12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः

12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः

 12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः

प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

Class - 12

Sanskrit

दशमः पाठः दीनबन्धुः श्रीनायारः

बहुविकल्पीयाः प्रश्नाः

(1) 'दीनबन्धुः श्रीनायारः' इति कथा कस्मात् कथा संग्रहात् संकलिता।

(क) पाषाणीकन्यायाः

(ख) कादम्बर्यायाः

(ग) समुद्रसंगमात्

(घ) सिंहासनद्वात्रिंशिकायाः

उत्तर- (क) पाषाणीकन्यायाः

(2) ओडिशा राज्ये श्रीनायारः कुतः स्थानान्तरितः ?

(क) कर्नाटकतः

(ख) केरलतः

(ग) केन्द्रसर्वकारतः

(घ) असमतः

उत्तर- (ग) केन्द्रसर्वकारतः

(3) श्रीनायारस्य विशेषतासीत्-

(क) सन्तुलितो वार्तालाप:

(ख) ससमये आगमनम्

(ग) सञ्चिकासु मनोनिवेश:

(घ) त्रयोऽपि

उत्तर- (घ) त्रयोऽपि

(4) श्रीनायाः खाद्य आपूर्तिविभागे कस्मिन् पदे आसीत् ?

(क) निदेशकपदे

(ख) सचिवपदे

(ग) लिपिकपदे

(घ) अध्यक्षपदे

उत्तर- (ख) सचिवपदे

(5) श्रीनायारस्य काले विभागस्य कार्यनैपुण्यं वर्धितम्-

(क) एकादश गुणैः

(ख) पञ्चदश गुणैः

(ग) सप्तगुणैः

(घ) दशगुणैः

उत्तर- (घ) दशगुणैः

(6) श्रीनायारस्य काले खाद्यापूर्ति विभागेन्यूनीभूतम्

(क) अपमिश्रणम्

(ख) कार्यम्

(ग) खाद्यम्

(घ) सामग्री

उत्तर- (क) अपमिश्रणम्

(7) श्रीनायारः वेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म ?

(क) मेघालयम्

(ख) कर्णाटकम्

(ग) मेघालयम्

(घ) केरलम्

उत्तर- (घ) केरलम्

(8) एकं पत्रम् आगतम्

(क) कार्यालये

(ख) गृहे

(ग) आश्रमे

(घ) विद्यालये

उत्तर- (क) कार्यालये

(9) विभागस्य विपक्षे केषाम् अभियोगो नास्ति ।

(क) मन्त्रिणाम्

(ख) उपभोक्तृणाम्

(ग) लिपिकानाम्

(घ) जनानाम्

उत्तर- (ख) उपभोक्तृणाम्

गद्यांशं पठित्वा एतदाधारितं प्रश्नानामुत्तराणि यथानिर्देशं लिखत-

श्रीनायारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे बहुदिनेभ्यः स्थगितानां विविध समस्यानामपि समाधानं जातम् । स्वकार्यं त्यक्त्वा अपरस्य सहकारस्तस्य परमधर्मः। सः प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म । तेनानुमीयते तस्य राज्येन सह अस्ति कश्चित् सम्पर्कः । कानिचन मलयालमभाषायाः संवादपत्राणि अतिरिच्य कदापि तस्य नाम्ना किमपि पत्रमागतमिति कोऽपि कदापि न जानाति ।

एकपदेन उत्तरत-

(क) स्वकार्यं त्यक्त्वा अपरस्य सहकार : कस्य परमधर्म: ?

उत्तरम् -  श्रीनायारस्य

(ख) श्रीनायारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे कासां समाधानं जातम् ?

उत्तरम् - विविध समस्यानाम्

पूर्णवाक्येन उत्तरत-

(क) श्रीनायारः प्रतिमासं प्रथमदिवसे केरलं किं प्रेषयति स्म?

उत्तरम- श्रीनायारः प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म ।

निर्देशानुसारं उत्तरत

(क) स्थगितानाम् इति विशेषणस्य अत्र विशेष्यपदं किम् ?

