General School PROJECT RAIL (05.05.2026)
CLASS-12 विषय - संस्कृत (ELECTIVE)
खण्ड - क (वस्तुनिष्ठ प्रश्न: 6x1 = 6)
प्रश्न 1. विद्यया अमृतमश्नुते' इति पाठः
कस्मात् उपनिषदः संकलितः अस्ति?
(क) कठोपनिषद
(ख) केनोपनिषद्
(ग) ईशावास्योपनिषद्
(घ) श्वेताश्वतरोपनिषद्
प्रश्न 2. 'अमृतमश्नुते' इत्यस्य कः अर्थः
अस्ति?
(क) अमरत्वप्राप्तिः
(ख) अमृतप्राप्तिः
(ग) अज्ञाननाशः
(घ) मृत्युविजयः
प्रश्न 3. विद्यायाः अविद्यायाः च समन्वितं
ज्ञानं कमुत्तीर्य प्राप्यते?
(क) मृत्युम्
(ख) संसारम्
(ग) धर्मम्
(घ) मायाम्
प्रश्न 4. यदि कश्चित् केवलम् अविद्यायां
(लौकिकज्ञाने) एव मग्नः भवति, तर्हि सः किं प्राप्नोति ?
(क) मोक्षम्
(ख) अन्धकारम् (अविद्याम्)
(ग) ज्ञानम्
(घ) अमृतम्
प्रश्न 5. 'ईशावास्यमिदं सर्वम्' इत्यस्य कः
तात्पर्यः अस्ति?
(क) इदं जगत् ईश्वरेण व्याप्तम् अस्ति।
(ख) इदं जगत् नश्वरम् अस्ति।
(ग) इदं जगत् माया अस्ति।
(घ) ईश्वरः कुत्रापि न विद्यते ।
प्रश्न 6. विद्यायाः अविद्यायाः च समन्वयः
किमर्थम् आवश्यकः?
(क) केवलं सांसारिक उन्नत्यै।
(ख) केवलम् आध्यात्मिक उन्नत्यै।
(ग) लौकिकजीवनस्य सार्थकतायै आत्मज्ञानाय च।
(घ) केवलं धनप्राप्त्यै ।
खण्ड - ख (लघुत्तरीयप्रश्नाः) (4×2)
प्रश्न 7. विद्यायाः अविद्यायाः च कः अर्थः
अस्ति?
उत्तरम्- अविद्या इति लौकिकं ज्ञानं कर्मकाण्डं वा अस्ति, येन
मनुष्यः सांसारिकजीवनं यापयति। विद्या इति आत्मज्ञानं ब्रह्मज्ञानं वा अस्ति, येन मनुष्यः
मोक्षं अमरत्वं च प्राप्नोति ।
प्रश्न 8. अस्मिन् पाठे 'मृत्युः' कथं तरितुं
शक्यते?
उत्तरम् - विद्यायाः अविद्यायाः च उचितसमन्वयेन एव मनुष्यः
मृत्युं तीर्खा अमृतत्वं प्राप्नोति ।
प्रश्न 9. 'अन्धं तमः प्रविशन्ति' इत्यस्य कः
अभिप्रायः अस्ति?
उत्तरम्- ये केवलं अविद्यायाम् (भौतिकसुखेषु) एव मग्नाः
सन्ति, ते घोरम् अज्ञानरूपम् अन्धकारं प्रविशन्ति । ते आत्मज्ञानस्य महत्त्वं न
जानन्ति ।
प्रश्न 10. 'कुर्वन्' इत्यस्मिन् कः धातु कः
च प्रत्ययः?
उत्तरम् - 'कुर्वन्' इत्यस्मिन् पदे 'कृ'धातुः, 'शतृ'
प्रत्ययः।
खण्ड - ग (दीर्घोत्तरीयप्रश्नाः) (2×3)
प्रश्न 11. 'विद्यया अमृतमश्नुते' इति पाठस्य
सारं स्वशब्दैः लिखत।
उत्तरम्- अस्य पाठस्य सारः अस्ति यत् मनुष्यजीवने भौतिकविकासस्य
(अविद्या) तथा आध्यात्मिकज्ञानस्य (विद्या) द्वयोः आवश्यकता वर्तते। यः मनुष्यः
उभयोः समन्वयम् साधयति, स एव मृत्युं तीर्खा अमरत्वं (मोक्ष) लभते । केवलं भौतिकता
वा केवलम् अध्यात्मं पूर्णं न भवति।
प्रश्न 12. विद्यायाः अविद्यायाः च समन्वयस्य
जीवने किं महत्त्वम् अस्ति ? स्पष्टीकुरुत ।
उत्तरम्- जीवने विद्या-अविद्ययोः समन्वयस्य महत्त्वम् अत्यधिकम् अस्ति। अविद्या अस्मान् सांसारिककर्तव्यपालने साहाय्यं करोति, विद्या च अस्मान् आत्मज्ञानेन मोक्षस्य मार्गं दर्शयति। तयोः समन्वयेन एव मनुष्यः ऐहिकं सुखं पारलौकिकं कल्याणं च युगपत् प्राप्नोति । अतः जीवनस्य पूर्णतायै तयोः सन्तुलनम् अनिवार्यम्।
16.06.2026
खंड-अ (6x1=6) (वस्तुनिष्ठप्रश्नाः)
1. कौत्सः कस्य शिष्यः आसीत्?
(क) वरतन्तोः
(स)
जनकस्य
(ग)
राघोः
(घ)
दिलीपस्य
2. उत्तररामचरितम् इति नाटकस्य रचयिता का?
(क)
वाल्मीकि
(ख)
वाणभट्टः
(ग)
विष्णुदत्तः
(घ) भवभूतिः
3. चातकोऽपि कं न याचते?
(क) शरदधनम्
(ख)
जलम्
(ग)
वनम्
(घ)
सलिलम्
4. गम् + त्वा अस्य संयोजन कृत्वा लिखत ।
(क)
गच्छित्वा
(ख)
गमित्वा
(ग) गत्वा
(घ)
गच्छत्वा
5. महोदयः अस्य संधिविच्छेदं कुरुत -
(क) महा + उदयः
(ख)
मह + उदयः
(ग)
महो + दया
(घ)
महान + उदरद
6. भारतीय जनता शिक्षिता अस्ति ।
(क)
जन + ता
(ख) जन + तल्
(ग)
जनत् + आ
(घ)
जन् + अता
खंड-ब (4x2=8) (लघुउत्तरीयप्रश्नाः)
7. कौत्सस्य गुरुः गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
उत्तर
- चतुर्दशकोटिः धनम् ।
8. रघुः कस्मात् परिवादात् भीतः आसीत्?
उत्तर
- रघुः लोकपरिवादात् (जनापवादात्) भीतः आसीत्।
9. नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति?
उत्तर
– जनकः कथयति— "किमेतत्? नेपथ्ये कोलाहलः श्रूयते।"
10. राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते?
उत्तर-
शिशोः अपि दृष्टतां वाचं न सहन्ते ।
खंड- स (2x3=6) (दीर्घउत्तरीयप्रश्नाः)
11. बटवः अश्वं कथं वर्णयन्ति?
उत्तर-
बटवः अश्वं वर्णयन्ति पश्चात्पुच्छं वहति तत् च अजस्रं धुनोति सः दीर्घग्रीवः अस्ति
चत्वारः खुराः सन्ति शष्पाणि अत्ति शकृत् पिण्डकान् आम्रमात्रान् प्रकिरति ।
12. लवः कथं जानाति यत् अयम् आश्वमेधिकः अश्वः?
उत्तर-
अश्वस्य रक्षकान् दृष्ट्वा लवः जानाति यत् अयम् आश्वमेधिकः अश्वः ।
07.07.2026
खण्ड 'क' बहुविकल्पीयप्रश्नः (6 ×1 = 6)
(1) कर्मगौरवम् पाठः कस्मात् ग्रंथात्
संकलितः?
(क) श्रीमद्भगवद्गीता
(ख) रामायणात्
(ग) महाभारतात्
(घ) पुराणात्
(2) 'कर्मण्येवाधिकारस्ते' इति श्लोकांशे
कस्य अधिकारस्य चर्चा अस्ति?
(क) फलस्य
(ख) कर्मणः
(ग) धनस्य
(घ) योगस्य
(3) 'फलेषु' इति पदे का विभक्ति?
(क)
प्रथमा
(ख) सप्तमी
(ग)
द्वितीया
(घ)
पञ्चमी
(4) 'कादम्बरी' कस्य कृतिः अस्ति?
(क)
कालिदासस्य
(ख)
माघस्य
(ग) बाणभट्टस्य
(घ)
भारवेः
(5) शुकनासः कः आसीत्?
(क) राजा तारापीडस्य मंत्री
(ख)
चन्द्रापीडस्य सखा
(ग)
कश्चित् मुनिः
(घ)
उज्जयिन्याः द्वारपालः
(6) इदम् + एव =
(क) इदमेव
(ख)
इदम्
(ग)
इदेव
(घ)
इद्येवा
खण्ड 'ख' लघुउत्तरीयप्रश्नः (4×2=8)
(7) श्रेष्ठः कर्म कः अस्ति?
उत्तर - नियतकर्म:
(8) कः श्रेष्ठः कर्म करोति?
उत्तर - विद्वान
(9) चन्द्रापीडस्य पितुः नाम किम्?
उत्तर - तारापीड:
(10) केषाम् उपदेष्टारः विरलाः सन्ति?
उत्तर - राज्ञाम्
खण्ड 'ग' दीर्घउत्तरीयप्रश्नाः (2 ×3 = 6)
(11) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते
सङ्गोऽस्त्वकर्मणि ॥ अस्य श्लोकस्य अन्वयं लिखत।
उत्तर - ते कर्मणि एव अधिकारः फलेषु कदाचन मा कर्मफलहेतुः
मा भूः ते अकर्मणि सङ्गः मा अस्तु ।
(12) अधोलिखितेषु पदेषु संधि विच्छेदं कुरुत -
(क)
जहातीह - जहाति + इह
(ख)
गुरुपदेशः - गुरु + उपदेशः
(ग)
कर्मणैव - कर्मणा + एव
06.10.2026
खण्ड - 'अ' बहुविकल्पीयप्रश्नः (6 ×1 = 6)
(1) योगसूत्रस्य
रचनाकारः कः ?
(क) कालिदासः
(ख) बाणभट्टः
(ग) पतञ्जलिः
(घ) भारविः
(2) विश्वयोगदिवसः
कदा मान्यते / समायोज्यते ?
(क) 20 जून
(ख) 21 जून
(ग) 25 जून
(घ) 30 जुलाई
(3) 'योगः स्वास्थ्यकरः'
अस्मिन वाक्ये विशेषणं पदम् किम् ?
(क) चतुरः
(ख) स्वास्थ्यकरः
(ग) सुन्दरः
(घ) उत्तमम्
(4) योगस्य कति
अङ्गानि सन्ति ?
(क) सप्त
(ख) अष्ट
(ग) नव
(घ) पञ्च
(5) चित्तवृत्तिः
निरोधः कः ?
(क) योगः
(ख) शोकः
(ग) मौनः
(घ) भोगः
(6) अधोलिखितेषु
पदेषु कस्मिन् पदे 'टाप्' प्रत्ययः प्रयुक्तः ?
(क) बालिका
(ख) बुद्धिमती
(ग) नरः
(घ) नदी
खण्ड - 'ब' लघूत्तरीयाः प्रश्नाः 4x2 = 08
(7) योगः कः
कथ्यते ?
उत्तरम्- चित्तवृत्तीनां निरोधः योगः कथ्यते।
(8) योगाङ्गानि
कानि सन्ति ?
उत्तरम्- यम - नियम - आसन - प्राणायाम - प्रत्याहार - धारणा - ध्यान
- समाधयोऽष्टावङ्गानि सन्ति।
(9) किम् स्वास्थ्यकरः
अस्ति ?
उत्तरम्- योगः स्वास्थ्यकरः अस्ति।
(10) 'समाधिः'
इति पदस्य आशयः किम् अस्ति ?
उत्तरम्- तदेवार्थमात्र निर्भासं स्वरुपशून्यमिव समाधिः अस्ति।
खण्ड - 'स' दीर्घोत्तरीयाः प्रश्नाः 2x3=6
(11) 'महाकाव्यस्य'
वैशिष्ट्यं प्रतिपादयत।
उत्तरम्- सर्गबन्धो महाकाव्यम् कथ्यते। महाकाव्ये न्यूनातिन्यूनम्
अष्टसर्गाः भवन्ति। शृंगारवीरशान्तेषु एकः रसः प्रधानः भवति।
प्रमुख महाकाव्यानि - रामायणम्
- महर्षिः वाल्मीकिः,
महाभारतम् - वेदव्यासः,
किरातार्जुनीयम् - महाकविः
भारविः,
शिशुपालवधम् - महाकविः माघः,
नैषधीयचरितम् - श्रीहर्षः,
रघुवंशम् - महाकविः कालिदासः
इत्यादयः सन्ति।
(12) निर्देशानुसारम्
उत्तरत -
(क) 'योगाङ्गानाम्'
इति पदे का विभक्तिः ?
उत्तरम्- षष्ठी विभक्तिः बहुवचनम्।
(ख) 'वर्धयितुम्'
इति पदे कः प्रत्ययः ?
उत्तरम्- 'तुमुन्' प्रत्ययः।
(ग) 'अवगच्छन्ति'
इति पदे कः उपसर्गः ?
उत्तरम्- 'अव' उपसर्गः।
PROJECT RAIL (JCERT) Weekly Test Answer Key 2024-25
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 11.01.25
Model Question Solution 
PROJECT RAIL (JCERT) Weekly Test Answer Key 2023-24
Useful Link
Class 9th & 10th | |
Class 11th & 12th | |
University Economics | |
11th & 12th Model Question Solution | |
Hindu Mythological Secrets | |
Quiz | |
JAC Exam. Question & Solution | |
Department Letter, Exam. & NEWS | |
TGT-PGT-JPSC | |
Department Letter, Exam. & NEWS. | |
JAC BOARD NEWS | |
Online Test | |
YouTube |
