Project PARAKH Class-12th Sanskrit Model Set-2 Questions-cum-Answer Booklet (2024-25)

Project PARAKH Class-12th Sanskrit Model Set-2 Questions-cum-Answer Booklet (2024-25)

 

Project PARAKH Class-12th Sanskrit Model Set-2 Questions-cum-Answer Booklet (2024-25)

प्रोजेक्ट परख (तैयारी उड़ान की)

MODEL QUESTION SET-2

कक्षा- द्वादशी ; विषयः- संस्कृतम्

समसः- 3:00 ; पूर्णांकाः- 80

सामान्यनिर्देशाः-

• अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।

• कुलप्रश्नानां संख्याः 52 सन्ति।

• प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन् प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते एकम् अङ्क विनियोजितं भवति ।

• प्रश्नसंख्या 31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति ।

• प्रश्नसंख्या 39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं भवति।

• प्रश्नसंख्या 47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति।

अपठित-अवबोधनम्

अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।

वयं भारतवासिनः स्म। अस्माकं मातृभूमिः, अस्माकं जन्मभूमिः इदमेव भारतम्। इदं भारतं महत्। अस्य संस्कृतिः महती। इयं सा देवभूमिः, यस्यां जन्मग्रहणाय देवाः अपि उत्सुकाः भवन्ति। अस्याः समक्षं स्वर्गोऽपि नगण्यः अस्ति। उक्तमपि "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी"।

अत्र प्रकृतिः स्वक्रीडां करोति। अत्र सर्वेषामेव षण्णाम् ऋतूनां क्रमो जायते। वसन्त-ग्रीष्म-वर्षा-शरत्-हेमन्त-शिशिराः सर्वे एव ऋतवः क्रमेण आगच्छन्ति। प्रकृतेः मनोरमं रम्यं च स्थलमस्ति ।

1. अस्माकं देशस्य नाम किम् ?

(क) चीनः

(ख) नेपालः

(ग) भारतम्

(घ) झारखण्डः

2. भारतवर्षस्य समक्षं कः नगण्यः अस्ति?

(क) मातृभूमिः

(ख) जन्मभूमिः

(ग) देवभूमिः

(घ) स्वर्गः

3. भारते कति ऋतूनां क्रमो जायते?

(क) पञ्च

(ख) षट्

(ग) सप्त

(घ) अष्ट

4. अत्र प्रकृतिः किं करोति ?

(क) स्वलीलां

(ख) विश्रामं

(ग) स्वनृत्यं

(घ) स्वक्रीडां

5. स्वर्गाद् अपि गरीयसी- अत्र रेखाङ्कितपदे का विभक्तिः?

(क) चतुर्ती

(ख) पञ्चमी

(ग) षष्ठी

(घ) सप्तमी

6. "करोति" इति पदे कः लकारः?

(क) लट्

(ख) लोट्

(ग) लङ्

(घ) लृट्

पठित-अवबोधनम्- अनुप्रयुक्तव्याकरणम्

अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत ।

गर्भेश्वरत्वमभिनवयौवनत्वम्, अप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थ परम्परा। यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालन-निर्मलापि कालुष्यमुपयाति बुद्धिः। नाशयति च पुरुषमत्यास‌ङ्गो विषयेषु।

7. कदा बुद्धिः कालुष्यम् उपयाति?

(क) बाल्यकाले

(ख) वृद्धकाले

(ग) यौवनारम्भे

(घ) मृत्युकाले

8. कः पुरुषं नाशयति ?

(क) विद्या

(ख) विषयः

(ग) अविषयः

(घ) अविद्या

9. अनर्थपरम्परा नास्ति---

(क) गर्भेश्वरत्वम्

(ख) अभिनवयौवनत्वम्

(ग) अप्रतिमरूपत्वम्

(घ) मानुषशक्तित्वम्

अधोलिखितं पद्यांशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।

तमध्वरे विश्वजिति क्षितीशं,

निःशेषविश्राणितकोषजातम्।

उपात्तविद्यो गुरुदक्षिणार्थी,

कौत्सः प्रपेदे वरतन्तुशिष्यः ॥

10. वरतन्तोः शिष्यः कः आसीत्?