उत्तरम्- समस्यानाम्

गद्यांशः

एकस्मिन् दिने श्रीनायारः पत्रमेकं धृत्वा मस्तकमवनमय्य पठन् आसीत् । नेत्रतीराद् विगलिता अश्रुधारा आद्रीकरोति स्म पत्रस्य अर्धाधिकं भांगम्। तदानीमेव तस्य कार्यालयलिपिक: श्रीदासः प्रविशति । श्रीनायारः तमुक्तवान् अधुना मम गमनसमयः समुपागत एव । मम दायित्वहस्तान्तरणपत्रकं सज्जीकुरु । अहमधुना द्वित्राणां दिवसानां सकारणावकाशं स्वीकरिष्यामि । पुनः तदनु स्वीकरिष्यामि दीर्घावकाशम् । यदि कस्मैचिद् अज्ञातेन मया रुक्षो व्यवहारः प्रदर्शितः स्यात्, तदर्थं ते मदारचित्तेन क्षमां प्रदास्यन्ति इति सर्वेभ्यो निर्वेदयतु । अनन्तरं सर्वे अश्रुलहृदयैः सौप्रस्थानिकीं ज्ञापितवन्तः ।

एकपदेन उत्तरत-

कः दीर्घावकाशं स्वीकरिष्यति ?

उत्तरम् - श्रीनायारः

ख सर्वे कैः सौप्रस्थानिकीं ज्ञापितवन्तः ?

उत्तरम् - अश्रुलहृदयैः

पूर्णवाक्येन उत्तरत-

क पत्रस्य अर्धाधिकं भागं का आर्द्रीकरोति स्म ?

उत्तरम् - श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा पत्रस्य अर्धाधिकं भागं आर्द्रीकरोति स्म ।

निर्देशानुसारम् उत्तरत-

क 'कठोर' इत्यर्थे कः पर्याय प्रयुक्तः

उत्तरम्- रुक्षः

संस्कृतभाषया उत्तराणि लिखत-

(क) श्रीनायारः कुत्र गमनाय इच्छां न प्रकटितवान् ?

उत्तरम् - श्रीनायारः स्वराज्यं केरलं प्रतिगमनाय इच्छां न प्रकटितवान्

(ख) विभागस्य विपक्षे केषाम् अभियोगो नास्ति ?

उत्तरम् - विभागस्य विपक्षे उपभोक्तृणाम् अभियोगो नास्ति ।

(ग) श्रीनापारः स्ववेतनस्य अद्यधिकं भागं कुत्र प्रेषयति स्म ?

उत्तरम् श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म ।

(घ) श्रीनापारस्य नेत्रतीराद् विगलिता अश्रुधारा किम् अकरोत् ?

उत्तरम् - श्रीनायारस्य नेत्रातीराद् विगलिता अश्रुधारा पत्रस्य अर्धाधिकं भागं आर्दीकरोति स्म ।

(ङ) बहुदिनेभ्यः स्थगितानां समस्यानां समा धानं कदा जातम् ?

उत्तरम् - बहुदिनेभ्यः स्थगितानां समस्यानां समाधानं श्रीनापारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे जातम् ।

(च) श्रीनापारस्य पार्श्वे पत्रं कया प्रेषितम् ?

उत्तरम् - श्रीनायारस्य पार्श्वे पत्र सुश्री मेर्या प्रेषितम्

(छ) आश्रमे के लालिताः पालिताश्च भवन्ति ?

उत्तरम् - आश्रमे अनाथशिशवः लालिताः पालिताश्च भवन्ति ।

(ज) पत्रलेखिका कस्प हस्तयोः अनाथाश्रमं समर्प्य सौप्रस्थानिकिमिच्छति ?

उत्तरम् - पत्र लेखिका श्रीनायारस्य हस्तयो: अनाथाश्रमं समर्प्य सौप्रस्थानिकीमिच्छति

एकपदेन उत्तरत-

(1) श्रीनायारः कुत्रतः आगत्य ओडिशा सर्वकारस्य अधीनेकार्यकरोति ?

