प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
Class - 12
Sanskrit
नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम्
1. एकपदेन उत्तरत
(क) नीडेषु के प्रतिनिवर्तन्ते?
उत्तर
- कलविङ्काः।
(ख) भास्करः इति पदस्य समानार्थकपदं लिखत-
उत्तर
- सूर्य: ।
(ग) शिवराजविजयस्य रचयिता कः अस्ति?
उत्तर
- बाणभट्टः।
(घ) वनात् पदे का विभक्ति: ?
उत्तर
- पंचमी ।
(ङ) अस्ति च सायं समयः अस्तं जिगमिषुर्भगवान् भास्करः । अत्र अव्ययपदं
चिनुत ।
उत्तर
- च ।
(च) शिववीरस्य विश्वासपात्रं सिंहदुर्गात् किं आदाय तोरणदुर्ग प्रयाति?
उत्तर
- पत्रम् ।
(छ) कुत्र अंधकारः अभवत् ?
उत्तर
- वने ।
(ज) भवतः पाठ्यपुस्तके शिवराजविजयम् इति ग्रंथात् कः पाठः संकलितः
?
उत्तर
- कार्यं वा साधयेयम् देहं वा पातयेयम् ।
(झ) कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म ?
उत्तर
- षोडशवर्षीयः ।
(ञ) मेघमाला कथं शोभते?
उत्तर
- पर्वतश्रेणीव
2. पूर्णवाक्येन उत्तरत-
(क) सायं समये भगवान् भास्करः कुत्र : भवति?
उत्तर
- सायं समये भगवान् भास्करः अस्तं जिगमिषुः भवति ।
(ख) अस्ताचलगमनकाले भास्करस्य वर्णः कीदृशः भवति?
उत्तर
- अस्ताचलगमनकाले भास्करस्य वर्णः सिन्दूर- द्रव नातानामिव प्रतीयते/ भवति।
(ग) नीडेषु के प्रतिनिवर्तन्ते ?
उत्तर
- नीडेषु कलविङ्काः / चटकाः प्रतिनिवर्तन्ते ।
(घ) शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म?
उत्तर
- शिववीरस्य विश्वासपात्रं तोरणदुर्गं प्रयाति स्म ।
(ङ) प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयन्ति?
उत्तर
- प्रतिक्षणमधिकाधिकां श्यामतां वनानि कलयन्ति
(च) शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत् ?
उत्तर
- शिववीरविश्वासपात्रस्य उष्णीषं राजतसूत्र- शिल्पकृत-बहुल- चाकचिक्य वक्र-हरितम् आसीत्
।
(छ) मेघमाला कथं शोभते?
उत्तर
- मेघमाला पर्वतश्रेणीव शोभते ।
(ज) कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म ?
उत्तर
- षोडशवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म ।
3. रिक्तस्थानानि पूरयत-
(क)
अथाकस्मात् परितो मेघमाला ------प्रादुरभूत् ।
उत्तर
- अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्
।
(ख)
क्षणे क्षणे ----- खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति ।
उत्तर
– क्षणे क्षणे हस्य खुराश्चिक्कणपाषाणखण्डषु प्रस्खलन्ति।
(ग)
पदे पदे ------वृक्षशाखाः सम्मुखमानन्ति ।
उत्तर
- पदे पदे दोधूयमानाः वृक्षशाखाः सम्मुखमाध्नन्ति
।
(घ)
कृतप्रतिज्ञोऽसौ------- निजकार्यात्र विरमति ।
उत्तर
- कृतप्रतिज्ञोऽसौ शिववीरो निजकार्यात्र विरमति
।
4. अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देश कुरुत
तस्यैव
=
तस्य + एव (वृद्धिसन्धि)
शिखराच्छिकराणि =
शिखरात्+शिखराणि (व्यञ्जनसन्धि)
कोऽपि
= क + अपि (पूर्वरूप सन्धि:- विसर्गसन्धिः)
प्रादुर्भूत्
=
प्रादुः+अभूत् (विसर्गसन्धिः)
अथाकस्मात्
=
अथ+अकस्मात् (दीर्घस्वरसन्धिः)
कार्यात्र=
कार्यात् + न (व्यञ्जनसन्धिः)
5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत-
प्रयुक्त: -
प्र+युज् + क्त
उत्थित: -
उत् + स्था+क्त
उत्प्लुत्य
- उत् + प्लु+ ल्यप्
उपत्यकात: -
उपत्यका + तसिल्
ग्रस्यमानः -
ग्रस्+ शानच्
6. विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।
मेघमाला
-
मेघानां माला (षष्ठी तत्पुरुषः)
महान्धकार: -
महान् च असौ अन्धकार: (कर्मधारयः)
पर्वतश्रेणी: -
पर्वतानाम् श्रेणी (षष्ठी तत्पुरुषः)
महोत्साह: -
महान् च असौ उत्साह (कर्मधारयः)
विश्वासपात्रम् -
विश्वासस्य पात्रम् (षष्ठी तत्पुरुषः)
हरितोष्णीषशोभितः -
हरितं यत् उष्णीष तेन शोभितः (बहुव्रीहि)
7. अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः समीचीनोत्तरं चिनुत-
गद्यांश-1
मासोऽयमाषाढ,
अस्ति च सायं समयः, अस्तं जिगमिषुर्भगवान् भास्करः सिन्दूर-द्रव नातानामिव वरुण-दिगवलम्बिनामरुण-
वारिवाहानामभ्यन्तरं प्रविष्टः । कलविङ्काश्चाटकैर-रुतैः परिपूर्णेषु नीडेषु प्रतिनिवर्तन्ते
। वनानि प्रतिक्षणमधिकाधिका श्यामतां कलयन्ति । अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव
प्रादुर्भूत्, पारस्परिक संश्लेष विहित महान्धकारा च समस्तं गगनतले पर्यच्छदीत्।
क. शिवराजविजयस्य रचयिता कः अस्ति?