(क) रघुः

(ख) कौत्सः

(ग) अजः

(घ) कालिदासः

11. क्षितिशः कस्मिन् समग्रकोषं दत्तवान्?

(क) दर्शपूर्णयागे

(ख) सोमयागे

(ग) इष्टियागे

(घ) विश्वजित्-यागे

अधोलिखितं नाट्याशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।

कौसल्या – जात! अस्ति ते माता ? स्मरसि वा तातम् ?

लवः - नहि।

कौसल्या - ततः कस्य त्वम् ?

लवः - भगवतः सुगृहीतनामधेयस्य वाल्मीकेः।

कौसल्या - अयि जात ! कथयितव्यं कथय ।

लवः - एतावदेव जानामि।

(प्रविश्य सम्भ्रान्ताः)

बटवः- कुमार ! कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।

लवः - 'अश्वोऽश्व' इति नाम पशुसमाम्नाये संग्रामिके च पठ्यते, तद् ब्रूत-कीदृशः ?

12. लवः स्वपितुः नाम किमुक्तवान्?

(क) रामः

(ख) लक्ष्मणः

(ग) वाल्मीकिः

(घ) दशरथः

13. बटवः स्वयं किं प्रत्यक्षीकृतः?

(क) व्याघ्रः

(ख) अश्वः

(ग) गजः

(घ) सिंहः

14. स्मरसि वा तातम्? इति का उक्तवती?

(क) कौशल्या

(ख) कैकेयी

(ग) लवः

(घ) बटवः

उचितविकल्पेन रिक्तस्थानानि पूरयत।

15. ----- निकषा नदी अस्ति।

(क) ग्रामम्

(ख) ग्रामेण

(ग) ग्रामाय

(घ) ग्रामात्

16. ----- पत्रं पतति ।

(क) वृक्षेण

(ख) वृक्षस्य

(ग) वृक्षाय

(घ) वृक्षात्

17. 'राज्ञः पुरुषः' अस्य सामासिकपदं किम्?

(क) राज्ञपुरुषः

(ख) राजन पुरुषः

(ग) राजपुरुषः

(घ) पुरुषराज्ञः

18. कोऽपि ----- ।

(क) का + अपि

(ख) क + अपि

(ग) को + अपि

(घ) कः + अपि

19. 'कर्तव्यः' अत्र प्रत्ययः कः?

(क) तुमुन्

(ख) अनीयर्

(ग) तव्य

(घ) क्त

20. 'दातुम्' अत्र कः प्रत्ययः?

(क) तव्य

(ख) अनीयर

(ग) क्त

(घ) तुमुन्

21. 'किरातार्जुनीयम्' इति कस्य रचना?

(क) भवभूतेः

(ख) भारवेः

(ग) कालिदासस्य

(घ) श्रीहर्षस्य

22. रामायणे कति काण्डानि सन्ति?

(क) पञ्च

(ख) षट्

(ग) सप्त

(घ) अष्ट

23. 'रघुवंशम्' इति कस्य रचना ?

(क) भवभूतेः

(ख) भर्तृहरेः

(ग) बाणभट्टस्य

(घ) कालिदासस्य

24. माघे सन्ति ------ गुणाः।

(क) द्वौ

(ख) त्रयः

(ग) एक

(घ) पञ्च

25. 'नीतिशतकम्' इत्यस्य रचनाकारः कः?

(क) भवभूतिः

(ख) भर्तृहरिः

(ग) भारविः

(घ) बाणभट्टः

26. 'कादम्बरी' इति कस्य रचना?

(क) कालिदासस्य

(ख) भारवेः

(ग) बाणभट्टस्य

(घ) भवभूतेः

27. कति वेदाः सन्ति?

(क) त्रयः

(ख) चत्वारः

(ग) पञ्च

(घ) षट्

28. नाटकं कीदृशं काव्यम् अस्ति ?

(क) श्रव्यकाव्यम्

(ख) दृश्यकाव्यम्

(ग) खण्डकाव्यम्

(घ) महाकाव्यम्

29. 'पञ्चतन्त्रम्' इति कस्य रचना?

(क) विष्णुशर्मणः

(ख) नारायणशर्मणः

(ग) वेदव्यासस्य

(घ) श्रीहर्षस्य

30. 'स्वप्नवासवदत्तम्' इत्यस्य रचनाकारः कः?

(क) भवभूतिः

(ख) भारविः

(ग) भासः

(घ) भर्तृहरिः

(अपठितांशावबोधनम्)

निर्देशः- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत-

आधुनिकः युगः 'वैज्ञानिको युगः' इति सर्वेस्वीकुर्वन्ति। अस्मिन् युगे विज्ञानेन यादृशी प्रगतिः कृता, न तादृशी प्राचीनेषु युगेषु आसीत्। आधुनिके युगे विविधैः यन्त्रैः इतस्ततः समाचाराः शीघ्रमेव अपरस्मिन् स्थाने प्रेषिताः भवन्ति। सर्वे च तान् समाचारान् समाचारपत्रस्य माध्यमेन शीघ्रमेव जानन्ति। समाचारपत्रस्य महत्त्वपूर्ण स्थानमस्ति समाजे, देशे जीवने च। समाचारपत्रद्वारा एव वयम् आजीविकायाः साधनानि अन्वेष्टुं समर्थाः भवेम। या च आवश्यकीया सूचना भवति तां ज्ञातुं प्रसारयितुं वा समर्थाः भवेम। एतानि पत्राणि एव राष्ट्रकतां राष्ट्रविघटनं वा कर्तुं क्षमाः। अतः समाचारपत्रसम्पादकानां बहुमूल्यं दायित्वम् अस्ति। सम्पादकाः अमंगलं मंगलं वा साधयितुं क्षमाः।

31. पूर्णवाक्येन उत्तरत।

(क) आधुनिकः युगः सर्वे किं स्वीकुर्वन्ति?

उत्तरम्- आधुनिकः युगः सर्वे वैज्ञानिकः युगः इति स्वीकुर्वन्ति।

(ख) केषां बहुमूल्यं दायित्वम् अस्ति आधुनिके युगे ?

उत्तरम्- समाचारपत्र-सम्पादकानां बहुमूल्यं दायित्वं अस्ति आधुनिकयुगे।

32. यथानिर्देशम् उत्तरत।

(क) 'मंगलम्' इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

उत्तरम्- अमंगलम्।

(ख) 'ज्ञातुम्' इत्यस्य कः प्रत्ययः प्रयुक्तः?

उत्तरम्- तुमुन् ।

(ग) 'समर्थः' अस्यार्थे कः शब्दः प्रयुक्तः?

उत्तरम्- क्षमा ।

(घ) स्वीकुर्वन्ति अत्र मूलधातुः कः?

उत्तरम्- कृ-धातुः ।

(पठितावबोधनम्)

निर्देशः- अधोलिखितं गद्यांशं, पद्यं नाट्यांशं च पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारं संस्कृतेन उत्तरत-

गद्यांशम्-

मासोऽयमाषाढः, अस्ति च सायं समयः, अस्तं जिगमिषुर्भगवान् भास्करः सिन्दूर-द्रव-स्नातानामिववरफण-दिगवलम्बिनामरफण-वारिवाहानामभ्यन्तरं प्रविष्टः। कलविघाश्चाटवैफर रफतैः परिपूर्णेषु नीडेषु प्रतिनिवर्तन्ते । वनानि प्रतिक्षणमध्किाधिकां श्यामतां कलयन्ति। अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्, क्षणंप्रकटित-शिखरि सूक्ष्मविस्तारा, परतः शिखर-विडम्बना, अथ दर्शित-दीर्घ-शुण्डमण्डित-दिगन्त-दन्तावल-भयानकाकारा ततः पारस्परिक संश्लेष-विहित-महान्धकारा च समस्तं गगनतलं पर्यच्छदीत्।

33. पूर्णवाक्येन उत्तरत।

(क) शिवराजविजयस्य रचयिता कः अस्ति?

उत्तरम- शिवराजविजयस्य रचयिता अम्बिकादत्तव्यासः।

(ख) अकस्मात् पर्वतश्रेणीव का प्रादुर्भूत?

उत्तरम् - अकस्मात् पर्वतश्रेणीव मेघमाला प्रादुर्भूत्।

34. यथानिर्देशम् उत्तरत।

(क) वारिवाहानामभ्यन्तरं प्रविष्टः कः?

उत्तरम् - भास्करः।

(ख) 'कलयन्ति' इति क्रियापदस्य कर्ता कः?

उत्तरम्- कलविङ्ङ्का।

(ग) 'सूर्यः' इति स्थाने किं पदमत्र प्रयुक्तम् ?

उत्तरम् - भास्करः।

(घ) 'अस्ति' पदे कः लकारः प्रयुक्तः ?

उत्तरम् - लट्।

पद्यम्-

सहसाविदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥

35. पूर्णवाक्येन उत्तरत।

(क) सहसा का न करणीया?

उत्तरम् - सहसा क्रिया न करणीया।

(ख) गुणलुब्धाः सम्पदः कं स्वयमेव वृणुते?

उत्तरम् - गुणलुब्धाः सम्पदः विमृश्यकारिणं स्वयमेव वृणुते।

36. यथानिर्देशम् उत्तरत।

(क) 'वृणुते' इति क्रियापदस्य अत्र कर्तृपदं किम्?

उत्तरम् - अविवेकः ।

(ख) 'विवेकः' इति पदस्य विलोमपदं किम् ?

उत्तरम् - अविवेकः।

(ग) 'कर्तव्यम्' इत्यर्थे श्लोके कः पर्यायः?

उत्तरम् - विदधीत्।

(घ) 'सम्पदः' इति विशेष्यपदस्य श्लोके विशेषणपदं किम्?

उत्तरम् - गुणलुब्धाः।

नाट्यांशः-

स्वप्निलः - बलराम ! अद्यकक्षायांकोऽपिविशिष्टः कार्यक्रमः?

बलरामः - अरेमित्र ! त्वंनजानासि ? इदानीं तु योगशिक्षायाः कालांशः।

मोहिनी - एषः तुनूतनःविषयः। किंप्रतिदिनम्ईदृशीकक्षाप्रचलिष्यति?

बलरामः - आम्, अधुना तु अस्माकं कृते योगशिक्षा अतीव उपयोगिनी अस्ति।

सागरिका - अहो! सुखदमाश्चर्यम्। अहमपिगृहेमातुः मुखाद्योगशिक्षायाः विषयेश्रुतवती । तयाउक्तम्- 'योगः स्वास्थ्यकरः।'

सागरः - किं विद्याध्ययनेऽपि अस्योपयोगः वर्तते?

37. पूर्णवाक्येन उत्तरत।

(क) कः स्वास्थ्यकरः?

उत्तरम् - योगः स्वास्थ्यकरः।

(ख) अधुना योगशिक्षा कीदृशी अस्ति?

उत्तरम् - अधुना योगशिक्षा अतीव उपयोगिनी अस्ति।

38. 'अस्योपयोगः' इत्यस्य सन्धिविच्छेदं कुरुत।

उत्तरम् - अस्य + उपयोगः।

39. अधोलिखितस्य श्लोकस्य अन्वयं पूर्णं कुरुत-

उत्तरम् - 1) उपासते (2) प्रविशन्ति 3) विद्यायां

श्लोकः-

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ॥

अन्वयः- ये अविद्याम् ------- ते अन्धं तमः ------- ये उ ------- रताः ते ततो भूयः तमः इव प्रविशन्ति।

40. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(क) शुकनासः चन्द्रापीडम् उपदिशति।

उत्तरम् -कम्।

(ख) विद्यया अमृतं प्रप्नोति ।

उत्तरम् - कया।

(ग) श्रीकृष्णः अर्जुनम् युद्धाय प्रेरयति।

उत्तरम् - कः।

41. श्लोकांशाद् मेलनं कुरुत।

'अ'

‘ब'

(क) कर्मण्येवाधिकारस्ते

(A) लाभालाभौ जयाजयौ

(ख) ईशावास्यमिदं सर्वं यत्

(B) मा फलेषु कदाचन

(ग) सुखदुःखे समे कृत्वा

(C) किञ्च जगत्यां जगत्

 

उत्तरम्- (क) - B, (ख) - C, (ग) - A

42. कोष्ठकेषु प्रदत्तपदेषु उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

(क) शिशुः --- सर्पात् ----- विभेति। (सर्प)

(ख) --- कविषु ----कालिदासः श्रेष्ठः। (कवि)

(ग) ---- शिवाय --- नमः। (शिव)

43. वाक्यनिर्माणं कुरुत।

(क) पत्रम् - अहं पत्रं लिखामि ।

(ख) अहम् - अहं गृहं गच्छामि।

(ग) नदी - ग्रामं निकषा नदी अस्ति।

44. विलोमपदानि लिखत।

(क) सत्यम् - असत्यम्।

(ख) प्रातः - नक्तम्।

(ग) उपरि - अधः।

45. सन्धिविच्छेदं कुरुत।

(क) उपेन्द्रः - उप + इन्द्रः।

(ख) कोऽहम् - कः + अहम् ।

(ग) पावकः - पौ+अकः।

46. अधोलिखितविग्रहपदानां समस्तपदानि रचयत।

(क) गङ्गायाः समीपम् - उपगङ्गम्।

(ख) माता च पिता च - पितरौ।

(ग) ज्ञानेन हीनः - ज्ञानहीनः।

47. अधोदत्तचित्रं दृष्ट्वा मञ्जुषासहायतया पञ्च वाक्यानि लिखत।

(मञ्जुषा-आश्रमपदम्, शिष्याः, साधवः, नदीतटम्, मयूराः, वृक्षाः, स्नानम्, यज्ञाः, वेदान्)

चित्रम्--

Project PARAKH Class-12th Sanskrit Model Set-2 Questions-cum-Answer Booklet (2024-25)

उत्तरम्-

आश्रमपदम् - आश्रमपदम् अतीव मनोरमम्।

शिष्याः - आश्रमे शिष्याः पठन्ति ।

नदीतटम् - नदीतटम् निकषा आश्रमः अस्ति।

मयूराः - मयूराः नृत्यन्ति।

वेदान् - शिष्याः वेदान् पठन्ति ।

48. विद्यालयतः अवकाशं ग्रहीतुं प्रधानाचार्यं प्रति आवेदनपत्रं लिखत।

उत्तरम्-

सेवायाम्

समादरणीयाः प्रधानाचार्य-महोदयाः

प्रोजेक्ट +2 स्कूल, धरमपुर

धरमपुर, पाकुड़

विषयः - अवकाशग्रहणार्थं प्रार्थनापत्रम्।

श्रीमन्तः मान्यवराः,

सविनयं प्रार्थ्यते यत् जानुयारीमासस्य एकादशे दिनांके अग्रजस्य पाणिग्रहणं सम्पत्स्यते। एतदर्थम् एकदिनं मया अवश्यमेव तत्र प्राप्तव्यम्। अतः कृपया दिनद्वयस्य (10/01/2025, 11/01/2025) अवकाशप्रदाय अनुगृह्णन्तु भवन्तः। इति मम निवेदनम्।

भवताम् अनुगतः छात्रः

मुनु हेम्ब्रमः

कक्षा- द्वादशी

क्रमांकः - 04

49. मञ्जुषातः उचितपदानि गृहीत्वा अधोलिखितं संवादं पूरयत।

(मञ्जुषा-स्वतन्त्रदिवससमारोहः, सुप्रभातम्, गच्छसि, विद्यालयम्, नाटकम्)

सुमनः- सुप्रभातं मित्रम् !

कमलः- ---- सुप्रभातम् -----

सुमनः- साम्प्रतं कुत्र ---- गच्छसि ---

कमलः- साम्प्रतम् अहं --- विद्यालयं --- गच्छामि। अद्य विद्यालये --- स्वतन्त्रतादिवससमारोहः ---- आयोजितवान्।

सुमनः आम्, मया तु विस्मृतमेव। अद्य अस्माकं विद्यालये अपि स्वतन्त्रता-दिवससमारोहः आयोजितवान्।

कमलः- मम विद्यालये नाटकादि विविधाः कार्यक्रमाः भविष्यन्ति ।

सुमनः मह्यं --- नाटकम् -----अतीव रोचते ।

50. महाकाव्यस्य वैशिष्ट्यं प्रतिपादयत ।

उत्तरम् - महाकाव्यस्य वैशिष्ट्यम्--

" सर्गबन्धो महाकाव्यम् " -- अर्थात् महाकाव्यं सर्गबन्धः भवेत्। अस्य प्रारम्भे आशीर्वाद-प्रार्थना, इष्टदेवम् उद्दिश्य नमस्कारः अथवा वस्तुनिर्देशः स्यात् । महाकाव्यस्य वृत्तान्तं इतिहासप्रसिद्धं स्यात्। महाकाव्ये नगर-सागर-पर्वत-ऋतु-चन्द्रोदय-सूर्योदय-उद्यान-क्रीडा-विवाह-पुत्रजन्म-युद्धयात्राः वर्णिताः भवेयुः। महाकाव्यं विविधैः अलंकारैः विभूषितं भवेत्। अस्य विषयवस्तु न संक्षिप्तं स्यात्। महाकाव्ये श्रृङ्गार-वीर-शान्तानाम् एकः एव अङ्गीरसः भवेत्। उदाहरणं यथा-- कालिदासस्य 'रघुवंशम्', माघस्य 'शिशुपालवधम्' प्रभृतयः ।

51. संस्कृतेन अनुवादं कुर्वन्तु ।

(क) श्री शिव को नमस्कार है।

उत्तरम् - श्री शिवाय नमः।

(ख) परिश्रम के बिना विद्या नहीं होता है।

उत्तरम् - परिश्रमं विना विद्या न भवति।

(ग) पिता पुत्र के साथ याते है।

उत्तरम् - पिता पुत्रेण सह गच्छति।

(घ) भारतवर्ष हमारा देश है।

उत्तरम् - अस्माकं देशः भारतवर्षः ।

(ङ) मुझे संस्कृत अच्छा लगता है।

उत्तरम् - मह्यं संस्कृतं रोचते।

52. अधोलिखितरचनानां लेखकानां नामानि लिखत (केवलं पञ्चानाम्)

(क) महाभारतम् - वेदव्यासः।

(ख) शिशुपालवधम् - माघः।

(ग) अभिज्ञानशकुन्तलम् - कालिदासः।

(घ) उत्तररामचरितम् - भवभूतिः।

(ङ) हितोपदेशः - पण्डितनारायणः।

(च) हर्षचरितम् - बाणभट्टः।

Model Question Solution 

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare