प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
Class - 12
Sanskrit
पञ्चमः पाठः - शुकनासोपदेशः
1. एकपदेन उत्तरत-
(क) शुकनासः कम् उपदिशति?
उत्तर-
चन्द्रापीडम्
(ख) शुकनासः कस्य अमात्यः आसीत् ?
उत्तर-
तारापीडस्य
(ग) चन्द्रापीडः कस्य पुत्रः आसीत्?
उत्तर-
तारापीडस्य
(घ) 'शुकनासोपदेश:' पाठः कस्मात् ग्रंथात् संकलित: ?
उत्तर-
कादम्बर्याः
(ङ)'शुकनासोपदेशः कस्य रचना ?
उत्तर-
बाणभट्टस्य
(च) शुकनासः चन्द्रापीडम् कदा उपदिशति?
उत्तर-
राज्याभिषेकपूर्वम्
(छ) अजलं स्नानम् किम् ?
उत्तर-
गुरूपदेशम्
(ज) शुकनासानुसारेण अनर्थपरम्परायाः कति कारणानि भवन्ति?
उत्तर-
चत्वारि
2. पूर्णवाक्येन उत्तरं दीयताम् -
(क) लक्ष्मीमदः कीदृश: ?
उत्तर-
लक्ष्मीमदः अपरिणामोपसमो दारुणो भवति ।
(ख) चन्द्रापीडं कः उपदिशति?
उत्तर-
चन्द्रापीडं शुकनासः उपदिशति ।
(ग) अनर्थपरम्परायाः किं कारणम् ?
उत्तर-
अनर्थपरम्परायाः कारणम्- गर्भेश्वरत्वम्, अभिनवयौवनत्वम्,अप्रति मरूपत्वम्, अमानुषशक्तित्वम्
च।
(घ) कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ?
उत्तर-
अपगतमले मनसि उपदेशगुणाः प्रविशन्ति ।
(ङ) लब्धापि दुःखेन का परिपाल्यते?
उत्तर-
लब्धापि दुःखेन लक्ष्मी: परिपाल्यते।
(च) केषाम् उपदेष्टारः विरलाः सन्ति ?
उत्तर-
राज्ञाम् उपदेष्टारः विरलाः सन्ति ।
(छ) लक्ष्म्या परिगृहीताः राजानः कीदृशाः भवन्ति?
उत्तर-
लक्ष्म्या परिगृहीताः राजानः विक्लवाः (दुःखिताः) भवन्ति ।
(ज) वृद्धोपदेशं ते राजानः किमिति पश्यन्ति?
उत्तर-
वृद्धोपदेशं ते राजान: जरा वैक्लव्यप्रलपितम् इति पश्यन्ति ।
(झ) चन्द्रापीडस्य पिता कः आसीत् ?
उत्तर-
चन्द्रापीडस्य पिता तारापीडः आसीत् ।
(ञ) कस्मिन् भावे चन्द्रापीडं शुकनास: उपदिशति ?
उत्तर-
वात्सल्यभावे चन्द्रापीडं शुकनासः उपदिशति
3. विशेषणानि विशेष्यैः सह योजयत-
विशेषणम् विशेष्यम्
(क)
समतिक्रामत्सु ते
(ख)
अधीतशास्त्रस्य विद्वांसम्
(ग)
दारुणो दिवसेषु
(घ)
गहनं तमः दोषजातम्
(ङ)
अतिमलिनम् लक्ष्मीमदः
(च)
सचेतसम् यौवनप्रभवम्
उत्तराणि-
(क)
समतिक्रामत्सु दिवसेषु
(ख)
अधीतशास्त्रस्य ते
(ग)
दारुणो लक्ष्मीमदः
(घ)
गहनं तमः यौवनप्रभवम्
(ङ)
अतिमलिनम् दोषजातम्
(च)
सचेतसम् विद्वांसम्
4. अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत-
(क)
एवातिगहनम् एव+ अतिगहनम्
(ख)
गर्भेश्वरत्वम् गर्भ + ईश्वरत्वम्
(ग)
गुरूपदेश: गुरु + उपदेश:
(घ)
ह्येवम् हि + एवम्
(ङ)
नाभिजनम् न+ अभिजनम्
(च)
नोपसर्पति न+ उपसर्पति
(छ)
यथेयम् यथा+इयम्
(ज)
पुनरपिधीयसे पुनः + अपिधीयसे
(झ)
दुःस्वप्नमिव दुःस्वप्नम् + इव
(ञ)
ताभिरूपदेशवाग्भिः ताभिः+उपदेशवाग्भिः
(ट)
वृद्धोपदेशम् वृद्ध+उपदेशम्
5. समासविग्रहं कुरुत-
(क)
अमानुषशक्तित्वम् - न मानुषः तस्य शक्तित्वम्
(ख)
अत्यासङ्गः - आसङ्गम् अतिक्रान्तः
(ग)
अनार्या - न आर्या
(घ)
स्वार्थनिष्पादनपरैः - स्वार्थस्य निष्पादने परैः
(ङ)
अहर्निशम् - अहश्च निशा च
(च)
वृद्धोपदेशम् - वृद्धानाम् उपदेशम्
6. रिक्तस्थानानि पूरयत-
(क) लक्ष्मी.... न रक्षति ।
उत्तर
-लक्ष्मी_परिचयं_न रक्षति।
(ख) --- दुःस्वप्नमिव न स्मरति ।
उत्तर
- दातारं दुःस्वप्नमिव न स्मरति ।
(ग) सरस्वतीपरिगृहीतं.............।
उत्तर
- सरस्वतीपरिगृहीतं,नालिङ्गतिजनम् ...।
(घ) उपदिश्यमानमपि---- न शृणवन्ति ।
उत्तर
- उपदिश्यमानमपि ते न शृणवन्ति ।
(ङ) अवधीरयन्तः ….. हितोपदेशदायिनो गुरून् ।
उत्तर
- अवधीरयन्तःखेदयन्ति हितोपदेशदायिनो गुरून् ।
(च) तथा प्रयतेथाः......नोपहस्यसे जनैः ।
उत्तर
- तथा प्रयतेथा यथा नोपहस्यसे जनैः ।
(छ) चन्द्रापीडः प्रीतहृदयो ----आजगाम् ।
उत्तर
- चन्द्रापीडः प्रीतहृदयो स्वभवनम् आजगाम्।
7. गद्यांशं पठित्वा विकल्पेभ्यः समीचिनोत्तरं चिनुत-
गद्यांश - 1
भवादृशा
एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि विशन्ति सुखेनोपदेशगुणा:। हरति अतिमलिनमपि
दोषजातं गुरुपदेश: गुरूपदेशश्च नाम अखिलमप्रक्षालनम् अजलं नानम्। विशेषेण तु राज्ञाम्
। विरला हि तेषामुपदेष्टारः । राजवेचनमनुगच्छति जनो भयात् ।
(क) गुरूपदेशः कीदृशं दोषजातं हरति?
(i)
अतिमलिनम्
(ii)
पितृदोषम्
(iii)
हत्यादोषम्
(iv)
पुनरुक्तिदोषम्
(ख) जनः केन भावेन राजवचनमनुगच्छति ?
(i)
सद्भावेन
(ii)
दुर्भावन
(iii)
भयेन / भयात्
(iv)
तापेश
(ग) अजलं स्नानम् किम्?
(i)
गंगा स्नानम्
(ii)
सममनानम्
(iii)
समुद्रस्नानम्
(iv)
गुरूपदेश:
(घ) दुःखेन इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(i)
अपगतमले
(ii)
सुखेन
(iii)
गुरूपदेश:
(iv)
राज्ञाम्
(ङ) हरति इति क्रियापदस्य कर्तृपदं किम् ?
(i)
राज्ञाम्
(ii)
गुरूपदेशः
(iii)
भवादृशा
(iv)
विरला
(च) पात्राणि इति पदस्य किं समानार्थकम् अत्र प्रयुक्तम्?
(i)
गुरुपदेश:
(ii)
भवादृशा
(iii)
राज्ञाम्
(iv)
भाजनानि
उत्तराणि
(क)
(i) अतिमलिनम्
(ख)
(iii) भयेन / भयात्
(ग)
(iv) गुरूपदेश:
(घ)
(ii) सुखेन
(ङ)
(ii) गुरुपदेश:
(च)
(iv) भाजनानि
गद्यांश-2
एवं
समतिक्रामत्सु दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतिहारानुपकरण-
सम्भारसंङ्ग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकं च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि
विनीततरमिच्छन् केर्तुं शुकनासः सविस्तरमुवाच-” तात! चन्द्रापीड! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य
ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो
दारुणो लक्ष्मीमदः ।
(क) यौवनप्रभवम् मदः कीदृशं भवति ?
(i)
अतिसुंदरम्
(ii)
अतिगहनम्
(iii)
अतिप्रियम्
(iv)
सुसज्जितः
(ख) राजा कस्य यौवराज्याभिषेकं कर्तुम् इच्छति स्म?
(i)
तारापीडस्य
(ii)
शुकनासस्य
(iii)
वैशम्पायनस्य
(iv)
चन्द्रापीडस्य
(ग) चन्द्रापीडः कस्य समीपे दर्शनार्थं गच्छति?
(i)
तारापीडस्य
(ii)
वैशम्पायनस्य
(iii)
शुकनासस्य
(iv)
प्रतिहारस्य
(घ) दारुणः इति पदं कस्य विशेषणम् ?
(i)
तारापीडस्य
(ii)
लक्ष्मीमदः
(iii)
तारापीडस्य
(iv)
चन्द्रापीडस्य
(ङ) स्वभावतः इति पदस्य कः पर्यायः अत्र प्रयुक्तः ?
(i)
निसर्गतः
(ii)
राजा
(iIi)
तात
(iv)
प्रतिहार:
उत्तराणि
(ii)
अतिगहनम्
(iv)
चन्द्रापीडस्य
(iii)
शुकनासस्य
(ii)
लक्ष्मीमदः
(i) निसर्गतः
JCERT/JAC प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book)
विषयानुक्रमणिका
क्रम. | पाठ का नाम |
प्रथमः पाठः | |
द्वितीयः पाठः | |
तृतीयः पाठः | |
चतुर्थः पाठः | |
पंचमः पाठः | |
षष्ठः पाठः | |
सप्तमः पाठः | |
अष्टमः पाठः | |
नवमः पाठः | |
दशमः पाठः | |
एकादशः पाठः | |
द्वादशः पाठः | |
त्रयोदशः पाठः | |
चतुर्दशः पाठः | |