उत्तरम- केन्द्रसर्वकारतः

(2) खाद्ये किं न्यूनीभूतम् ?

उत्तरम- अपमिश्रणम्

(3) केषां मध्ये श्रीनापारस्य सुख्यातिः आसीत् ?

उत्तरम्- मन्त्रिणां मध्ये

(4) श्रीनापारस्य लिपिकः कः आसीत् ?

उत्तरम - श्रीदासः

(5) कः दीर्घावकाशं स्वीकरिष्यति

उत्तरम - श्रीनायार:

(6) पत्रम् कुत्र आगतम् ?

उत्तरम - कार्यालये

(7) पत्रस्य लेखिका का आसीत् ?

उत्तरम - सुश्री मेरी

(समस्तपदानां विग्रहाः दत्ता तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत ।)

(क) कालस्य खण्डः तस्मिन्

(ख) कर्मसु नैपुण्यम्

(ग) द्विच त्रिच अनयोः समाहारः तेषाम्

(घ) दीर्घ अवकाश:, तम्

(ङ) धनाय आदेश: तेन

(च) जीवनस्य प्रदीपः

उत्तराणि

(क) कालखण्डे- षष्ठी त०पु

(ख) कर्मनैपुण्यम्- सप्तमी त०पु०

(ग) द्वित्राणाम्- द्वन्द्वसमासः

(घ) दीर्घावकाशम् - कर्मधारयः

(ङ) धनादेशेन- तृतीया तत्पुरुषः

(च) जीवनप्रदीपः - षष्ठी त० पु०

(विपरीतार्थक पदानि मेलयत)

(क) आगत्य       (क) विस्मृत

(ख) इच्छाम्       (ख) गत्वा

(ग) स्वल्पभाषी   (ग) न्यूनीभूतम्

(घ) प्रारभ्य         (घ) पक्षे

(ङ) अधिकीभूतम् (ङ) बहुभाषी

(च) विपक्षे         (च) समाप्य

(छ) स्मृतः          (छ) लघुजीवनम्

(ज) दीर्घजीवनम् (ज) अनिच्छाम्

उत्तरणि

क-       ख

ख-       ज

ग-        ङ

घ-        च

ङ-       ग

च-        घ

छ-       क

ज-        छ

(अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत । समाप्य, जातम्, त्यक्त्वा, धृत्वा, पठन्, संपोष्य ।)

उत्तराणि:

समाप्य = सम्+आप् + ल्यप्

जातम् = जन्+ क्त

त्यक्त्वा = त्यज् + क्त्वा

धृत्वा = धृ + क्त्वा

पठन् = पठ् + शतृ

संपोष्य = सम्+ पुष् + ल्यप्

JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

विषयानुक्रमणिका

क्रम.

पाठ का नाम

प्रथमः पाठः

विद्ययाऽमृतमश्नुते

द्वितीयः पाठः

रधुकौत्ससंवादः

तृतीयः पाठः

बालकौतुकम्

चतुर्थः पाठः

कर्मगौरवम्

पंचमः पाठः

शुकनासोपदेशः

षष्ठः पाठः

सूक्तिसुधा

सप्तमः पाठः

विक्रमस्यौदार्यम्

अष्टमः पाठः

भू-विभागाः

नवमः पाठः

कार्यं वा साधयेयं देहं वा पातयेयम्

दशमः पाठः

दीनबन्धुः श्रीनायारः

एकादशः पाठः

उद्भिज्ज -परिषद्

द्वादशः पाठः

किन्तोः कुटिलता

त्रयोदशः पाठः

योगस्य वैशिष्टयम्

चतुर्दशः पाठः

कथं शब्दानुशासनं कर्तव्यम्

JAC वार्षिक माध्यमिक परीक्षा, 2023 प्रश्नोत्तर

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare