प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
Class - 12
Sanskrit
षष्ठः पाठः सूक्तिसुधा
अद्योदतं पद्यांशं पठित्वा एतदाधारित प्रश्नानामुतराणि यथानिर्देशं लिखत-
(अ)
मनसि वचसि काये पुण्यपीयूषपूर्णा-
स्त्रिभुवनमुपकारश्रेणिभिः
प्रीणयन्तः ।
परगुणपरमाणून्
पर्वती कृत्य नित्यं,
निजहृदि
विकसन्तः सन्ति सन्तः कियन्तः ।।
1
एकपदेन उत्तरत -
(i) सन्तः मनसि वचसि काये च कीदृशाः भवन्ति ?
उत्तर-
पुण्यपीयूषपूर्णाः
(ii) सन्तः किम् उपकारश्रेणिभिः प्रीणयन्ति ?
उत्तर
- त्रिभुवनम्
2
पूर्णवाक्येन उत्तरत
(i) सन्तः परगुणपरमाणून कथं निजहृदि विकसन्ति ?
उत्तर
- सन्तः परगुणपरमाणून् अपि पर्वतीकृत्य नित्यं निजहृदि विकसन्ति ।
3
प्रदत्तविकल्पेभ्यः उत्तरं चित्वा लिखत-
(i) प्रीणयन्तः इति विशेषणस्य विशेष्यपदं किम् ?
(अ)
कियन्तः
(ब)
सन्तः
(स)
परगुणं
(द)
नित्यम्
उत्तर
(ब) सन्तः
(ii) 'सन्ति' इति क्रियापदस्य श्लोके कर्तृपदं किम् ?
(अ)
विकसन्त
(ब)
प्रीणयन्तः
(स)
पूर्णाः
(द)
सन्तः
उत्तर-
(द) सन्तः
(iii) निजहृदि........ ।' इत्यस्मिन् वाक्ये सर्वनामपदं किम् ?
(अ)
कियन्तः
(ब)
सन्तः
(स)
विकसन्तः
(द)
सन्ति
उत्तर
( अ ) कियन्तः
(iv) 'अमृतम्' इत्यर्थे अत्र कः पर्यायः ?
(अ)
कायः
(ब)
पुण्यः
(स)
पीयूषः
(द)
परमाणुः
उत्तर-
(स) पीयूषः
(आ)
सहसाविदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते
हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।। 6 ।।
(क)
एकपदेन उत्तरत
(i) सहसा का न करणीया ?
उत्तर-
क्रिया
(ii) परमापदां पदं किम् ?
उत्तर-
अविवेकः
(ख)
पूर्णवाक्येन उत्तरत-
(i) गुणलुब्धाः सम्पदः कं स्वयमेव वृणुते ?
उत्तर
-गुणलुब्धाः सम्पदः विमृश्यकारिणं स्वयमेव वृणुते ।
(ग)
प्रदत्तविकल्पेभ्यः उत्तरं चित्वा लिखत
(i) 'सम्पदः' इति विशेष्यपदस्य श्लोके विशेषणपदं किम् ?
(अ)
विमृश्यकारिणं
(ब)
गुणलुब्धाः
(स)
परमा
(द)
सहसा
उत्तर-
(ब) गुणलुब्धाः
(ii) 'वृणुते' इति क्रियापदस्य अत्र कर्तृपदं किम् ?
(अ)
सम्पदः
(ब)
अविवेकः
(स)
अपदाम्
(द)
क्रिया
उत्तर-
(अ) अविवेकः
(iii) 'विवेकः इति पदस्य विलोमपदं किम् ?
(अ)
सहसा
(ब)
विमृश्य
(स)
अविवेकः
(द)
परमम्
उत्तर
(स) अविवेकः
(iv) 'कर्तव्यम्' इत्यर्थे श्लोके कः पर्यायः ?
(अ)
कारिणम
(ब)
विद्धीत्
(स)
वृणते
(द)
पदम
उत्तर-
(ब) विद्धीत्
(इ)
नीरक्षीर विवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन्नधुनान्यः
कुलव्रतं पालयिष्यति कः ।।2।।
प्रश्नाः
(क)
एकपदेन उत्तरत-
(i) नीरक्षीर विवेके कः चतुरः भवति ?
उत्तर-
हंसः
(ii) हंसः कस्मिन् आलस्यं करोति ?
उत्तर-
नीरक्षीरविवेके
(ख)
पूर्णवाक्येन उत्तरत -
(i) हंसस्य कुलव्रतं किमस्ति ?
उत्तर-
नीरक्षीरविवेकें हंसस्य कुलव्रतमस्ति ।
(ग)
प्रदत्तविकल्पेभ्यः उत्तरं चित्वा लिखत-
(i) 'नीरक्षीर' इति विशेषणस्य विशेष्यपदं किम् ?
(अ)
हंसः
(ब)
आलस्य
(स)
विवेके
(द)
चेत्
उत्तर
(स) विवेके
(ii) 'तनुषे' इति क्रियायाः कर्तृपदं किमस्ति ?
(अ)
चेत
(ब)
त्वम्
(स)
नीर
(द)
आलस्य
उत्तर-
(ब) त्वम्
(iii) अस्मिन् श्लोके 'त्वम्' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(अ)
नीराय
(ब)
क्षीराय
(स)
अन्यजनाय
(द)
हंसाय
उत्तर
(द) हंसाय
(iv) 'दुग्धम्' इत्यर्थे अत्र कः पर्यायः ?
(अ)
क्षीरम्
(ब)
नीरम्
(द)
विवेक
(स)
पयः
उत्तर-
(अ) क्षीरम्
संस्कृतभाषया प्रश्नोत्तराणि लिखत-
(क) सर्वत्र कीदृशं नीरम् अस्ति ?
उत्तर
- नीरजराजितम्
(ख) मरालस्य मानसं कं विना न रमते ?
उत्तर-
मानसरोवरं
(ग) विद्वान् कम् अपेक्षते ?
उत्तर-
भाग्यपौरुषञ्च
(घ) सहसा किं न विदधीत ?
उत्तर-
क्रियाम्
(ड.) अपण्डितानां विभूषणं किम् ?
उत्तर
- मौनम्
(च) पापात् कः निवारयति ?
उत्तर-
सन्मित्रम्
(छ) सन्तः कान् पर्वतीकुर्वन्ति ?
उत्तर-
परगुणपरमाणून
(ज) कीदृशं भूषणं न क्षीयते ?
उत्तर-
वाग्भूषणम्
निम्नलिखितपदानां पाठात् विलोमपदं चित्वा लिखत
(क)
मूर्खः -
(ख)
अप्रियः -
(ग)
पुण्यात् -
(घ)
यौवनम् -
(ङ)
उपेक्षते -
उत्तर-
(क)
विद्वान्
(ख)
प्रियः
(ग)
पापात्
(घ)
जरा
(ङ)
अपेक्षते
अधोलिखितशब्दानां पाठात् पर्यायपदं चित्वा लिखत
(क)
मरालस्य
(ख)
अधुना
(ग)
नीरजं
(घ)
रसाल:
(ड.)
अवलम्बते
उत्तर-
(क)
हंसस्य
(ख)
साम्प्रतम्
(ग)
कमलम्
(घ)
आग्रम्
(ड.)
आश्रयते
सन्धिविच्छेदं क्रियताम्
(क)
नालम्बते -
(ख)
चन्द्रोज्ज्वलाः -
(ग)
पापान्निवारयति -
(घ)
तावदेव -
(ड.)
संस्कृता -
उत्तर-
(क)
न + आलम्बते
(ख)
चन्द्र + उज्ज्वलाः
(ग)
पापात् + निवारयति
(घ)
तावत् + एव
(ङ)
सम् + कृता
अधोलिखितशब्दानां समासविग्रहः च समस्तपदानि रचयत ।
(क)
कुलस्य व्रतं -
(ख)
वाग्भूषणम् -
(ग)
गुणानां लुब्धाः -
(घ)
चन्द्रोज्ज्वलाः -
(ड.)
अप्रतिहता -
उत्तर
(क)
कुलव्रतम्
(ख)
वाक् एव भूषणम्
(ग)
गुणलुब्धाः
(घ)
चन्द्र इव उज्ज्वलाः
(ड.)
न प्रतिहता
अधोलिखितशब्देषु प्रकृतिप्रत्ययानां विभागः करणीय
(क)
दैष्टिकतां
(ख)
कुर्वाणः
(ग)
पटुता
(घ)
सिद्धम्
(ड.)
विमृश्य
उत्तर-
(क)
दैष्टिक + तल्
(ख)
कृ + शानच्
(ग)
पटु + तल्
(घ)
सिद्ध + क्त
(ड.)
वि + मृश् + ल्यप्
प्रश्ना:
एकपदेन उत्तरत-
क. सन्तः कान् पर्वतीकुर्वन्ति ?
उत्तरम
- परगुणपरमाणून् ।
ख. सन्तः उपकारं श्रेणिभिः कं प्रीणयन्ति ?
उत्तरम
- त्रिभुवनम्
पूर्णवाक्येन उत्तरत-
क. सज्जनानां मनः वचः कायश्च केन पूर्णः भवति ?
उत्तरम-
सज्जनानां मनः वचः कायश्च पुण्यपीयूषेण पूर्णः भवति ।
ख. सज्जनाः परोपकारान् कुत्र विकसन्ति?
उत्तर - सज्जनाः परोपकारान् निजहृदि विकसन्ति ।
JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
विषयानुक्रमणिका
क्रम. | पाठ का नाम |
प्रथमः पाठः | |
द्वितीयः पाठः | |
तृतीयः पाठः | |
चतुर्थः पाठः | |
पंचमः पाठः | |
षष्ठः पाठः | |
सप्तमः पाठः | |
अष्टमः पाठः | |
नवमः पाठः | |
दशमः पाठः | |
एकादशः पाठः | |
द्वादशः पाठः | |
त्रयोदशः पाठः | |
चतुर्दशः पाठः | |