General School PROJECT RAIL (05.05.2026)
CLASS-12 विषय - संस्कृत (ELECTIVE)
खण्ड - क (वस्तुनिष्ठ प्रश्न: 6x1 = 6)
प्रश्न 1. विद्यया अमृतमश्नुते' इति पाठः
कस्मात् उपनिषदः संकलितः अस्ति?
(क) कठोपनिषद
(ख) केनोपनिषद्
(ग) ईशावास्योपनिषद्
(घ) श्वेताश्वतरोपनिषद्
प्रश्न 2. 'अमृतमश्नुते' इत्यस्य कः अर्थः
अस्ति?
(क) अमरत्वप्राप्तिः
(ख) अमृतप्राप्तिः
(ग) अज्ञाननाशः
(घ) मृत्युविजयः
प्रश्न 3. विद्यायाः अविद्यायाः च समन्वितं
ज्ञानं कमुत्तीर्य प्राप्यते?
(क) मृत्युम्
(ख) संसारम्
(ग) धर्मम्
(घ) मायाम्
प्रश्न 4. यदि कश्चित् केवलम् अविद्यायां
(लौकिकज्ञाने) एव मग्नः भवति, तर्हि सः किं प्राप्नोति ?
(क) मोक्षम्
(ख) अन्धकारम् (अविद्याम्)
(ग) ज्ञानम्
(घ) अमृतम्
प्रश्न 5. 'ईशावास्यमिदं सर्वम्' इत्यस्य कः
तात्पर्यः अस्ति?
(क) इदं जगत् ईश्वरेण व्याप्तम् अस्ति।
(ख) इदं जगत् नश्वरम् अस्ति।
(ग) इदं जगत् माया अस्ति।
(घ) ईश्वरः कुत्रापि न विद्यते ।
प्रश्न 6. विद्यायाः अविद्यायाः च समन्वयः
किमर्थम् आवश्यकः?
(क) केवलं सांसारिक उन्नत्यै।
(ख) केवलम् आध्यात्मिक उन्नत्यै।
(ग) लौकिकजीवनस्य सार्थकतायै आत्मज्ञानाय च।
(घ) केवलं धनप्राप्त्यै ।
खण्ड - ख (लघुत्तरीयप्रश्नाः) (4×2)
प्रश्न 7. विद्यायाः अविद्यायाः च कः अर्थः
अस्ति?
उत्तरम्- अविद्या इति लौकिकं ज्ञानं कर्मकाण्डं वा अस्ति, येन
मनुष्यः सांसारिकजीवनं यापयति। विद्या इति आत्मज्ञानं ब्रह्मज्ञानं वा अस्ति, येन मनुष्यः
मोक्षं अमरत्वं च प्राप्नोति ।
प्रश्न 8. अस्मिन् पाठे 'मृत्युः' कथं तरितुं
शक्यते?
उत्तरम् - विद्यायाः अविद्यायाः च उचितसमन्वयेन एव मनुष्यः
मृत्युं तीर्खा अमृतत्वं प्राप्नोति ।
प्रश्न 9. 'अन्धं तमः प्रविशन्ति' इत्यस्य कः
अभिप्रायः अस्ति?
उत्तरम्- ये केवलं अविद्यायाम् (भौतिकसुखेषु) एव मग्नाः
सन्ति, ते घोरम् अज्ञानरूपम् अन्धकारं प्रविशन्ति । ते आत्मज्ञानस्य महत्त्वं न
जानन्ति ।
प्रश्न 10. 'कुर्वन्' इत्यस्मिन् कः धातु कः
च प्रत्ययः?
उत्तरम् - 'कुर्वन्' इत्यस्मिन् पदे 'कृ'धातुः, 'शतृ'
प्रत्ययः।
खण्ड - ग (दीर्घोत्तरीयप्रश्नाः) (2×3)
प्रश्न 11. 'विद्यया अमृतमश्नुते' इति पाठस्य
सारं स्वशब्दैः लिखत।
उत्तरम्- अस्य पाठस्य सारः अस्ति यत् मनुष्यजीवने भौतिकविकासस्य
(अविद्या) तथा आध्यात्मिकज्ञानस्य (विद्या) द्वयोः आवश्यकता वर्तते। यः मनुष्यः
उभयोः समन्वयम् साधयति, स एव मृत्युं तीर्खा अमरत्वं (मोक्ष) लभते । केवलं भौतिकता
वा केवलम् अध्यात्मं पूर्णं न भवति।
प्रश्न 12. विद्यायाः अविद्यायाः च समन्वयस्य
जीवने किं महत्त्वम् अस्ति ? स्पष्टीकुरुत ।
उत्तरम्- जीवने विद्या-अविद्ययोः समन्वयस्य महत्त्वम् अत्यधिकम् अस्ति। अविद्या अस्मान् सांसारिककर्तव्यपालने साहाय्यं करोति, विद्या च अस्मान् आत्मज्ञानेन मोक्षस्य मार्गं दर्शयति। तयोः समन्वयेन एव मनुष्यः ऐहिकं सुखं पारलौकिकं कल्याणं च युगपत् प्राप्नोति । अतः जीवनस्य पूर्णतायै तयोः सन्तुलनम् अनिवार्यम्।
PROJECT RAIL (JCERT) Weekly Test Answer Key 2024-25
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 11.01.25
Model Question Solution 
PROJECT RAIL (JCERT) Weekly Test Answer Key 2023-24
Useful Link
Class 9th & 10th | |
Class 11th & 12th | |
University Economics | |
11th & 12th Model Question Solution | |
Hindu Mythological Secrets | |
Quiz | |
JAC Exam. Question & Solution | |
Department Letter, Exam. & NEWS | |
TGT-PGT-JPSC | |
Department Letter, Exam. & NEWS. | |
JAC BOARD NEWS | |
Online Test | |
YouTube |

