12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्

12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्

 12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्

प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

Class - 12

Sanskrit

त्रयोदशः पाठः योगस्य वैशिष्ट्यम्

बहुविकल्पीया: प्रश्नाः

(1) योगसूत्रस्य रचनाकारः कः ?

(क) कालिदासः

(ख) बाणभट्टः

(ग) पतञ्जलिः

(घ) भारविः

(2) योगस्य कति अङ्गानि सन्ति ?

(क) सप्त

(ख) अष्ट

(ग) नव

(घ) पंच

(3) योगस्य वैशिष्ट्यम्' 'पाठानुसारं स्थिरसुखं किम् ?

(क) यम

(ख) नियम

(ग) आसनम्

(घ) धारणा

(4) विद्याध्ययने अपि योगस्य उपयोगः -------

(क) भवति

(ख) दुष्करम्

(ग) सम्भवति

(घ) असम्भवम्

(5) 'योगः स्वास्थ्यकरः' इति केन उक्तम्-

(क) सागरिकया

(ख) स्वप्निलेन

(ग) मोहिन्या

(घ) सागरेण

(6) कक्षायां कः प्रविशति ?

(क) प्रधानाचार्यः

(ख) वेदाचार्य

(ग) योगशिक्षकः

(घ) बालक:

(7) अस्माकंकृते योगशिक्षा-

(क) जनदायिनी

(ख) फलदायिक धनदायिनी

(ग) उपयोगिनी

(घ) अनुपयोगिनी

(8) चित्तवृति: निरोधः कः ?

(क) योग:

(ख) शोक:

(ग) मौनः

(घ) भोगः

(9) पाठ माध्यमेन योगशिक्षां शिक्षयति-

(क) योगशिक्षकः

(ख) शिक्षक:

(ग) प्रधानशिक्षकः

(घ) क्रीड़ा शिक्षक:

(10) विश्वयोगदिवसः कदा मान्यते/समायोज्यते ?

(क) 20 जून

(ख) 21 जून

(ग) 25 जून

(घ) 30 जुलाई

अधोलिखितनाट्यांश पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

स्वप्निल - बलराम, अद्य कक्षायां कोऽपि विशिष्टः कार्यक्रमः?

बलराम- अरे मित्र त्वं न जानासि ? इदानीं तु योगशिक्षायाः कालांशः ।

मोहिनी:- एषः तु नूतनः विषयः किं प्रतिदिनम् ईदृशी कक्षा प्रचलिष्यति?

बलरामः- आम् अस्माकं कृते योगशिक्षा अतीव उपयोगिनी अस्ति।

सागरिका - अहो! सुखदामाश्चर्यम् । अहमपि गृहे मातुः मुखाद् योगशिक्षायाः विषये श्रुतवती ।

तया उक्तम् - योग: स्वास्थ्यकरः ।

सागरः - किं विद्याध्ययनेऽपि अस्योपयोगः वर्तते?

प्रश्नाः

एकपदेन उत्तरत

(क) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ?

उत्तरम्- सागरिका

(ख) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति ?

उत्तरम् - योगविषये

पूर्णवाक्येन उत्तरत

(क) कः स्वास्थ्यकर :

उत्तरम- योग: स्वास्थ्यकर :

(ख) अधुना योगशिक्षा कीदृशी अस्ति ?

उत्तरम - अधुना योगशिक्षा अतीव उपयोगिनी अस्ति।

(ग) अस्योपयोगः इत्यस्यस्य सन्धि विच्छेदं लिखत ।

उत्तरम – अस्य + उपयोगः

अधोलिखितप्रश्नानां उत्तरं संस्कृतेन लिखत ।

(क) योग कः कथ्यते?

उत्तरम - चित्तवृत्तीनां निरोधः योगः कथ्यते ।

(ख) मातुः मुखाद्, योगशिक्षायाः विषये का श्रुतवती?

उत्तरम - मातुः मुखाद् योगशिक्षायाः विषये सागरिका श्रुतवती ।

(ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति ?

उत्तरम - योगस्य विषये।

(घ) प्रमाणानि कानि ?

उत्तरम - प्रत्यक्षानुमानागमः प्रमाणानि ।

(ङ) स्मृतिः का कथ्यते ?

उत्तरम - अनुभूतविषया सम्प्रमोषः स्मृतिः ।

(च) निद्रा का भवति ?

उत्तरम - अभावप्रत्ययालम्बना वृत्तिः निद्रा भवति ।

(छ) योगाङ्गानि कानि ?

उत्तरम - यम-नियम- आसन-प्राणायाम-प्रत्याहार-धारणा- ध्यान - समाधयोऽष्टावङ्गानि ।

(ज) हिंसा का कथ्यते ?

उत्तरम -  वैरभावना हिंसा कथ्यते।

(झ) अपरिग्रहः कः भवति ?

उत्तरम - जन्मकथन्ता सम्बोधः अपरिग्रहः भवति ।

'अ' स्तम्भस्य वाक्यांश: सह व स्तम्भस्य वाक्यांशान् मेलयत ।

(अ)

(ब)

(क) शब्दज्ञानानुपाती वस्तुशून्यः

1. धारणा

(ख) स्थिरसुखम्

2. वीर्यलाभः

(ग) देशबन्ध चित्तस्य

3. सर्वरत्नोपस्थानम् ।

(घ) अस्तेयप्रतिष्ठायाम्

4. विकल्प:

(ड.) ब्रह्मचर्यप्रतिष्ठायाम्

5. ध्यानम्

(च) प्रत्येकतानता

6. आसनम्

 

उत्तराणि

क- 4                घ- 3

ख- 6                ड.- 2

ग- 1                 च- 5

अधोलिखितपदानां सन्धिं विच्छेदं वा कुरुत |

(क) स्वागतम् = सु + आगतम्

(ख) कालांश: = काल + अंश-

(ग) अति+इव = अतीव

(घ) विद्याध्ययनेऽपि = विद्या+अध्ययने+अपि

(ड) स+ उत्साहम् = सोत्साहम्

(च) सम्यग्रूपेण = सम्यक् + रूपेण

(छ) सन्निधिः = सत् + निधिः

अधोलिखितपदानां मूलशब्दं विभक्ति वचनं च लिखत ।

अस्माकम् - अस्मद् षष्ठीबहुवचनम्

मनस: - मनस् पंचमी / षष्ठीएकवचनम्

चिन्तया - चिन्ता तृतीयाएकवचनम्

अङ्गानि - अङ्ग प्रथमाबहुवचनम्

तस्मिन् - तत् पु सप्तमीएकवचनम्

महती - महत् स्त्री. प्रथमाएकवचनम्

प्रतिष्ठायाम् - प्रतिष्ठा सप्तमीएकवचनम्

JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)

विषयानुक्रमणिका

क्रम.

पाठ का नाम

प्रथमः पाठः

विद्ययाऽमृतमश्नुते

द्वितीयः पाठः

रधुकौत्ससंवादः

तृतीयः पाठः

बालकौतुकम्

चतुर्थः पाठः

कर्मगौरवम्

पंचमः पाठः

शुकनासोपदेशः

षष्ठः पाठः

सूक्तिसुधा

सप्तमः पाठः

विक्रमस्यौदार्यम्

अष्टमः पाठः

भू-विभागाः

नवमः पाठः

कार्यं वा साधयेयं देहं वा पातयेयम्

दशमः पाठः

दीनबन्धुः श्रीनायारः

एकादशः पाठः

उद्भिज्ज -परिषद्

द्वादशः पाठः

किन्तोः कुटिलता

त्रयोदशः पाठः

योगस्य वैशिष्टयम्

चतुर्दशः पाठः

कथं शब्दानुशासनं कर्तव्यम्

JAC वार्षिक माध्यमिक परीक्षा, 2023 प्रश्नोत्तर

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare