प्रोजेक्ट परख (तैयारी उड़ान की)
MODEL QUESTION SET-1
कक्षा- द्वादशी ; विषयः- संस्कृतम्
समसः- 3:00 ; पूर्णांकाः- 80
सामान्यनिर्देशाः-
• अभ्यर्थिनः
यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
• कुलप्रश्नानां संख्याः 52 सन्ति।
• प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन्
प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते
एकम् अङ्क विनियोजितं भवति ।
• प्रश्नसंख्या
31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं
दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति
।
• प्रश्नसंख्या
39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं
दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं
भवति।
• प्रश्नसंख्या
47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम्
अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति।
अपठित-अवबोधनम्
अयम् अस्माकं देशः। वयम् अस्य पुत्राः स्मः। अतः वयं
परस्परं भ्रातरः। एकोऽस्माकं शासनम्। एकः राष्ट्रपतिः एकश्चैव प्रधानमन्त्री
संविधानमपि एकं येन शासनयन्त्रं चाल्येता, यदि देशोऽस्माकं समृद्धो भविष्यति तर्हि
सर्वे देशियाः समृद्धाः भविष्यन्ति। यदि अस्मद्देशः सम्मानं लप्स्यते तर्हि
निवासिनोऽत्रत्याः सम्मानिताः भविष्यन्ति।
1. वयं परस्परं के?
(क) मातरः
(ख) पितरः
(ग) भ्रातरः
(घ) मित्राणि
2. देशे सम्मानिते के सम्मानिताः भवन्ति?
(क) शब्दाः
(ख) निवासिनः
(ग) वैदेशिकाः
(घ) न कोऽपि
3. "अपमानिताः" अस्य विलोमपदम् अत्र
किं प्रयुक्तम् ?
(क) सम्मानिताः
(ख) समृद्धो
(ग) लप्स्यते
(घ) शासनयन्त्रम्
4. "लप्स्यते" अस्य कर्तृपदं किम्?
(क) वयम्
(ख) यूयम्
(ग) त्वम्
(घ) देशः
5. वयम् अस्य ----------स्मः।
(क) पुत्राः
(ख) भ्रातरः
(ग) पितरः
(घ) मित्राणि
पठित-अवबोधनम् - अनुप्रयुक्तव्याकरणम्
अधोलिखितं
गद्याशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।
एवंसमतिक्रामत्सुदिवसेषुराजाचन्द्रापीडस्पयौवराज्याभिषेकंचिकीर्षुःप्रतिहारानुपकरण-सम्भारसंग्रहार्थमादिदेश।समुपस्थितयौवराज्याभिषेकंचतंकदाचिद्दर्शनार्थमागतमारूढविनयमपिविनीततरमिच्छन्कर्तुं
शुकनासःसविस्तरमुवाच -" तात ! चन्द्रापीड ! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य
ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम्।
अपरिणामोपशमो दारुणो लक्ष्मीमदः।
6. यौवनप्रभवं मदः कीदृशं भवति?
(क) अतिसुन्दरम्
(ख) अतिगहनम्
(ग) अतिप्रियम्
(घ) सुसज्जितम्
7. राजा कस्य यौवराज्याभिषेकं कर्तुम् इच्छति
स्म?
(क)
तारापीडस्य
(ख)
शुकनासस्य
(ग)
वैशम्पायनस्य
(घ) चन्द्रापीडस्य
8. 'स्वभावतः' इति पदस्य कः पर्यायः अत्र प्रयुक्तः?
(क)
निसर्गतः
(ख)
राजा
(ग)
तातः
(घ)
प्रतिहारः
अधोलिखितं
पद्याशं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।
स्वायत्तमेकान्तगुणं
विधात्राविनिर्मितंछादनमज्ञतायाः।
विशेषतः
सर्वविदां समाजे विभूषणं मौनपण्डितानाम्॥
9. अपण्डितानां भूषणं किम् ?
(क) वाचालता
(ख)
अट्टहासम्
(ग)
मौनम्
(घ)
रोदनम्
10. विधात्रा कस्याः छादनं विनिर्मितम् ?
(क)
विदुषः
(ख)
वृक्षस्य
(ग)
शरीरस्य
(घ) अज्ञतायाः
11. "मूर्खता" इति पदस्य कः पर्यायः?
(क) अज्ञता
(ख)
विद्वान्
(ग)
बुद्धिमान्
(घ)
शक्तिमान्
अधोलिखितं संवादं पठित्वा विकल्पेभ्यः
उचितम् उत्तरं चिनुत।
छात्राः-
नमो नमः आचार्य! स्वागतम् अत्र भवतां कक्षायाम्।
योगाचार्यः-
छात्राः ! भवन्तः सम्प्रति समुत्सुकाः दृश्यन्ते। काऽपि विशिष्टा जिज्ञासा अस्ति किम्
?
सागरः
- भो आचार्य! वयं सर्वे योगस्य उपयोगितायाः विषये सम्यग्रूपेण ज्ञातुम्उत्सुकाः स्मः।
योगाचार्यः-
प्रियच्छात्राः ! किं भवन्तः जानन्ति यत् योगशास्त्रे शरीरस्य मनसः चनियमनं प्रतिपादितं
वर्तते। अस्य ज्ञानेन अभ्यासेन च भवन्तः स्वाध्यायेऽपिएकाग्रतां वर्धयितुं सक्षमाः
भविष्यन्ति।
12. सागरस्य कथनानुसारं छात्राः कस्य विषये ज्ञातुम् उत्सुकाः सन्ति?
(क)
धनस्य
(ख)
रोगस्य
(ग) योगस्य
(घ)
ज्ञानस्य
13. योगशास्त्रे कस्य नियमनं प्रतिपादितम् ?
(क)
सांख्यसूत्रस्य
(ख)
वेदान्तसूत्रस्य
(ग) योगसूत्रस्य
(घ)
ब्रह्मसूत्रस्य
14. एकाग्रतां वर्धयितुं सक्षमाः भविष्यन्ति अत्र रेखाङ्कितपदे
कः धातुः वर्तते?
(क) भूधातुः
(ख)
गम्-धातुः
(ग)
भक्ष-धातुः
(घ)
भाष्-धातुः
उचितविकल्पेन रिक्तस्थानानि
पूरयत।
15. ------ अभितः वनम् अस्ति।
(क)
ग्रामस्य
(ख) ग्रामम्
(ग)
ग्रामाद्
(घ)
ग्रामेण
16. ------ मोदकाय रोदिति।
(क) शिशुः
(ख)
शिशवे
(ग)
शिशुना
(घ)
शिशू
17. रामश्व रामश्च अस्य सामासिकपदं किम् ?
(क)
रामः
(ख)
रामाः
(ग)
रामेण
(घ) रामौ
18. कोऽपि ----
(क) कः + अपि
(ख)
क + अपि
(ग)
का + अपि
(घ)
कम् + अपि
19. 'नीत्वा' इति पदे कः प्रत्ययः
(क)
क्त-प्रत्ययः
(ख) क्त्वा-प्रत्ययः
(ग)
ल्यप्-प्रत्ययः
(घ)
क्तवतु-प्रत्ययः
20. पठ् + तुमुन्------
(क)
पठतु
(ख)
पठताम्
(ग) पठितुम्
(घ)
पठित्वा
रचनात्मक-कार्यम्,
संस्कृत-साहित्येतिहास-परिचयः
उत्तरार्थम्
उचितविकल्पं चिनुत।
21. 'रघुवंशम्' इति महाकाव्यं कस्य रचना
(क) कालिदासस्य
(ख) अश्वघोषस्य
(ग) बाणभट्टस्य
(घ) शूद्रकस्य
22. "बाणोच्छिष्टं जगत् सर्वं" इति
कस्य विषये प्रसिद्धः
(क) बाणभट्टस्य
(ख) भासस्य
(ग) कालिदासस्य
(घ) शूद्रकस्य
23. नाटकस्य सूत्रं धारयति, सः कः भवति ?
(क) विष्कम्भकः
(ख) नायकः
(ग) यवनिका
(घ) सूत्रधारः
24. "पञ्चतन्त्रम्" इति कस्य रचना?
(क) विष्णुशर्मणः
(ख) माघस्य
(ग) नारायणशर्मणः
(घ) अश्वघोषस्य
25. रूपकस्य
कति भेदाः सन्ति
(क) पञ्च
(ख) दश
(ग) नव
(घ) अष्ट
26. 'नलचम्पू' इत्यस्य उदाहरणम् अस्ति-
(क) गद्यकाव्यस्य
(ख) छन्दकाव्यस्य
(ग) नाटकस्य
(घ) चम्पूकाव्यस्य
27. नाटकस्य प्रारम्भः केन भवति
(क) नान्दीवाक्येन
(ख) भरतवाक्येन
(ग) सरलवाक्येन
(घ) भाषणेन
28. पितरं प्रति लिखितं पत्रं कीदृशं पत्रं
भवति ?
(क) सन्देशम्
(ख) अनौपचारिकम्
(ग) औपचारिकम्
(घ) संवादम्
29. माघे
सन्ति कति गुणाः?
(क) चत्वारः
(ख) त्रयः
(ग) पञ्च
(घ) षट्
30. 'ऋतुसंहारम्' इति कस्य रचना अस्ति?
(क) कालिदासस्य
(ख) माघस्य
(ग) बाणभट्टस्य
(घ) भासस्य
अपठितांश-अवबोधनम्/पठितांश-अवबोधनम् (अङ्कियाः प्रश्नाः 2)
निर्देशः-
अस्मिन् खण्डे अष्टप्रश्नाः सन्ति। केवलं षट्-प्रश्नानाम् उत्तराणि लिखन्तु।
अधोदत्तं
गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखन्तु।
जीवने धनस्य अत्यधिकं महत्त्वम् अस्ति। धनेन जीवननिर्वाहः
भवति। धनं विना वयं कथं भोजनम् अपि प्राप्तुं शक्नुमः ? परन्तु यदि लोभेन वयं अन्धाः
भूत्वा अधिकाधिक धनं प्राप्तुम् अनुचितसाधनानां प्रयोग कुर्मः तर्हि तेन धनेन दुःखमेव
भविष्यति । तस्य रक्षणे एवं समयो व्यतीतो भवति। कोऽपि तद् हरिष्यति इति चिन्ता प्रतिक्षणं
वर्धते। अभिमानः विवेक नाशयति । कुत्सितधनस्य प्रच्छादनाय महान् क्लेशो भवति। अतः वयम्
उचितसाधनैः एव धनार्जनं कुर्याम। कस्मै अपि ईर्ष्या न कुर्याम अपितु यथाशक्ति ये असहायाः
सन्ति तेषां साहाय्यं कुर्याम। त्यागेन एव धनस्य संरक्षणं भवति। त्यागपूर्वकम् उपभोगेन
एव वयं जीवने आनन्दं प्राप्तुं शक्नुमः। अन्यस्य धनं प्रति कदापि अस्माभिः लोभो नैव
कर्तव्यः।
31. पूर्णवाक्येन उत्तरत।
(क) जीवननिर्वाहः केन भवति?
उत्तर-
जीवननिर्वाहः धनेन भवति ।
(ख) अभिमानः कं नाशयति?
उत्तर-
अभिमानः विवेकं नाशयति ।
32. निर्देशानुसारेण उत्तरत।
(क) “वयं जीवने आनन्दं प्राप्तुं शक्नुमः"
अत्र क्रियापदं किम् अस्ति?
उत्तर-
'वयं जीवने आनन्दं प्राप्तुं शक्नुमः" अत्र क्रियापदं शक्नुमः अस्ति।
(ख) "तस्य रक्षणे एवं समयो व्यतीतो भवति" अत्र तस्य इति सर्वनामपदं
कस्मै प्रयुक्तम्?
उत्तर-
'तस्य रक्षणे एवं समयो व्यतीतो भवति' अत्र तस्य इति सर्वनामपदं धनाय प्रयुक्तम्।
अधोदत्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण
लिखन्तु।
यौवराज्याभिषेकं
च तं कदाचिद् दर्शनार्थमागत- मारूढविनयमपि विनीततरमिच्छन् कर्तुं शुकनासः सविस्तरमुवाच-ताता
चन्द्रापीड! विदितवेदितव्यस्याधीतसर्व शास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं
च निसर्गत एवातिगहनं तमो यौवनप्रभवम। अपरिणामोपशमो दारुणो लक्ष्मीमदः। अप्रबोधा घोरा
च राज्यसुखसन्निपातनिद्रा भवति, इत्यतः विस्तरेणाभिधीयसे। गर्भेश्वरत्वमभिनवयौवनत्वम्,
अप्रतिमरूपत्वममानुषशक्तित्वञ्श्चेति महतीयं खल्वनर्थ - परम्परा।
33. पूर्णवाक्येन उत्तरत।
(क) चन्द्रापीडं कः उपदिशति?
उत्तर-
चन्द्रापीडंशुकनासः उपदिशति।
(ख) लक्ष्मीमदः कीदृशः भवति?
उत्तर-
लक्ष्मीमदः अपरिणामोपशमो दारुणः भवति।
34. निर्देशानुसारेण उत्तरत।
(क) अनर्थपरम्पराः कति भवन्ति?
उत्तर- अनर्थपरम्पराः चत्वारः भवन्ति।
(ख) यौवनप्रभवं मदः कीदृशं भवति ?
उत्तर-
यौवनप्रभवं मदः अतिगहनं भवति।
अधोदत्तं पद्यांशं पठित्वा
प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखन्तु।
सुखदुःखसमे
कृत्वा लाभालाभौ जयाजयौ।
ततो
युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥
35. पूर्णवाक्येन उत्तरत।
(क) श्रीकृष्णः कं युद्धाय प्रेरयति?
उत्तर-
श्रीकृष्णः अर्जुनं युद्धाय प्रेरयति।
(ख) युद्धकारणात् किं न प्राप्स्यति ?
उत्तर-
युद्धकारणात् पापं न प्राप्स्यति।
36. निर्देशानुसारेण उत्तरत।
(क) "युज्यस्व" इति क्रियापदस्य कर्तृपदं किम्?
उत्तर-
'युज्यस्व" इति क्रियापदस्य कर्तृपदं त्वम्।
(ख) 'सुखम्' इति पदस्य अत्र विलोमपदं किम्?
उत्तर-
'सुखम्' इति पदस्य अत्र विलोमपदं दुःखम्।
(ग) "पराजयः" इत्यर्थे अत्र कः पर्यायः?
उत्तर-
'पराजयः' इत्यर्थे अत्र अजयः पर्यायः अस्ति।
(घ) ततो -------- युज्यस्व ।
उत्तर-
ततो युद्धाय युज्यस्व।
अधोदत्तं नाट्यांशं पठित्वा
प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखन्तु।
कौसल्या
- जात ! अस्ति ते माता ? स्मरसि वा तातम् ?
लवः
- नहि।
कौसल्या
- ततः कस्य त्वम् ?
लवः
वाल्मीकेः। भगवतः सुगृहीतनामधेयस्य
कौसल्या
- अयि जात! कथयितव्यं कथय। लवः - एतावदेव जानामि ।
(प्रविश्य
सम्भ्रान्ताः)
बटवः
कुमार ! कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः
स्वयं प्रत्यक्षीकृतः ।
लवः
- 'अश्वोऽश्व' इति नाम पशुसमाम्नाये संग्रामिके च पठ्यते, तद् ब्रूत-कीदृशः?
37. पूर्णवाक्येन उत्तरत।
(क) अश्वः कस्मिन् समाम्नाये पठ्यते?
उत्तर-
अश्वः पशुसमाम्न्नाये पठ्यते।
(ख) बटवः स्वयं किं प्रत्यक्षीकृतः?
उत्तर-
बटवः स्वयं अश्वः प्रत्यक्षीकृतः ।
38. 'पठ्यते' इत्यत्र कः धातुः?
उत्तर-
पठ्यते इत्यत्र पठ् धातुः ।
पठितांशव्याकरणम्-अनुप्रयुक्त-अवबोधनम् (3 अङ्कियाः प्रश्नाः)
निर्देशः- अस्मिन् खण्डे अष्टप्रश्नाः
सन्ति। केवलं षट्प्रश्नानाम् उत्तराणि लिखन्तु।
39. अधोलिखितश्लोकस्य अन्वयं पूर्णं कुरुत।
"अन्धतमः
प्रविशन्ति येऽविद्यामुपासते।
ततो
भूय इव ते तमो य उ विद्यायां रताः"।
अन्वयः-
ये --- अविद्याम् ---- उपासते ते -- अन्धतमः -----प्रविशन्ति।
ये
उ --- विद्यायां ----रताः ते ततो भूयः तमः इव प्रविशन्ति॥
40. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) अपण्डितानां विभूषणं मौनम्।
उत्तर-
अपण्डितानां विभूषणंकिम् ?
(ख) सहसा क्रियां न
विदधीत ।
उत्तर-
सहसा कां न विदधीत?
(ग) पापात् सन्मित्रं
निवारयति ।
उत्तर-
पापात् किं निवारयति?
41. श्लोकांशमेलनं कुरुत।
(क)
तेन त्यक्तेन भुञ्जीथा |
(A)
मा फलेषु कदाचन |
(ख)
कर्मण्येवाधिकारस्ते |
(B)
द्वयं विद्वानपेक्षते |
(ग)
शब्दार्थों सत्कविरिव |
(C)
मा गृधः कस्यस्विद्धनम् |
उत्तर-
(क)- (C), (ख)- (A), (ग) – (B)
42. कोष्ठकेषु प्रदत्तपदेषु उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।
(क)
सः ---- मुखेन --- खादति। (मुख)
(ख)
राजा ---- विप्राय --- गां ददाति । (विप्र)
(ग)
शिशुः -- मोदकाय ----- रोदिति। (मोदक)
43. वाक्यनिर्माणं कुरुत।
(क)
वेदाः- चत्वारः वेदाः सन्ति।
(ख)
गर्वः- कदापि गर्वः न करणीयः।
(ग)
योगः- योगः कर्मसु कौशलम्।
44. विलोमपदानि लिखत।
(क)
मूर्खः- चतुरः।
(ख)
निकृष्टः- उत्कृष्टः।
(ग)
एकम- अनेकम् ।
45. सन्धि/विच्छेदं कुरुत।
(क)
सोऽपि - सः+अपि
(ख)
तेन + एव - तेनैव
(ग)
न+ आलम्बते- नालम्बते
46. अधोलिखितविग्रहपदानां समस्तपदानि रचयत।
(क)
माता च पिता च- पितरौ
(ख)
विश्वासस्य पात्रम् - विश्वासपात्रम्
(ग)
राज्ञः समीपम् - राजसमीपम्
रचनात्मकःपरिचयः, साहित्येतिहास-संस्कृत-कार्यम् (5 अङ्कियाः
प्रश्नाः)
निर्देशः- अस्मिन् खण्डे षट्प्रश्नाः
सन्ति। केवलं चतुर्णां प्रश्नानाम् उत्तराणि लिखन्तु।
47. भवान् शैक्षिकयात्रायै गन्तुम् इच्छति, अतः धनप्रेषणार्थं पितरं
प्रति एकं प्रार्थनापत्रं लिखत।
उत्तर-
छात्रावासः,
पाकुड
तिथिः-२१/०२/२५
परमादरणीयाः
पितृमहाभागाः
सादरंप्रणमामि,
सविनयंनिवेदयामियत्ममत्रैमासिकीपरीक्षासमाप्तागता।ममउत्तरपत्राणिशोभनानिअभवन्।
अस्मिन्शरदवकाशेगृहंनआ गमिष्यामि, यतः विद्यालयेन एका शैक्षिकयात्रा कृता। एषा अजन्ता
एलौरागुहादर्शनाय आयोजिता अस्ति। यात्राव्ययार्थं पञ्चशतं रूप्यकाणि प्रेषयन्तु भवन्तः।
शेषं सर्वं कुशलम्। मम जनन्यैअग्रजायचसादरंप्रणामाः।
भवदीयः प्रियपुत्रः
लक्ष्मणः
48. मञ्जुषा-प्रदत्त-शब्दसूचीसाहाय्येन लघुकथायां रिक्तस्थानानि पूरयित्वा
पुनः लिखत।
सुदामा
(i) --- श्रीकृष्णस्य ----मित्रम् आसीत्। सः सर्वप्रथमं
(ii) -- गुरुकुले ----- सह (iii) --- अमिलत् ----। एतौ मिलित्वा गुरोः समीपम् एकादश (iv)
--- वर्षाणि---- कालक्रमेण वासुदेवः द्वारिकायाः
नृपः अभवत्। सुदामा तु (v)---- दरिद्रः ---- एव
आसीत्। सः श्रीकृष्णदर्शनाय (vi) -- द्वारिकाम्
--- अगच्छत्। द्वाररक्षकाः तं राजसभां अनयन्। बाल्यबन्धुः वासुदेवः तस्य (vii)-- आलिङ्गनम् ----अकरोत्। श्रीकृष्णः सुदाम्नः (viii)
---- भार्यया -- प्रदत्तान् तण्डुलान् अखादत्।
दारिद्रयस्य (ix)--- निवारणाय ---- श्रीकृष्णः
तस्मै ऐश्वर्यम् (x)-- अयच्छत् -----।
(मञ्जूषा-
अयच्छत्, दरिद्रः, अमिलत्, श्रीकृष्णस्य, द्वारिकाम्, भार्यया, निवारणाय, आलिङ्गनम्,
गुरुकुले, वर्षाणि)
49. मञ्जुषातः उचितपदानि गृहीत्वा अधोलिखितानि वाक्यानि पूरयत।
(मञ्जुषा-
यमाः, आसनम्, धारणा, प्राणायामः, समाधिः)
(क)
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः --- यमाः
-------।
(ख)
स्थिरसुखम् ----- आसनम् -----।
(ग)
देशबन्धश्चित्तस्य ----- धारणा -----।
(घ)
तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः ---- प्राणायामः
------।
(ङ)
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव---- समाधिः
------।
50. रामायणम् अथवा महाभारतविषये पञ्चवाक्यानि लिखत।
उत्तर-
* रामायणम्
क. रामायणंमहर्षिणावाल्मीकिनारचितम् अस्ति ।
ख. रामायणेश्रीरामस्यचरित्रंवर्णितंविद्यते ।
ग. अयंग्रन्थः सप्तकाण्डेषुविभक्तःअस्ति।
घ. अस्मिन्ग्रन्थेमानवजीवनस्यविभिन्नपक्षस्यचित्रंवर्तते।
ङ. रामायणेकरूणरसः वर्तते ।
*
महाभारतम्
क. महाभारतं हिन्दूनाम् एकं महत्वपूर्ण काव्यग्रन्थम् अस्ति।
ख. अस्य रचनाकारः महर्षिवेदव्यासः अस्ति।
ग.अस्मिन् ग्रन्थे श्लोकानां संख्या एकलक्ष्याधिका अस्ति।
घ. कौरवानां पाण्डवानां च मध्ये युद्धम् अभवत्।
ङ. यत्रपाण्डवानांविजयः अभवत्।
51. संस्कृतानुवादं कुर्वन्तु। (केवलं पञ्चानाम्)
(क)
राम विद्यालय जाता है।
उत्तर-
रामः विद्यालयंगच्छति।
(ख)
मैं पुस्तक पहुँगा।
उत्तर-
अहं पुस्तकं पठिष्यामि।
(ग)
गुरु के समीप शिष्य है।
उत्तर-
गुरुं समया शिष्यः अस्ति।
(घ)
हरि के विना सुख नहीं है।
उत्तर-
अन्तरेणहरिंनसुखम्।
(ङ)
वह मुख से खाता है।
उत्तर-
सः मुखेन खादति।
(च)
गुरुजी को नमस्कार।
उत्तर-
गुरवेनमः।
52. अधोलिखितरचनानां लेखकानां नामानि लिखत (केवलं पञ्चानाम्)
(क) शिशुपालवधम् - माघः
(ख) क्रिरातार्जुनीयम् - भारविः
(ग) नीतिशतकम् - भर्तृहरिः
(घ) कादम्बरी - बाणभट्टः
(ङ) मृच्छकटिकम् - शूद्रकः
(च) उत्तररामचरितम् - भवभूतिः