तम् ?

उत्तर- जात

संस्कृतेन उत्तरं दीयताम्

(क) उत्तररामचरितम् इति नाटकस्य रचयिता कः ?

उत्तर- उत्तररामचरितम् इति नाटकस्य रचयिता महाकविः भवभूतिः।

(ख) नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति ?

उत्तर- नेपथ्ये कोलाहलं श्रुत्वा जनकः कथयति यत् अद्य खलु शिष्टानध्याय इत्यस्खलितं खेलतां बटूनां कोलाहलः ।

(ग) लवः रामभद्रं कथं अनुसरति?

उत्तर- लवः मांसलोज्जवलेन देहबन्धेन कलहंसघोष घर्घरानुनादिना स्वरेण च रामभद्रं अनुसरति ।

(घ) बटवः अश्वं कथं वर्णयन्ति?

उत्तर- बटवः अश्वं वर्णयन्ति पश्चात्पुच्छं वहति तत् च अजस्रं धुनोति सः दीर्घग्रीवः अस्ति चत्वारः खुराः सन्ति शष्पाणि अत्ति शकृत् पिण्डकान् आम्रमात्रान् प्रकिरति ।

(ङ) लवः कथं जानाति यत् अयम् आश्वमेधिकः अश्वः ?

उत्तर- अश्वस्य रक्षकान् दृष्ट्वा लवः जानाति यत् अयम् आश्वमेधिकः अश्वः ।

(च) राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते?

उत्तर- शिशोः अपि दृष्टतां वाचं न सहन्ते ।

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत । '

(क) अश्वेमध' इति नाम क्षत्रियाणाम् महान् उत्कर्षनिकषः ।

(ख) हे बटवः! लोठैः अभिनन्तः उपनयत एनम् अश्वम् ।

(ग) रामभद्रस्य एष दारकः अस्माकं लोचने शीतलयति ।

(घ) उत्पथैः मम मनः पारिप्लवं धावति ।

(ङ) अतिजवेन दूरमतिक्रान्तः स चपलः दृश्यते ।

(च) विस्फारितशरासनाः आयुधीय श्रेणयः कुमारं तर्जयन्ति ।

(छ) निपुणं निरूप्यमाणः लवः मुखचन्द्रेण सीतया संवदत्येव ।

उत्तर-

(क) केषां

(ख) कै:

(ग) कः

(घ) कस्य

(ङ) कीदृशः

(च) कं

(छ) कया

अधः समस्तपदानां विग्रहाः दत्ताः । उदाहरणमनुसृत्य समस्तपदानि रचयत, समासनामापि च लिखत।

(क) विनयेन शिशिरः

(ख) अयस्कान्तस्य शकलः

(ग) दीर्घा ग्रीवा यस्य सः

(घ) मुखम् एव पुण्डरीकम्

(ङ) पुण्यः चासौ अनुभावः

(च) न स्खलितम्

उत्तर-

(क) विनयशिशिरः- तृ० तत्पुरुषः

(ख) अयस्कान्तशकलः - ष० त०पु०

(ग) दीर्घग्रीवः - बहुव्रीहिः

(घ) मुखपुण्डरीकम् - कर्मधारयः

(ङ) पुण्यानुभावः- कर्मधारयः

(च) अस्खलित - नञ् तत्पुरुषः

JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

विषयानुक्रमणिका

क्रम.

पाठ का नाम

प्रथमः पाठः

विद्ययाऽमृतमश्नुते

द्वितीयः पाठः

रधुकौत्ससंवादः

तृतीयः पाठः

बालकौतुकम्

चतुर्थः पाठः

कर्मगौरवम्

पंचमः पाठः

शुकनासोपदेशः

षष्ठः पाठः

सूक्तिसुधा

सप्तमः पाठः

विक्रमस्यौदार्यम्

अष्टमः पाठः

भू-विभागाः

नवमः पाठः

कार्यं वा साधयेयं देहं वा पातयेयम्

दशमः पाठः

दीनबन्धुः श्रीनायारः

एकादशः पाठः

उद्भिज्ज -परिषद्

द्वादशः पाठः

किन्तोः कुटिलता

त्रयोदशः पाठः

योगस्य वैशिष्टयम्

चतुर्दशः पाठः

कथं शब्दानुशासनं कर्तव्यम्

JAC वार्षिक माध्यमिक परीक्षा, 2023 प्रश्नोत्तर

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare