प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
Class - 12
Sanskrit
प्रथम : पाठः- विद्ययाऽमृतमश्रुते
Q1. अधोलिखितं पद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
ईशावास्यमिदं
सर्वं यत्किञ्च जगत्यां जगत् ।
तेन
त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
(क) एकपदेन उत्तरत-
(i) सर्वं जगत् केन आवास्यम् ?
उत्तर-
ईशा
(ii) कस्पस्वित् किं मा गृधः ?
उत्तर-
धनम्
(ख) पूर्णवाक्येन उत्तरत-
(1) अस्माभिः कथं भोक्तव्यम् ?
उत्तर-
अस्माभिः त्यक्तेन भोक्तव्यम् ।
(ग) त्यक्तेन इत्यत्र का विभक्तिः ?
उत्तर-
तृतीया
अधोलिखितस्य श्लोकस्य अन्वयं लिखत-
कुर्वत्रेवेह
कर्माणि जिजीविषेच्छतं समाः।
एवं
त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।
उत्तर-
इह शतम् समाः कर्माणि कुर्वन् एव जिजीविषेत् ।
इतः
अन्यथा न अस्ति एवम् त्वयि नरे कर्म लिप्यते न ।
संस्कृतभाषायाम् उत्तरं लिखत-
(क) ईशावास्योपनिषद् कस्याः संहितायाः भागः ?
उत्तर-
ईशावास्योपनिषद् यजुर्वेदस्य माध्यन्दिन -संहितायाः भागः अस्ति ।
(ख) जगत्सर्वं कीदृशम् अस्ति ?
उत्तर-
जगत्सर्वं ईशावास्यम् अस्ति ।
(ग) पदार्थभोगः कथं करणीयः ?
उत्तर-
पदार्थभोगः त्यागभावेन करणीयः ।
(घ) शतं समाः कथं जिजीविषेत् ?
उत्तर-
शतं समाः कर्माणि कुर्वन् जिजीविषेत् ।
(ड.) आत्महनो जनाः कीदृशं लोकं गच्छन्ति ?
उत्तर-
आत्महनो जनाः असुर्या नामकं लोकं गच्छन्ति ।
(च.) मनसोऽपि वेगवान् कः ?
उत्तर-
मनसोऽपि वेगवान् आत्मा ।
(छ.) तिष्ठत्रपि कः धावतः अन्यान् अत्येति?
उत्तर-
तिष्ठन्नपि आत्मा धावतः अन्यान् अत्येति।
(ज.) अन्धन्तमः के प्रविशन्ति ?
उत्तर-
ये अविद्याम् उपासते ते अन्धन्तमः प्रविशन्ति
(झ) धीरेभ्यः ऋषयः कि श्रुतवन्तः ?
उत्तर-
धीरेभ्यः ऋषयः श्रुतवन्तः यत् विद्यया अन्यत् फलं भवति अविद्यया च अन्यत् फलम् भवति
।
(ञ) अविद्यया किं तरति ?
उत्तर-
अविद्यया मृत्युं तरति ।
(ट) विद्यया किं प्राप्नोति
उत्तर-
विद्यया अमृतं प्राप्नोति ।
एकपदेन उत्तरत
(1) सर्वं जगत् केन आवास्यम् ?
उत्तर-
ईशा
(2) कस्यस्वित् किं मागृधः?
उत्तर-
धनम्
(3) त्यक्तेन इत्यत्र का विभक्ति ?
उत्तर-
तृतीया
(4) मृत्युम् शब्दस्य विलोम पदम् लिखत ।
उत्तर-
जीवनम्
(5) न आवृताः असुर्या नाम लोकाः ?
उत्तर-
तमसा
(6)
तान् के प्रत्याभिगच्छन्ति ?
उत्तर-
आत्महनोजना:
(7) अन्धेन तमसा ऽऽवृता के ?
उत्तर-
लोकाः
(8) तीर्त्वा पदे कः प्रत्ययः ?
उत्तर-
क्त्वा
(9) या अमृतम्ऽश्रुते ?
उत्तर-
विद्यया
अधोलिखितानां समुचितं योजनं कुरुत
(क)
धनम्- (1) वायुः
(ख)
समा:- (2) आत्मनं ये घ्रन्ति
(ग)
असुर्या:- (3) श्रुतवन्तः स्म
(घ)
आत्महन:- (4) तमसाडडवृताः
(ड.)
मातरिश्वा- (5) वर्षाणि
(च)
शुश्रुम (6) अमरता
(छ)
अमृतम्- (7) वित्तम्
उत्तर-
(क)
धनम् (7)
वित्तम्
(ख)
समाः (5)
वर्षाणि
(ग)
असुर्या (4)
तमसाऽऽवृता
(घ)
आत्महनः (2)
आत्मानं ये घ्रन्ति
(ड.)
मातरिश्वा (1)
वायुः
(च)
शुश्रुम (3)
श्रुतवन्तः स्म ।
(छ)
अमृतम् (6)
अमरता।
Q प्रकृति प्रत्ययं च योजयित्वा पद रचनां कुरुत ।
त्यज्
+ क्त = त्यक्तः
कृ
+ शतृ = कुर्वन्
तत्
+ तसिल् = ततः
प्रेत्य
= प्र + इण् + ल्यप् प्रत्यय
तीत्वा
= तृ + क्त्वा प्रत्यय
धावतः
= घाव् + शतृ प्रत्यय
तिष्ठत्
= स्था + शतृ प्रत्यय
जवीय:
= जव् + मतुप् + इयसुन्
Q सन्धि सन्धिविच्छेदं वा कुरुत
(क)
ईशावास्यम् = ईशा + आवास्यम्
(ख)
कुर्वत्रेवेह = कुर्वन्+एव+ इह
(ग)
जिजीविषेत् + शर्त = जिजीविषेच्छतम्
(घ)
तत् + धावतः = तद्धावतः
(ड.)
अनेजत् + एकम् = अनेजदेकम्
(च)
आहु: अविधया = आहुर्विद्यया
(छ)
अन्यथेतः = अन्यथा + इतः
(ज)
तांस्ते = तान् + ते
प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुत
(1) विद्ययामृतमश्रुते पाठः कस्मात् प्रन्थात् सङ्कलितः ?
(क)
माण्डूक्योपनिषदः
(ख)
तैतिरीयोपनिषदः
(ग)
ईशावास्योपनिषदः
(घ)
छान्दोग्योपनिषदः
(2) ईशावास्योपनिषदः कस्याः संहितायाः भागः ?
(क)
यजुर्वेदस्य
(ख)
सामवेदस्य
(ग)
अथर्ववेदस्य
(घ)
ऋग्वेदस्य
(3) विद्यया किं प्राप्नोति ?
(क)
विषम्
(ख)
अमृतम्
(ग)
विवादम्
(घ)
कलहम्
(4) मनसोऽपि वेगवान् कः ?
(क)
नेत्रम्
(ख)
जनः
(ग)
आत्मतत्व:
(घ)
बापु
(5) पदार्थ भोगः कथं करणीयः ?
(क)
शोकभावेन
(ख)
हर्षभावेन
(ग)
संचयभावेन
(घ)
त्यागभावेन
(6) शतं समाः किं कुर्वन् जिजीविषेत् ?
(क)
कर्म
(ख)
योगम्
(ग)
गगनम्
(घ)
पठनम्
(7) मातरिश्वा इत्यस्य पर्यायपदं किम्?
(क)
अग्नि
(ख)
जलम्
(ग)
विद्या
(घ)
वायुः
(8) कः अपः ददाति ?
(क)
तमसा
(ख)
आत्महन:
(ग)
मातरिश्वा
(घ)
लोका:
(9) तमसा इत्यस्य विलोम पदं किम्?
(क)
प्रकाशन
(ख)
अन्धकारेन
(ग)
उभयो
(घ)
तमः
(10) 'गच्छन्ति' क्रिया पदे कः लकारः
(क)
विधिलिंग
(ख)
लोट्
(ग)
लुट्
(घ)
लट्
(11) ईशावास्यम् पदस्य विच्छेदं चिनुत
(क)
ईश वास्यम्
(ख)
ईशा आवास्यम्
(ग)
ईशावास्यम्
(घ)
ईश + वास्य
उत्तर-
(1) ग (2) क (3) ख (4) ग (5) घ (6) क (7) घ (8) (ग) (9) क (10) घ (11) (ख)
Q. अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानेषु उचितानि पदानि पूरयत-
असूर्या
नाम ते लोका अन्धेन तमसावृताः।
तांस्ते
प्रत्याभिगच्छन्ति ये के आत्महनो जनाः ।।
अन्वयः - ये के च ------ (i) जनाः ते प्रेत्य अन्धेन --- (ii) आवृता
------(iii) नाम लोका: ----- (iv)
उत्तर-
(i)
आत्महनो
(ii)
तमसा
(iii)
असूर्या
(iv)
अभिगच्छन्ति
अन्धन्तमः
प्रविशन्ति येऽविद्यामुपासते।
ततो
भूय इव ते तमो य उ विद्यायां रताः ।।
ये अविधाम्------- ते अन्धन्तमः 2-------ये 3 ------- रताः ते इन ततः
भूयः (4)-----
उत्तर-
1 उपासते 2 प्रविशन्ति, 3 विद्यायां 4 तमः
अ॒न्यदे॒वाहुर्विद्यया
अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये न नस्तद्विचक्षिरे ॥
विद्यया अन्यत् 1-------अविद्यया 2--------- आहुः धीराणाम् ये नः 3
--------तत् 4---------
उत्तर- 1 आहु, 2 अन्यत् 3 विचचक्षिरे, 4 शुश्रुम
JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
विषयानुक्रमणिका
क्रम. | पाठ का नाम |
प्रथमः पाठः | |
द्वितीयः पाठः | |
तृतीयः पाठः | |
चतुर्थः पाठः | |
पंचमः पाठः | |
षष्ठः पाठः | |
सप्तमः पाठः | |
अष्टमः पाठः | |
नवमः पाठः | |
दशमः पाठः | |
एकादशः पाठः | |
द्वादशः पाठः | |
त्रयोदशः पाठः | |
चतुर्दशः पाठः | |