(i)
बाणभट्टः
(ii)
श्रीहर्षः
(iii)
अम्बिकादत्तव्यासः
(iv)
माघः
ख. अकस्मात् पर्वतश्रेणीव का प्रादुर्भूत् ?
(i)
मेघमाला
(ii)
सिन्दूर
(iii)
कलविङ्काः
(iv)
भास्कर:
ग. कः वारिवाहानामभ्यन्तरं प्रविष्टः ?
(i)
कलविका
(ii)
रचयिता
(iii)
भास्करः
(iv)
अम्बिकादत्तव्यास:
घ. 'कलयन्ति इति क्रियापदस्य कर्ता क
(i)
कलविङ्काः
(ii)
वनानि
(iii)
भास्करः
(iv)
मेघमाला
ङ. 'सूर्य' इति स्थाने किं पदमत्र प्रयुक्तम्?
(i)
मेघमाला
(ii)
वनानि
(iii)
जिगमिषुर्भगवान् भास्करः
(iv)
गगनतलम्
उत्तराणि
(क)
(iii) अम्बिकादत्तव्यासः
(ख)
(i) मेघमाला
(ग)
(iii) भास्करः
(घ)
(i) कलविङ्काः
(ङ)
(iii) जिगमिषुर्भगवान् भास्करः
गद्यांशम्-2
अस्मिन्
समये एकः षोडशवर्ष-देशीयो- गौरो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म । एष सुघटितदृढशरीरः
श्याम- श्यामैर्गुच्छ - गुच्छैः कुञ्चित् कुञ्चितैः कंच -कलापै: कमनीय- कपोलपालिः दुरागमनायासंवर्शन
सूक्ष्म-मौक्तिक- पटलेनेव स्वेदबिन्दु - व्रजेश समाच्छादित - ललाट-कपोल - नासाग्रोत्तरोष्ठः
प्रसन्न वदनाम्भोज प्रदर्शित दृढसिद्धांत- महोत्साह, राजतसूत्र- शिल्पकृत बहुल चाकचिंक्य
वक्र- हरितोष्णीष - शोभितः, हरितेनैव च कञ्चकेन- व्यूहगूढचरता कार्यः कोऽपि शिववीरस्य
विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्गं प्रयाति ।
प्रश्नाः
च. युवा केन पर्वतश्रेणीरुपर्युपरि गच्छति स्म।
(i)
गजेन
(ii)
हयेन
(iii)
हंसेन
(iv)
रथेन
छ. कस्य विश्वासपात्रं सिंहदुर्गात् तोरणदुर्गं प्रति प्रयाति ।
(i)
षोडशवर्षस्य
(ii)
सूर्यस्य
(iii)
मेघमालाया:
(iv)
शिववीरस्य
ज. शिववीरस्य विश्वासपात्रं सिंहदुर्गात् किं आदाय तोरणदुर्गं प्रयाति?
(i)
पत्रम्
(ii)
स्वर्णम्
(iii)
रुप्यकाणि
(iv)
मञ्जूषा
झ. 'केशसमूहै' इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(i)
हय:
(ii)
पत्रम्
(iii)
कचकलापै:
(iv)
वीर:
ञ. 'स्थूल' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(i)
पत्रम्
(ii)
सूक्ष्म
(iii)
वीर:
(iv)
मेघमाला
उत्तराणि
(च)
(ii) हन
(छ)
(iv) शिववीरस्य
(ज)
(i) पत्रम्
(झ)
(iii) कचकलापैः
(ञ) (ii) सूक्ष्म
JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
विषयानुक्रमणिका
क्रम. | पाठ का नाम |
प्रथमः पाठः | |
द्वितीयः पाठः | |
तृतीयः पाठः | |
चतुर्थः पाठः | |
पंचमः पाठः | |
षष्ठः पाठः | |
सप्तमः पाठः | |
अष्टमः पाठः | |
नवमः पाठः | |
दशमः पाठः | |
एकादशः पाठः | |
द्वादशः पाठः | |
त्रयोदशः पाठः | |
चतुर्दशः पाठः | |